श्रीश्रीनिवासस्तवः
श्री श्रीनिवासपरब्रह्मणे नमः आत्रेय श्रीवेङ्गटाध्वरिणः कृतौ श्रवणानन्दे प्रथमशतकम् आचक्रायुधमा च मामकगुरोराचार्यवर्गं भजे यस्यान्तर्निगमान्तदेशिकयतिश्रेष्ठौ मुनिर्यामुनः । रामस्तामरसेक्षणः स च मुनिर्नाथः शठारातिरि- त्यन्तस्सन्तमसच्छिदः श्रुतिदृशामग्रेसरा जाग्रति ॥ श्रीः ॥ या कल्याणनिधिर्व्रजन्ति शरणं यामेव धीमेदुरा यक्षेशन्ति ययेक्षिता भुवि जना यस्यै हरिस्तिष्ठते । यस्या जातमिदं वदन्ति भुवनं यस्याः सदस्याः सुरा यस्यामायतते शिवं भगवस्तामिन्दिरां चिन्तये ॥ २॥ माकानेकहगर्वचर्वणचणैर श्रान्तविश्राणनै- र्मानाकाङ्क्षितसंविधाननिपुणे नारायणे जाग्रति । कष्टं कष्ठमुपेत्य दुष्टनृपतिद्वारक्षमा रक्ष मा- मित्याक्रन्दकृतां वृथैव दिवसान्येतानि यातानि नः ॥ ३॥ तूर्णं दुर्नरपालवर्णनमहादुर्नाटकोपक्रमं दोषं शेषयितुं वृषाचलपते तोषं च नेतुं सतः । अत्रामुत्र च लब्धुमग्र्यसुमनोलभ्यानि भाग्यान्यमी पद्माकान्त तव स्तवे भवदवैरार्ताः प्रवर्तामहे ॥ ४॥ वाचा वाञ्छति यत्तव स्तवमिह प्रह्वापि जिह्वा चिरा- दाराध्यामि भवन्तमित्यपदिशंस्तेनापराध्यामि ते । यद्वाऽसावतिबालवागिति कृपाव्याजाय ते जायते सन्दत्ते शिशुकैः शुकैश्च कलितो वर्णोऽपि कर्णोत्सवम् ॥ ५॥ मालीमस्यमवापिता घनतमःप्रायैर्मुरारे चिरा- दिङ्गालैरिव जङ्गमाधमगुणाभासैरियं भारती । तत्तादृग्भिरशङ्करशिरःकम्पस्य सम्पादकै- र्गम्भीरैरवदायते तव गुणैर्गाङ्गैस्तरङ्गैरिव ॥ ६॥ जम्भालम्भनचित्तकम्पनमहाकुम्भाभवक्षोजभृ- द्रम्भाद्यामरशम्भलीदृढरीरम्भादिकं भावुकम् । शम्पालोलमवेक्ष्य मुह्यतु जनः किं पामरेणामुना त्वं पादाम्बुजचुम्बनं भगवतः सम्पादयेथा मनः ॥ ७॥ वेदैर्वक्तुमजादयो गुणगणान् विश्वेश ते नेशते स्तोतुं तान् मितया गिरा व्यवसितो हास्याय हा स्यादयम् । सिन्धुं राघवसेतुनाऽपि तरितुं तं सर्वतो दुश्शकं को वा लङ्घयितुं व्यवस्यति कुशस्तम्बेन कुम्भेन वा ॥ ८॥ मुग्धे वाणि नृणां गुणाः कतिपये मिथ्या निबद्धा इति प्रोत्सिक्ता भगवद्गुणानुकथनारम्भाय किं जृम्भसे । आकृष्टाः कतिचिद् वनेषु हरिणा इत्याजिहार्षामहो लुब्धो लब्धमदो विधास्यति विधोरङ्के कुरङ्गेऽपि कः ॥ ९॥ त्वत्कल्याणगुणामृतार्णवसुधालेशोऽपि लीढो भवं हन्तीति स्तवविस्तरेष्वपटुता नातीव दोषाय नः । आपाताप्लव एव जह्नुदुहितर्यह्नाय शुध्द्यै भवेत् तस्या नेतरगाधवारिषु तलस्पर्शोऽपि नापेक्षितः ॥ १०॥ सन्दर्भे मम माऽस्तु सुन्दरतया सन्तोषसान्द्रो बुधः किन्तु त्वद्गुणलेशपेशलतया सन्तुष्यतु श्रीपते । राजानो मणिपेटिकामवहिता रक्षन्ति यत् तत्र नो पेटीसौष्ठवमेव हेतुरपि तु ख्यातं मणेर्गौरवम् ॥ ११॥ नाद्यं भूतमहो वहामि शिरसा त्वत्पादजातं न च द्वैतीयीकमथ त्वदीक्षणभुवः शौरे तृतीयस्य वा । अन्ते नावसमप्यवाप्य जननं तुर्यान्न वा पञ्चमे किञ्चाहं चरतां गुरुस्तदपि ते स्तोत्रे प्रवर्ते कथम् ॥ १२॥ ओङ्कारस्य रहस्यमित्यज इति ब्रह्मेति सर्वात्मना- मात्मेति प्रकृतेः परः पुरुष इत्याद्यः स्वयम्भूरिति । वेदान्तैरवबोधिताय भगवन् विश्वैकजीवातवे बोधानन्दमयाय सिन्धुदुहितुर्नाथाय तुभ्यं नमः ॥ १३॥ यश्चक्षुर्जगतां तदेव निगमास्त्वञ्चक्षुराचक्षते लक्ष्मीनाथ तथापि दृश्यमितरादृश्यः स्वयं पश्यसि । अप्येतच्छतमन्युपावकजनिस्थानं सदा नः पुन- र्वक्त्रं देव तव प्रसादशिशिरं हर्षं दृशोर्वर्षति ॥ १४॥ तत्तादृक्करुणारसैरविरलैस्त्वन्मानसं शीतलं तापानां त्रितयं हरेदिति हरे धैर्यं ममोदञ्चति । तज्जन्मा विवृणोति शीतकिरणस्तच्छैत्यमत्युज्ज्वलं लिङ्गं कार्यगुणं हि कारणगुणे शंसन्ति निस्संशयम् ॥ १५॥ नित्याय स्वतनुस्थवारिधिवरापत्याय मृत्युञ्जय- स्तुत्याय क्षपितप्रणम्रजनदौर्गत्याय सत्यात्मने । इच्छानिर्मितविश्वजन्यवनसंहाराय निश्श्रेयस- द्वाराय स्थिरसम्पदे नम इदं नारायणायास्तु ते ॥ १६॥ दीनानां सुरधेनवे तनुभृतामन्तस्तमोभानवे मायातूलकृशानवे कलयते मानक्षतिं दानवे । निर्धूताखिलकर्मणे विनमतां नित्येन्दिरानर्मणे तुभ्यं निर्मलधर्मणे नम इदं कुर्मः परब्रह्मणे ॥ १७॥ पादाम्भोजमहं भजामि भवतो वेदाञ्चलैरञ्चितं प्रख्यातात् किल पन्नगाचलपते यस्य प्रभावादसौ । सिद्धा मूर्ध्नि फनीश्वरस्य पृथिवीं शर्वस्य चापो मुने- रग्निश्चाक्षपदस्त्रिवर्णजनुषां शुश्रूषकाप्तिस्तथा ॥ १८॥ मूर्तीनां तिसृणां परा तु कतमेत्यब्जाक्ष संशेरते भ्रान्तिं यान्ति च देवतान्तरपरैर्ये वाङ्मयैस्तामसैः । यः पादाम्बु ददाति यस्तदुपसङ्गृह्णाति गृह्णाति वा यश्चैतच्छिरसैव तेषु परमः को वेति पृच्छामि तान् ॥ १९॥ पर्यङ्कस्तव पङ्कज्जाक्ष गिरिजाप्राणेशितुर्भूषणं चारु त्वच्चरणारविन्दसलिलं चूडापदे मालिका । मन्त्रो नित्यजपोचितो ननु भवन्नामैव तद्योषितः पारम्ये भवतो मुकुन्द भुवि कः सन्देग्धि मन्देतरः ॥ २०॥ नालीके जननं स्थितिं च भजतो नारायण ब्रह्मणः स्थानेऽभूद् रज एव कारणगुणः कार्ये हि सूते गुणम् । ईशाने पुनरन्धकारिपदभाज्यर्हं तमस्तत् किल श्रीवासे त्वयि सारसत्वविभवः सञ्जाघटीति स्फुटम् ॥ २१॥ नागेन्द्राद्रिविहार सारसवनस्तोमप्रकाशावहा धीरोदारपदक्रमा मतिमताध्येया सुवर्णाकृतिः । पुष्यन्ती निजमौलिना सुमनसो ज्योतिष्मदङ्गोज्ज्वला त्रय्येषा सुरपूज्य रज्यतितरां त्वय्येव लक्ष्मीरिव ॥ २२॥ नित्पापाकृतमीर्निरत्ययशुभाधारैर्वृतो बान्धवैः प्रौढाभस्थिरधीरसन्नभवनस्थायी व्यथाभारहृत् । सद्गोष्ठीषु सदा विभानमधिकं प्राप्तः श्रितस्त्वां हरे तत्तुल्यस्त्वदनाश्रितश्च भगवन्नन्त्ये भङ्गं विदुः ॥ २३॥ श्रेयस्तोयदसम्प्रदायरसिकच्छायः सहायः श्रिय- श्चिन्तारत्नसपत्नवीक्षितलवश्चेक्रीयतामन्वहम् । यो विश्वेन च गात्रवान् हिमरुचाऽप्युष्णांशुना नेत्रवान् सुग्रीवेण च मित्रवान् कुशलवब्रह्मादिभिः पुत्रवान् ॥ २४॥ पूर्वं त्वत्पदपांसुना बलिरिपो पूता जलध्यद्गना पुंसः साऽपि सुरापगा वितनुते पूतान् सुरापानपि । पत्नी योगिवरस्य सा सुरपगा प्राप्ता विशुद्धिं परां तेनेत्यत्र न विस्मयः स मम किं पापं न लोपं नयेत् ॥ २५॥ मामाराध्य दुरत्ययं स्वयममी मायापयोधिं तर- न्त्वित्यालोच्य सहेन्द्रियैरिह वपुस्त्वं चेतनेभ्योऽदिशः । तेष्वेके तत एव दुष्कृतशतं सञ्चिन्वते श्रीपते क्लृप्ते तापशमाय विन्दति सरस्यन्धस्तु पातव्यथाम् ॥ २६॥ गोविन्देति कृपाकरेति कमलाकान्तेति कृष्णेति वा काकुत्स्थेति रघूद्वहेति जलदश्यामेति रामेति वा । वैकुण्ठेत्यतिचण्डकण्टकवनीदावेति देवेति वा शेषाद्रीश तवैव नाम कथयन् श्रेयो न विन्देत कः ॥ २७॥ कल्याणैकनिकेतनं तदनघं कालाम्बुदश्यामलं चित्ते नृत्यतु शेषभूधरशिरोरत्नं चिरत्नं महः । यस्योरस्यनिशं सुता जलनिधेर्यस्यास्ति तन्मेखला पार्श्वे यस्य पदे च तत्प्रियतमा यत् तत्र शेते स्वयम् ॥ २८॥ दुरादेव निरस्य दुष्टनृपतिद्वाराग्रनित्यस्थितिं तारावल्लभदुर्लभप्रभमुखं धाराधरश्यामलम् । पारावारसुतासखं सुमनसामाराधयामः प्रभुं घोरापारसमस्तदुष्कृतपरीहाराय नारायणम् ॥ २९॥ कीर्तिं नश्चिरवर्तिनीं क्षितितले पुष्णातु कृष्णाम्बुदः कश्चित् तापहरो गृहीतकमलः कल्लोलिनीवल्लभात् । धिन्वन् जीवनदानतो जगदिदं तन्वन्नदीनां श्रियं प्राप्तः साधुकदम्बजृम्भणकरः श्रीवेङ्कटक्ष्माधरम् ॥ ३०॥ आस्तामष्टनवैर्दिनैरपयती प्रास्तापर्वर्गस्पृहा वृष्णोन्तःपुरकेळिताण्डवविधौ तृष्णा कदुष्णाञ्चिता । दीक्षामाश्रितरक्षणे कृतवतो मोक्षाय लक्ष्मीपतेः साक्षदेव पदारविन्दविषयां प्रेक्षामपेक्षामहे ॥ ३१॥ कल्याणानि चिरं तरङ्गगयतु नः कारुण्यकल्लोलिनी- कान्तस्स्वान्तचरस्सतां सफलयन् काकोदरेन्द्राचलम् । आमोदादमृतं ददाति विबुधव्राताय जातादरो गाम्भीर्यैकनिधिर्घनैरभिगतो यो जीवनप्रेप्सुभिः ॥ ३२॥ पुण्यारण्यमहीरुहैरविरले पुष्पासवैश्शीतले नानादिग्जनसेव्यमान शिखरे नागाधिपक्ष्माधरे । आविर्भूतमुपासितं मुनिजनैरप्राकृतं दैवतं पद्माकान्तभुजान्तरं शुभपरीपाकाद्विलोकामहे ॥ ३३॥ अङ्घ्रिं जिघ्रति वेङ्कटाचलपतेरारुह्य चोरुद्वयी- मध्यास्ते रशनामथाटति कटोमासेवते नन्दकम् । वक्षस्थां श्रयते श्रियं विहरते शङ्खे रथाङ्गे च धी- रालीढे मुखचन्द्रमण्डलसुधां कोटीरमाटीकते ॥ ३४॥ ध्यातं योगकलाविलासरसिकैश्शीतं दयास्रोतसा ख्यातं मौळिषु कृत्रिमेतरगिरां क्रीतं श्रिया विभ्रमैः । वेतण्डेन्द्रविपद्विमोचनचणं वातन्धयक्ष्माधरे जातं धाम निरामयं प्रशमयत्वा तङ्कजातं मम ॥ ३५॥ हेमाटोपविडम्बिगात्रसुषमां वामालकां कामपि प्रेमावेशवशेन वक्षसि वहन्वैमानिकेन्द्राञ्चितः । क्षेमाणि स्वयमातनोतु जगतां कामाभिरामाकृतिं- र्भूमा कोऽपि भुजङ्गभूधरशिरस्सीमातमालोपमः ॥ ३६॥ प्रातर्नातनवं तवाभिगमनं पश्चात्त्वदर्चाक्षमं द्रव्यं नार्जयमाचरं न च ततः प्राज्यां त्वदिज्यामषि । स्वाध्यायं न च हर्षहेतुमजपं नाध्यायमङ्घ्री च ते तन्मे जन्म विपश्चितोऽपि विफलं शौरे तिरश्चामिव ॥ ३७॥ भोगीशानमहीधरेन्द्रमकुटीपाटीरवाटीचर- द्भिल्लोत्फुल्लसरोजपत्रनयनानेत्रैकपात्रायितः । नाभीपद्मनिवासिधातृवदनप्रोद्यज्जरद्भारती- गानाकर्णनहृष्टकर्णयुगळः पायादपूर्वः प्रभुः ॥ ३८॥ नाभेरेव बभूव यस्य गगनं नेत्रादसौ तन्मणिः चित्तात्तत्परिपन्थि धाम शिशिरं तच्छेखरः फालतः । प्राणात्तत्करकङ्कणाशनमदोमित्रं च वक्रादयं शेषाद्राववलोकितो हरिरुरोभूषायितान्तःपुरः ॥ ३९॥ शौरे वाहनयाञ्चकर्थ शकुनिं मुक्त्वा गजाश्चादिकान् सर्पे संविशसे कथं मणिमये तल्पेऽप्यनल्पे सति । विस्तीर्णालयहीनवत् सुबहुषु स्थानेषु सत्स्वप्यहो पुत्रं नाभिबिले न्यधाः कथमिमां पत्नीं च वक्षस्थले ॥ ४०॥ अविरतमधुपानक्षुभ्यदक्षिभ्रुवाणा- मवनिभृदधमानामास्यमात्मम्भरीणाम् । परुषतममपास्य प्रत्यहं नित्यहर्ष- प्रदमिदमवलोके पद्मनाभाङ्घ्रिपद्मम् ॥ ४१॥ सकलकुशलदायी सर्वदेवातिशायी प्रबलदुरितलावी भक्तचित्तानुसेवी । भवगहनविदारी पारिजातापहारी फणिपतिगिरिवासी पादु पद्माविलासी ॥ ४२॥ उरुतरदुरितैघध्वंसदक्षैः कटाक्षैः उपचितकमलानामुत्पलश्यामलानाम् । फणिगिरिनिलयानां भक्तदत्ताभयानां दृढमतिरहमद्य स्तोममभ्येमि भासाम् ॥ ४३॥ प्रबलदनुजपाळीप्राणसंहारकेळी- पटिमघटितकीर्तिर्भास्वदानन्दमूर्तिः । फणिगिरिगृहमेधी भक्तबाधानिरोधी भवतु हृदि ममायं प्रास्तुवन्नागमा यम् ॥ ४४॥ कमलविमलशोभाविभ्रमादभ्रमान्- क्षपणनिपुणवक्त्रः कौणपानाममित्रः । उरसि सरसिजाक्षीमुद्वहन्विद्वदाढ्यं- करणचरणरेणुः कोऽपि पायादपायात् ॥ ४५॥ विविधनिगमसारे विश्वरक्षैकधीरे वृषशिखरिविहारे वक्षसाऽऽश्लिष्टदारे । भगवति यदुवीरे भक्तबुद्धेरदूरे भवतु चिरमुदारे भावना निर्विकारे ॥ ४६॥ अनिशमुरुभिरत्रामुत्र च क्लेशमूलैः किमुदरभृतिकार्यैराप्रयाणादवार्यैः । सुखमनघमवाप्तुं सोऽहमम्भोदभासं फणिपतिगिरिवासं भावये श्रीनिवासम् ॥ ४७॥ प्रतिकटकमटित्वा पार्थिवाग्रे नटित्वा पटुचटुशतमुक्त्वा पातकान्येव कृत्वा । किमिह फलमवाप्तं केवलं कैटभारेः स्मर चरणसरोजे सन्तराम्यन्तरात्मन् ॥ ४८॥ वशयति हृदयं मे वर्षति श्रीश हर्षं जनयति परिशुद्धिं जायते मङ्गळाय । दमयति परितापं देव निर्हन्ति पापं दरमपि विधुनीते दर्शनं तावकीनम् ॥ ४९॥ कबलितघनवर्गः कान्तिभिः पेशलाभिः कमलवननिवासाकान्तबाहान्तरालः । पुरुष इह रथाङ्गी पूर्णिमाचन्द्रबिम्ब- प्रतिभटवदनश्रीः प्रातराभातु चित्ते ॥ ५०॥ सुरतरुरिवोदारो दारोपशोभिभुजान्तरः मधुरकरुणालोको लोकोपरक्षणदीक्षितः । अखिलसुमनःकोटीकोटीरचुम्बिपदाम्बुजः फणिधरणिभृन्मल्लो मल्लोचनाभरणायते ॥ ५१॥ तमुपनिषदां सारं सारङ्गलाञ्छनलोचनं प्रकटितकृपासारं सारम्भमाश्रितपालने । लयमिह रुषा वारं वारं नयन्तममुं द्विषां वृषगिरिपतिं वारं वारं शुभाय विचिन्तये ॥ ५२॥ मुनिभिरनिशं ध्येया गेया सुरप्रमदाजनैः वलभिदुपलच्छायादायाददीप्तिलसत्तनुः । उरसि विहरज्जाया कायाधवाभयदायिनी विहितदुरितापाया पायाद्वृषाचलदेवता ॥ ५३॥ दुरितभरिते दुर्देहेऽस्मिन् दुरामयदूषिते मम नवनवस्तर्षोत्कर्षो भवत्यनिवारितः । अमुमपनयन्नम्भोजश्रीकदम्बविडम्बके तव हृतनमत्खेदे पादे रुचिं रचयेशितः ॥ ५४॥ अभिगतिमुखैरस्यामि श्रीनिवास न वासरान् प्रशमितभवोद्वेगैर्योगैर्नयामि न यामिनीः । न च विरचये नाथ त्रुठ्यत्तमांसि नमांसि ते तदपि भवता हा मे मुक्तिस्पृहाऽपि न हापिता ॥ ५५॥ दुरत्ययरुजातुरे दुरितधूसरे नश्वरे हरे बत कलेबरे मतिहरे कृतघ्नोदरे । स्पृहामिह विहाय ते स्मरति मानसं मे यथा तथा कुरु सुधाब्धिजासख दयामविघ्नोदयाम् ॥ ५६॥ तमःप्रकररुद्धये तदनु सत्त्वसंवृद्धये विशुद्धमतिसिद्धये विमलनिर्बृतेर्लब्धय । भवन्तु मयि सन्ततं भगवतो वृषाद्रिप्रभोः प्रगेतनपयोरुहप्रतिभटाः कटाक्षच्छटाः ॥ ५७॥ प्रपन्नानां नानादुरितपरितापव्यतिकरं निरुन्धाना धानाप्रदमुनिधनेशीकृतिचणा । प्रबिभ्राणाऽभ्राणामपि मदहरां दीप्तिमनघाम् भृताशेषा शेषाचलशिखरभूषा विजयते ॥ ५८॥ मुदे वो देवोऽयं भवतु भुजगेन्द्राचलतटी- कृतावासो वासोरुचिनिचयधूताचिररुचिः । गजादीनां दीनां शमयितुमवस्थां करुणया निजग्राह ग्राहप्रभृतिरिपुवर्गं सपदि यः ॥ ५९॥ अभीष्टं वो दुग्धामखिलमिह गोपालतिलकः पयोदश्यामाङ्गः फणिधरणिभृत्काननचरः । अघा सं वद्धानामहह जरतीनामपि गवां परीपोषं कुर्वन् रसममितमुत्पादयति यः ॥ ६०॥ नमस्तस्मै भस्मीकृतनरकबाणादिविबुध- प्रतिद्वन्द्विश्रेणीविषतरुवनीकाय महते । हुतानां हव्यानां नियतमुपभोक्त्रेऽधिसवनं प्रशस्ताराध्याय प्रचुररुचये निस्यशुचये ॥ ६१॥ विहारि जगदुद्भवस्थितिविलोपनैर्यातनां धुनातु मिथुनं मिथस्तदवियोगि यत्रैककम् । वदन्ति वसुधाधरं पुनरचञ्चलाभं बुधाः परं नवसुधाधरं स्फुरति चञ्चलाभं तथा ॥ ६२॥ शुचये रचये प्रणाममस्मै प्रभवे सुप्रभवेषपेशलाय हरये निरयेक्षणं क्षणं यं विनता नो जनता कदाप्युपैति ॥ ६३॥ कलिकल्मषहारिनामधेयं कलये तापसमानसावधेयम् । मदनस्पृहणीयरूपधेयं तदनन्ताचलमौलिभागधेयम् ॥ ६४॥ तव सागरभूस्तु धर्मपत्नी दिवसानामधिपो निवासवेदिः । शिवधातृमुखास्सुतास्त्वदन्यै- रवधार्यो महिमा कथं त्वदीयः ॥ ६५॥ मधुरं विधुरम्यवक्त्रबिम्बं महितं धाम हितं मखाशनेभ्यः । तदहं मदहन्तृ दानवानां विदधे भीत्युदधेः प्लवं गुणाढ्यम् ॥ ६६॥ नमतां ममतावलेपहन्त्रे वरदाय स्फुरदायतेक्षणाय । करवै मुरवैरिणे प्रणामा- नुरगोर्वीधरगो य एष भाति ॥ ६७॥ करुणावरुणालयं मुरारे कमलाक्षं कमलाक्षमासमेतम् । भजते निजतेजसा जितार्कं विगतांहा जगतां धुरन्धरं त्वाम् ॥ ६८॥ अनन्तशैलेश तवाभिधानं क्षणं गृणन्तः प्रविशन्ति नाकम् । रमासख त्वद्विमुखाश्च मध्ये रसङ्गतं हन्त तमेव यान्ति ॥ ६९॥ प्रसाधयेद् यां तपसा चिरेण स्मरान्तक श्लाघ्यतरां गतिं ताम् । वृषाचलारण्यनिषादकाना प्रसादलेशेन न साधयेत्किम् ॥ ७०॥ ददासि दासप्रकराय राय स्तथाऽपि नाथ त्वमकम्पसम्पत् । श्रियो वियोगस्य कथा कथं स्या- दहीनपृथ्वीभृदुपाश्रयस्य ॥ ७१॥ प्राप्तोदयो हि प्रथमाद्रिशृङ्गे दोषावसाने हरिरेष दृश्यः । संशोषयन्मानसवृतिपङ्गं प्रसन्नपङ्केरुहशोभनाभः ॥ ७२॥ सा काऽपि राकाशशिदास्यदास्य- मुद्रा समुद्रात्मजया जयाढ्या । शेषाद्रिभूषा जलदाविशेषा पायादपायाद्वसतिः कृपायाः ॥ ७३॥ अन्यादृशी तार्क्ष्यरथा सुधाब्धि- कन्यापदन्यासविशेषधन्या । मूर्तिर्मदार्तिं महनीयकीर्ति- र्मुष्णातु कृष्णा विनतेष्वनुष्णा ॥ ७४॥ भवान् पुराणः पुरुषः प्रसिद्धो वयोऽधिकं तावकवाहमाहुः । कापि त्वरा ते करिराजगर्जा- काले कथङ्कारमभून्मुरारे ॥ ७५॥ नरे नरेऽहं धनचापलेन नवं नवं व्यातनवं स्तवं यत् । ततस्ततं दोषमशेषमुञ्चै- स्तव स्तवः श्रीकमन च्छिनत्तु ॥ ७६॥ न मे मनो योषिदुरोजकुम्भे न स्वीयडिम्भे न च शातकुम्भे । परं तु रन्तुः कमलालयायाः पदारविन्दे रुचिमेव विन्दे ॥ ७७॥ अभूरिवर्षोन्मुखमेघसुन्दरै- रनाश्रितश्रीवृषशैलकन्दरैः । अनिन्दिरामन्दिरसद्भुजान्तरै- रलं बतान्धै रिह देवतान्तरैः ॥ ७८॥ त्वदङ्घ्रिपद्मैकधना धनान्तरं न कामयन्ते न च साधनान्तरम् । अनन्तशैलेश भवन्तमेव यत् फणन्त्युपायं च फलं च पण्डिताः ॥ ७९॥ नलिननयन नागशैलवासिन् मलिनहृदामपि कल्मषापहन्तः । जननमरणरोगदुःखशान्त्यै चरणयुगं शरणं वृणे त्वदीयम् ॥ ८०॥ गोवर्धनोऽपि शिरसा विधृतः किमन्य- द्येन त्वयाधिजठरं सकलोऽपि लोकः । तस्मिन्निह त्वयि वृषाद्रिपतेऽहमात्म- रक्षाभरं कृशतमो निदधामि दक्षे ॥ ८१॥ किं भो मनः कितवलम्पटशम्भलीनां सम्भोगकेलिकिलिकिञ्चितसम्भ्रमेण । अम्भोजदम्भहरनेत्रयुगो यशोदा- डिम्भो रसेन भवता परिरम्भणीयः ॥ ८२॥ मोट्टायितं त्रिदशपट्टणकुट्टिनीनां दृष्टं विनष्टमिदमष्टनवैर्दिनैस्तत् । हृट्टीकतां स्थितिमदुष्टिनि शुक्समष्टि- कुट्टाकदृष्टिनि धृतक्षिणि वस्तुनीदम् ॥ ८३॥ दम्भोलिपाणिपुटभेदनशम्भलीनां वक्षोजकुम्भपरिरम्भसुखोपलम्भम् । मा नाम चीकमत मानसमस्मदीयं वैकुण्ठचिन्तनरसैर्वयमुत्सुकाः स्मः ॥ ८४॥ न मणीन् रमणीश्च सोऽहमीहे न हयेभ्यः स्पृहये न वा गजेभ्यः । वरदश्शरदश्शतं दृशौ मे भुजगाद्रौ शरणार्थिनो धिनोतु ॥ ८५॥ कारागेहे संसृतिरूपे भ्रमतो मे का रागे हे कृष्ण विवृद्धे मतिवार्ता । नागोदाराहार्यपते मां स्वयमव्या नागो दारालङ्कृतमूर्ते मम वीक्ष्यम् ॥ ८६॥ वन्दारुषु मन्दारममन्दार्तिहरं ते वन्दामह इन्दावपि निन्दावहमास्यम् । मारारिकुमारादिसमाराधितमूर्ते नारायण घोरादपचारादिह पायाः ॥ ८७॥ प्रधानाय सम्पन्निधानाय भक्त- व्यथानाशदत्तावधानाय तुभ्यम् । समस्ताधिनाथ स्वमस्थाभिक्लृप्तं नमस्स्तादिदं निस्तमस्ताविधायिन् ॥ ८८॥ नागराजाचले सागराग्र्यात्मजा- कान्तबाहान्तरो दान्तबाधाहरः । वारिजाक्षश्श्रयत्पारिजातो जग- द्राजते रक्षितुं राजतेजोमुखः ॥ ८९॥ मरुतां भगवन् मरुतां विरतिं लषतां मिषतां द्विषतां ततयः । भवता मनुजीभवता मृदुतां जहता महता निहता इह ताः ॥ ९०॥ किञ्चित्सञ्चिन्तये गोपीकिलिकिञ्चितवञ्चितम् । अञ्चितं ज्योतिरमरैरञ्जनाद्रावुदञ्चितम् ॥ ९१॥ सर्वदानन्दनिलयं सार्थयन्नवनीतहृत् । कृष्णस्त्वं वेङ्कटाधीश किं तु शैलेन धार्यसे ॥ ९२॥ वृषाचलपते कृत्स्नविषादहरणक्षमम् । प्रपद्ये भवतः पादपयोरुहमहं कृशः ॥ ९३॥ मानयामो हरे न त्वामानयामो न ते मुदम् । पनायामोऽहह क्षुद्रान् धनायामोहतो हताः ॥ ९४॥ प्रपद्ये निरवद्यं तत्फणिभूधरभूषणम् । परब्रह्म हरब्रह्मदुर्लभं वल्लभं श्रियः ॥ ९५॥ अञ्जनमहीधरचरं जनमनीषा- रञ्जनमधोक्षज निरञ्जनमिह त्वाम् । लोचनयुगीकृतविरोचनसुधांशुं केचन भजन्ति भवमोचनमभिज्ञाः ॥ ९६॥ सञ्चरति योगिहृदि किञ्च रविबिम्बे यो लसति नीलघनजालसममूर्तिः । निष्कृतिविहीनबहुदुष्कृतिसमुत्थं सङ्कटमपास्यतु स वेङ्कटगिरीशः ॥ ९७॥ इन्दुकरबृन्दपरिकन्दलदमन्दा- नन्दकरमन्दहससुन्दरमुखश्रि । निस्तुलमुपस्थितमुरस्स्थितवरस्त- न्यस्तु मम शेषगिरिमस्तगतवस्तु ॥ ९८॥ प्रशमितपिशिताशं प्रास्तसंसारपाशं कृतनतगदनाशं कीर्तिभिस्स्मेरिताशम् । नवजलदनिकाशं नागशैलप्रकाशं परिहृतविषयाशं भावयामो रमेशम् ॥ ९९॥ कल्याणाभ्यामशेषाभ्युदयविभवसम्पीडनक्रीडनाभ्यां नाभ्यामभ्युद्गतस्य द्वियुगमुखशिशोः श्रूयमाणस्तवाभ्याम् । बोधामोदार्णवाभ्यां भुजगपरिबृढक्ष्माधरालङ्कृतिभ्यां दिव्याभ्यां दम्पतिभ्यां भवतु नम इदं देवतासेविताभ्याम् ॥ १००॥ ॥ इत्यात्रेय श्रीवेङ्कटध्वरिकृतिषु श्रवणानन्दे श्रीनिवासस्तवे प्रथमशतकम् ॥॥ अथ द्वितीयशतकम् ॥ श्रियः प्रियतमं सेवे शेषाचलशिरोमणिम् । महितं सुमनोबृन्दैर्मन्दारमिव मादृशाम् ॥ १॥ कमनीयैर्निजालोकैः कमलानन्दकारिभिः तमसामपनेतारं तमेव हरिमाश्रये ॥ २॥ परिष्कृताञ्जनधरं परं श्रुत्यन्तगोचरम् । लोचनं स्तौमि लोकानां किमप्यज्ञानमोचनम् ॥ ३॥ प्रतीपशरभारावलोपकं गजपालकम् । दधामि हरिमाश्चर्यं गुहाशयमिहाश्रये ॥ ४॥ अदृश्यं योगिवर्यैरप्यब्जदीप्तिकरं हरिम् । उपतिष्ठेऽधिकारुण्यमुद्यन्तमिव भास्करम् ॥ ५॥ देवतामादिमां वन्दे धृतां भुजगभूभृता । समुद्रमाश्रितामुर्वीं पृथुचापप्रसाधिताम् ॥ ६॥ आनन्दनिलयं वन्दे श्लाघ्यं दुग्धार्णवादपि । श्रीधरं यत्र जागर्ति परं ज्योतिर्निरञ्जनम् ॥ ७॥ प्रपन्नाभयदोस्मीति सत्यापय वचो मयि । नाळीकशब्द उचितः श्रीनिवासस्य ते यतः ॥ ८॥ प्रपञ्चास्यमुपास्य त्वां नृपञ्चास्यति मानवः । करोषि तस्य यत्स्वामिन् करोषितमभीप्सितम् ॥ ९॥ वृषाचलेशस्य तुषारदीधितित्विषा मुखेनार्तविषादहारिणः । मुदां निदानं द्युसदावलिस्तुतं सदा पदाम्भोजमुदारमाश्रये ॥ १०॥ सकृत्प्रपन्नाय कृशाय दैवतैरनाप्यमप्यर्पयसि स्थिरं पदम् । दयालुता माधव दुर्बलेषु हि प्रभूत्तमानां परमं विभूषणम् ॥ ११॥ अजस्रमप्यब्धिसुतां वहन्नुरस्यजामधिष्ठाय सृजन् प्रजा हरे । भवत्यहो मन्मथजन्मभूर्भवान् तथापि कन्दर्पजिताऽभिमन्यसे ॥ १२॥ त्व किमिन्दुना तेन कलङ्कितेन यं प्रबिभ्रतो नापगतान्धकारिता । तवैव वीक्षे मुखचन्द्रमद्भुतं तमो मुरारे हरति स्मृतोऽपि यः ॥ १३॥ पतङ्ग उद्यन्नुपमानतां भव- स्पदो नु[दोर्न]देव प्रतिवक्तु [पत्तु]मर्हति । असंशयं दुष्यति यस्य दर्शने जनो ययोस्त्वभ्युदयं प्रपद्यते ॥ १४॥ फणभृदद्रीश गुणालिभिः क्षमा- घृणाविरोधिक्षपणादिभिश्श्रुतम् । प्रणामतस्त्वां निपुणाश्रयं त [-णः श्रयन् स]दा नृणां पतीनेव तृणाव[य] मन्यते ॥ १५॥ मनस्तुरङ्गं विषयच्छटावटान्तरे गभीरेव द[पत]यालुमाशु मे । वितु[कृ]ष्य दक्षं विरचय्य शिक्षया हरे तदु[मु]च्चैरधिरोढुमर्हसि ॥ १६॥ स्थिरमङ्गलदायकम् श्रितानां परमं धाम वृषाद्रिधाम वन्दे । स्मरमन्युमदैर्गदैरयुक्ता न रमन्ते हि यतोऽपरत्र युक्ताः ॥ १७॥ वलवैरिशिलावलेपलोपक्षमभू[भा]मण्डलभव्यदिव्यदेहम् । प्रणमत्तित्रदशा[शं] दृशोः पुरस्तात् परमं वस्तु तदस्तु निष्कलं मे ॥ १८॥ तरुणार्ककरावमर्शहृष्यन्नलिनाहङ्कृतिहुङ्कृतिप्रवीणम् । भवमोचन लोचनद्वयं ते भगवन्मामकमानसे चकास्तु ॥ १९॥ भुवनाभ्युदयावनान्तलील स्तवनादेव सतीहितार्थदातः । तव दास्यपदे मयीह शौरे भवदावानलपातिता न युक्ता ॥ २०॥ वृषशैलवनस्थलीविहारी मधुहारी सुमनश्शिरस्सु नित्यम् । निहिताङ्घ्रिरलङ्कृतागमान्तो मम चेतःकमले तु लालगीतु ॥ २१॥ द्युतरो नमतां प्रसीद शार्ङ्गिन् इतरोपायविधावहं न शक्तः । तरणौ तरणे त्र[कृ]पां सृजन्तौ चरणौ ते शरणं वृणे शरण्यम्[ण्य] ॥ २२॥ इदमेव पदं सुरस्रवन्तीं जनयित्वा शिवयाम्बभूव शम्भुम् । इति माधव दर्शयन् करस्ते सततं लोचनगोचरो मम स्तात् ॥ २३॥ जगदण्डसहस्रभारखेदो जठरस्यातिकृशस्य जतु मा भूत् । इति तद्बलकल्पनाय कट्यां कलितं श्रीधर चिन्तये करं ते ॥ २४॥ नतिरस्तु तटिद्धनद्युतिभ्यां श्रितशेषाचलशृङ्गसङ्गतिभ्याम् । परिपालितभक्तसन्ततिभ्यां प्रथमाभ्यामनुरूपदम्पतिभ्याम् ॥ २५॥ हरिनीलनिभं हरेरुरस्तत्कलये श्रीः किल यत्र वर्तमाना । उषिता ध्रुवमुत्पलेऽपि नीले कमला पद्म इवेति सौति बुद्धिम् ॥ २६॥ गारुत्मतद्युतिविडम्बिनि कैटभारे गाढे विराजति तवोरसि कौस्तुभोऽयम् । दीव्यत्तमालगहनाहितमेचकिम्नि प्राच्यावनीधरतटे भगवानिवार्कः ॥ २७॥ सर्वज्ञमस्तकगृहीतकलस्य तस्य भ्रातुर्विधातुमनसः परमं प्रक[ह]र्षम् । लक्ष्म्याः किमिङ्गितमवेत्य वृषाचलेन्दो वक्त्रेऽर्धचन्द्रतिलकं वहसि प्रसन्नः ॥ २८॥ गोवर्धनं धृतवता गुणपूर्ण मूर्ध्ना मन्थानमप्यचलमूढवता महान्तम् । अम्भोरुहाक्ष वहसे किमपक्षपातात् तं चारु काञ्चनमयम् च [गिरिं सु]मेरुम् ॥ २९॥ प्रह्लादवारणविभीषणभानुसूनु- पाञ्चालराजतनयाप्रमुखावनेन । तावद्बभूव तव नैवे वृषाचलेन्दो यावद्यशोऽतिकृशमादृशरक्षणेन ॥ ३०॥ ग्राहग्रहेण विरटन् करटीव नैते लोकान्तरागमविलम्बसहिष्णवो मे । इत्यस्मदाद्यलसदासरिरक्षिषातो जागर्ति[र्षि] नाथ वृषभूभृति सावधाने[नः] ॥ ३१॥ यन्मेखलापरिलसन्मणिमञ्जुदीप्ति- पीताम्बरस्सु[रं सु]मनसः कथयन्ति या[यं] च । यद्भोगिभूभृदिति यश्च हरे प्रसिद्धं वासस्तवावहतु तञ्च स च श्रियं नः ॥ ३२॥ अत्युन्नतं तिलकभूषितमायताक्ष- मुद्भासिमेखलमुदारसहस्रपादम् । शेषाचलेशितरनन्तपदाभिधेयं त्वां त्वद्गिरिं च सममेव विचिन्तयामः ॥ ३३॥ अल्पेतरश्रमविकासकरैरसारै- र्घोरैरलं तव[बत] लुलायकुलानुसारैः । काङ्क्षाधिकार्पणकृतत्रिदिवद्रुनिन्दे वन्दे मुकुन्द भवतश्चरणारविन्दे ॥ ३४॥ अक्षाणि मे विषयपङ्कमलीमसानि प्रक्षिप्य [-क्षाल्य] नाथ गुरुणा करुणारसेन । पादाम्बुजे ननु निजे अमृतप्रदो [दे] षडेतानि तल्पदय [सङ्गमय] षट्पदकूजितानि ॥ ३५॥ मन्देतरस्फुरणमङ्गलकालमेघ- मन्देहदायिसुषुमैकनिकायकायम् । वन्दे तमेव वरदं शरम्बुजाक्षं यं देवमाहुररविन्दगृहासहायम् ॥ ३६॥ कमलनयन दीव्यत्कौस्तुभोदारदीपं भवनभवतु नस्तद्बाहुमध्याभिधानम् । प्रथितसदनुभावैस्सात्विकैर्भाव्यमानं यदुतिलक समिन्धे यत्र शृङ्गारवत्वम् ॥ ३७॥ अनुचितमहमीदृङ्मुक्ततां यत्समीहे मशकशिशुरिवोच्चैर्भक्त [मत्त] मातङ्गरूपम् । क्षममिदमथवा मे त्वां प्रपन्नस्य तूर्णं तृणमपि वृषशैलाधीश दिव्यास्त्रयन्तम् ॥ ३८॥ विषद[ज]विततिरास्तामुत्पलं धिक् सरोगं कृतमतिकठिनैस्तैर्गोत्रभिद्ग्रावभिश्च । नियतममृतदं ते निर्मितातङ्कभङ्गं वपुरतिसुकुमारं वासुदेव स्तुतो[वेऽ]हम् ॥ ३९॥ प्रकृतिमहदहङ्कृत्यादिकं तत्त्वजातं पुरुषमपि शरीरं तावकं सङ्गिरन्ते । मधुमथन परं ब्रह्मैकमेवाद्वितीयं त्वमसि तदखिलश्रुत्यन्ततात्पर्यभूमिः ॥ ४०॥ निखिलविहितहातॄन् नीतकालान्निषिद्धैः निरुपधिकरुणाब्धिस्त्रातुमस्मानकस्मात् । विभुरपहतपाप्मा विश्वभूतान्तरात्मा- प्यधिवससि वृषागाधित्यकां सत्यकामः ॥ ४१॥ पुनरपि जननीनां चेन्न कुक्षौ विविक्षा निरवधिनि सुखे चेदस्ति साक्षादपेक्षा । चरणनलिनयुग्मे तावके देव के वा शरणवरणमेते श्रीपते नाचरन्ति ॥ ४२॥ वरद मदपचाराः किञ्चिदालोचिताश्चे- न्नलिननयन नालं नारकास्त्वत्प्रक्लृप्ताः । वितरणकरुणाद्यास्त्वद्गुणाश्शीलिताश्चे- दमृतमपि सुधान्धुं [सुरान्धः] स्वल्पमित्यप्यवैमि ॥ ४३॥ हृदि मम कलुषेऽस्मिन् पादपद्मं त्वदीयं चरतु कथमिदं ते नाथ हन्तेति चिन्ताम् । दुरुपलसुतनृकृत्यद्भुतानःप्रहार- प्रभृति चरितमस्य श्रीपते निर्धुनीते ॥ ४४॥ अशरणं भगवन्नभिरक्ष मामयमहं भवतः करुणापदम् । प्रचुररोगगणेन च पाप्मनां ननु यतश्चयतः प्रसृतोऽस्म्यहम् ॥ ४५॥ अतितरामपराधपरम्परां रचयतो मनुजानभिरक्षितुम् । कमलया सहखेलमभूषयन् हि[द्धि]ततमं ततमञ्जनभूधरम् ॥ ४६॥ त्रिभुवनैकवदान्यमनन्यधीः किमपि नाथ भवन्तमिहार्थये । तव पदाम्बुजभक्तिमनुत्तमां कलय मे लयमेति यथा[या] तमः ॥ ४७॥ कृतबुधावमतीन् कुमहीपतीनिह विहाय मदीयगिरां चयः । मधुरिपुं भजतां मधुरस्फुरन्नवरसो वरसोमसुहृन्मुखम् ॥ ४८॥ विफलया विषयान्तरचिन्तया किमनयाऽपितु कामपि देवताम् भज मनस्सुमनःप्रकरैः सदा नमसितामसिताम्बुधरोपमाम् ॥ ४९॥ तव रमासख तुङ्गतमा क्षमा तमपि येन ररक्षिथ वायसम् । त्वदितरो निहतिं बत तत्र को न कुरुते कुरुतेऽपि कृतागसि ॥ ५०॥ अपि कृतागसि तेऽजनयत्क्षमां मयि रमा क्षणमप्यनया भवान् । मुररिपो वरिवर्ति कन[कर]स्फुरद्वनजया न जयावहया विना ॥ ५१॥ मधुरिपो भवदीयभुजान्तरं मनसि मे लगताद् धृतकौस्तुभम् । स्फुरति यत्र हि मादृशगुप्तये सरसिजोरसिजोपमिताचला ॥ ५२॥ फणिपतिक्षितिभृत्तटभूषणे बलिरिपो हृदयं रिपुभीषणे । भवति रज्यति मूर्तिरिवोल्लसन्मरतके रतकेलिजुषः श्रियः ॥ ५३॥ फणिगिरौ हि स एव भवान् [वन्] भवान्मितधियामवनार्थमवातरत् अविरतं मुनयः कमलोल्लसत्पद हरे दहरे यमुपासते ॥ ५४॥ तावकं किमपि देव कञ्जभूवामदेववलशासनादिभिः । दैवतैरविरतं निषेवितम् पादपङ्कजयुगं भजामहे ॥ ५५॥ अञ्चतां दुरितपुञ्जभञ्जनादञ्जनावनिधरावतंसकात् । अन्यमत्र नहि चित्तमानये मानये न च विरोधिहानये ॥ ५६॥ दासमाविधि [थ] कयासु [धु] नन्दनं दन्तिनं दशमुखानुजं घ [श्रि] तम् । श्रीनिवास चरितानि ते परं कानि वा न विकृतानि पण्डितैः ॥ ५७॥ राजमानविभवां महीमरुद्राजमानसविहारहा [वा] सिकाम् । मानयामि फणिशैलदेवतामानयामि च तदङ्घ्रिमाशयम् ॥ ५८॥ देवकीतनय तावकी तनूरिन्दिराविहृतिमन्दिरायिता । आतनोति मम नूतनोत्पलश्यामला परमकोमला मुदम् ॥ ५९॥ प्रातराशयमहीशभूमिभृन्नेतराश [श्र] य रमापते मम । वीतरागविनुतात् त्वदुञ्चकैर्नेतरानिह भजामि निर्जरान् ॥ ६०॥ नीति [च] राजिमनुसृत्य नित्यमप्याचरामि विहितं न माधव । खेचराभिनुत नो मतिर्भवद्गोचरापि कृपयैव पाहि माम् ॥ ६१॥ मेघदर्पहरदीप्तिवैखरी शेखरीकृतपदाम्बुजा सुरैः । भाविता मुनिभिरादिदेवता सं [सा] वतादुपविता पदाऽवता ॥ ६२॥ दुर्वचप्रथिमगर्वचर्वितप्राज्ञमुद्भिरकृपैरलं नृपैः । अञ्जनाद्रिचर कञ्जनाभ ते चिन्तये वपुररण्य शान्तये ॥ ६३॥ अप्रबुद्धमकृतत्वदञ्जनं कञ्जलोचन कृतात्मवञ्चनम् । भावितापरिचितप्रपञ्चनं पाहि चक्रधर मामकिञ्चनम् ॥ ६४॥ वरुणस्य भक्तिमरुणस्य शूलिनो वलशासनस्य वनजासनस्य वा । तनुतां च नोत्र विनुतां सुरैस्समं स्मर गाढभक्तिरुरगाद्रिदेवताम् ॥ ६५॥ कमलाभिरामविमलायतेक्षणां कमनीयमूर्तिममनीषिदुर्गमाम् । परमामुपस्थितरमामिमां मनो भज गाढमेव भुजगाद्रिदेवताम् ॥ ६६॥ स्मरणं पदत्रभरणं मुकुन्द ते यजनं पदाब्जभजनं च कीर्तनम् । स्तवनं गुणानुभवनं शुभालयव्रजनं च हन्ति वृजिनं शरीरिणम् ॥ ६७॥ निजवैभवेन नहि केवलं स्वयं तव सारसत्वमुपयाति लोचनम् । निजगोचरेऽपि पुरुषे परं रमासख सारसत्वमुपपादयत्यदः ॥ ६८॥ रमया सदैव रममाण उच्चकैर्नरमानितस्त्वमिति नाथ साम्प्रतम् । नलिनायताक्ष परमेतदद्भुतं नमदिष्टकार्यपि मदिष्टकार्यसि ॥ ६९॥ दुरितानि साधु चरितानि वा जनस्तनुते मुकुन्द ननु ते प्रचोदनात् । उचिते स्तवं [वे] विरचितो [ते] पि मे [वचः] परिपोषणे मधुरिपो तव स्पृहा ॥ ७०॥ उरगेशभूमिधरगेहमच्युतं शरणं गतस्य तरणं भवाम्बुधेः । सुकरं ननु श्रमकरं यदाश्रयात् कपयोपि नैव नपयोधिलङ्घिनः ॥ ७१॥ दलितोग्रचाप तुलितोभ्र [ग्र] गूढपाद्विषया त्वन [द] न्यविषयाशया कृतम् । तव नागशैलभवनास्मदाशये चिरमस्तु वीतविरमस्तु सन्निधिः ॥ ७२॥ हृदयं प्रविश्य हृतसर्वकल्मषो विदुषां विधातुमपवर्गमुत्सवम् । तनुते तदीयतनुषु प्रहर्षतः पुरुषोत्तमं सु [मस्स] पुलकाङ्कुरार्पणम् ॥ ७३॥ मदमोहलोभमुखवैरिधूतये परितापकारिदुरितापनीतये । किमपि स्मरामि कमलाब्धिकन्यकाकिलिकिञ्चितैकरसिकं परं महः ॥ ७४॥ अविच्छेदामोदा कलशजलराशेर्दुहितरि- स्फुरद्रागा नागाधिपशिखरिणीशादिमहिता । असौ दासत्रासक्षपणनिपुणा दुष्टदमने कृतासक्तिव्यक्तिर्निगमगणगीता विजयते ॥ ७५॥ विदित्वा तत्त्वार्थानपि विशदमाम्नायशिरसां पुराणानि श्रुत्वाप्यसकृदपि बुद्ध्वा स्मृतिगिरः । समाजे स्थित्वापि श्रुतिनयविदां हन्त विदुषां [विषयान्] न हातुं शक्तोहं नरकहर किं मे न दयसे ॥ ७६॥ धनायाभिः क्षुद्रं नृपमपि विना यादवनुतिं वपनायानीतीच्छां जनयसि महायासजननीम् । अहन्तामाहत्म्यादसुरबलहन्तारमतुलं न हन्तारे चेतो नयसि खलु चिन्ताविषयताम् ॥ ७७॥ अशेषान् शेषाद्रेरधिप मम दोषान्निरसितुं महत्प्रायश्चित्तं मधुमथन नैवास्त्यनुगुणम् । प्रपश्यन्नापीठान्मणिमकुटपर्यन्तमतुलं पवित्रं गात्रं ते परमपुरुषाभूवमनघः ॥ ७८॥ स्पृहा दीनत्राणस्थिरबिरुदरक्षासु यदि ते यशः प्राप्तुं व्याप्तं यदि च रुचिराशासु दशसु । तदाशैषैर्दोषैः शरणितमसम्भावितगुणं विपद्भ्यस्त्रायेथा वृषगिरिपते खिन्नमिह माम् ॥ ७९॥ नरं वा देवं वा कमपि नलिनाक्ष श्रुतवतां प्रसिद्ध्यन्ते [न्तो] दृष्टाः परमभिमतर्थाः कतिपये । प्रपन्नानां त्वां नः परममधिपं ब्रूहि जगता- महो कष्टं सिद्ध्यत्यभिलषितमद्यापि न कथम् ॥ ८०॥ धनादित्सोपज्ञव्यसनजनितप्राणिविपदां महीभृत्पाशानां मदनमदनद्धोग्रमनसाम् । मुखं दूरे हित्वा मुरमथन मे लोचनयुगं वदान्यं वक्त्रं ते वरद शरदः पश्यतु शतम् ॥ ८१॥ नियन्ता [न्तर्वि] विश्वेषां नियतमनुकूलस्तव भवन्- नपन्थानं मुञ्चन्नतिदृढमतिस्त्रास्यस इति । वृणानो गोप्ता स्याः स्वयमिति विमुक्तेतरगतिः प्रपद्ये भीतोहं परमपुरुष त्वामभयदम् ॥ ८२॥ न दा [या] तुं न स्ता [स्ना] तुं न च रचयितुं ते स्तुतिगिरो न दा [गा] तुं न ध्यातुं न कलयितुमाराधनमपि । न यष्टुं न स्प्रष्टुं किमपि तव तुष्ट्यै पटुरहं शरण्यौ ते लक्ष्मीरमण शरणं यामि चरणौ ॥ ८३॥ अभक्त्या भक्त्या वा शुचिरशुचिर्वा मधुरिपो सकृद्वा भूयो वा सकलफलदं त्वां स्मरति यः । निरातङ्कं तुङ्गं निखिलमपि दत्सेऽभिलषितं न केषामाश्चर्यं जनयति तवौदार्यमतुलम् ॥ ८४॥ ॥ इति श्री पञ्चमतभञ्जन विख्याततातयज्वभागिनेयाप्तोर्यामादियज्वात्रेयवंशमौक्तिकाप्पयाचार्य तनूभवश्लेषयमकचक्रवर्तिरवुनाथाचार्यतनयस्य श्रीनिवासकृपाविदितनयस्य श्रीसीताम्बागर्भसम्भवस्य काञ्चीनगरवास्तव्यस्य वेङ्कटाचार्ययज्वनः कृतिषु श्रवणानन्दे द्वितीय शतकं सम्पूर्णम् ॥ श्रवणनन्दपद्येषु काठिन्यं यत्र लक्षितम् । श्रीशैलस्तातयाचार्यस्तत्रैवं विवृतिं व्यधात् ॥ From a telugu book veNkaTeshakAvyakalApa