अक्षर आकार:

श्रीनिवासगुणाकरः

shrInivAsaguNAkaraH

श्रीनिवासगुणाकरः

श्रीः अथ श्रीवरदाचार्यविरचितः श्रीनिवासगुणकरः । वादिकण्ठीरवश्रीमद्वरदार्येण धीमता । व्याख्या श्रीवासकाव्यस्य लिख्यते पदयोजनी ॥ श्रीवेङ्कटेश्वरस्तोत्रमारभते-- श्रीभृत्सद्वृषगोत्रशेखरमणे वेदप्रवक्तः शुचे लोकास्वाद्यचरित्र सुन्दरतनो धीवारिभिः क्षालिते । सस्वैतद्वरदक्षिणा शुभगुणा सालङ्कृतिर्विस्फुर- त्सद्वृत्ता कविता मया तव पदे दासेन भाव्याऽर्प्यते ॥ १॥ वाण्यास्योऽसमदृक् सहस्रवदनो द्योसत्पुरोधाःस्वभू- हृज्जादात्तवरः पुराणवरकृत् तत्पुत्रकस्तत्सुतः । सेनेशो वरभाष्यकृत् तव परा घण्टाऽहमल्पं परं यौष्माकीनगुणादिकं कथयितुं लक्ष्मीश शक्तो न किम् ॥ २॥ व्योमाब्जायितसीमभूमिकमपि श्रीभृद्भवद्वैभवं तावच्चित्सुलभं धृतामृतरसम् सञ्जीवनैकौषधम् । यावच्छक्ति वदामि यामि सुसुखं तेनैव कार्त्स्न्येन कः पानाशक्त इति प्रभुञ्चति पयो गाङ्गं सतृट्चेतनः ॥ ३॥ वाणीनाथमुखामरर्षिशठजिद्रामानुजार्यादिवा- ग्जाले सत्यपि शब्दशक्यशुभतायुक्ते त्रयीभाविनि । काङ्क्षेथे पितरौ ममैव मधुरं शब्दं युवां श्रीहरी लोकेऽग्र्यात्मजवाक्चये सति शिशोरव्यक्तशक्यं [ब्दं] यथा ॥ ४॥ अघटितघटनायां त्वत्समोऽस्मि प्रसिद्धा वृषधरधव सा ते पण्डितंमन्यतेद्धः । नुतिकृतिभरभारी दुर्घटं शास्त्रदृष्ट्या परमिह घटयामि श्रीश शब्दार्थजालम् ॥ ५॥ पूर्वं व्यासमनुप्रविश्य महितानुच्चार्य शब्दान् स्वयं तं पूजास्पदमातनोरसुपदे त्वं चौर्य [र] वत् कौतुकात् । अद्यैनं समनुप्रविश्य कुटिलान् शब्दानिमानुच्चरन् मां हास्यास्पदमातनोष्यपि तथा शेषः कृतार्थोऽस्मि हि ॥ ६॥ निशामुखनटन्महानटकिरीटकोटिस्फुर- त्सुधानिधिगलत्सुधामिलितगाङ्गभङ्गोपमम् । कवित्वमिह मे भुवि त्वदनुषक्तिमद्युक्तिम- द्विधेहि कमलानिधे युवनिपीतबालास्यवत् ॥ ७॥ इच्छा सिद्धे न भजति जनिं किन्तु साध्ये ममेदं चित्रं चित्तं स्वसहजतया शेषतामेव सिद्धाम् । लिङ्गद्वन्द्वस्फुरदजडिमत्वत्स्वरूपाभिनुत्यै वाञ्छत्युच्चैर्वृषधरशिरोनीलकल्पक्षमाज ॥ ८॥ रमाऽपि कुसुमाधिकम्रदिमपाणिना सेवते प्रमादरहितैव यत्तव तदङ्घ्रियुग्मं परम् । ममापि कठिने हृदि स्थिततयैव रक्तीकृतं क्षमामिह कुरु प्रभो वृषधरेडशक्ते मयि ॥ ९॥ कठिने ते मम चित्ते वृत्तिः शक्या न चेच्छुभं कुर्वेतत् । कुर्वन्ति तथा लोके नेदं त्याज्यं विभो किमायासेन ॥ १०॥ विष्णो त्वत्पदभाक्तरुव्रजमितो ध्वान्तच्छलान्निष्पिबन् धूमालि विबुधव्रजं शुचिमुखं शुद्धाः कलाः प्रापयन् । स्वाः पीयूषमयीर्व्रतात्तक्रशिमाधिक्यो विशुद्धस्फुरत्- सत्सङ्गोऽङ्घ्रिरुहश्रियै चरति ते श्रीश द्विजेन्द्रस्तपः ॥ ११॥ अरुणतरुणतरणि[किरण] विकसज्जलवर्तिजलजगर्भाभम् । वृषगिरिधव तव चरणं शरणं करवाण्यनर्घशातार्थम् ॥ १२॥ अम्भस्सम्भरितालवालबलवद्विश्वम्भरारम्भव- द्रम्भास्तम्भविभञ्जकः करिकरः शेषाद्रिचूडामणे स्सारंस्मारमुरुप्रभं म्रदिमभागूरुद्वयं ते ह्विया सङ्कोचं मुहुरेति कन्दरमुखं पीत्वा विषं यातिं च ॥ १३॥ नाभिर्नी लिमनीरनिम्नसरसी यत्पद्ममासीत्ततः त्वच्छ्वासानिललौल्यभाजि युवयोः पित्रोः पुरः पश्यतोः । यत्रानेकमुखार्भको मधुरसव्यासाङ्गिभृङ्गीच्छटा- सङ्गीताब्धितरङ्गसङ्गतमनाः प्राश्नाति डोलारसम् ॥ १४॥ श्वासो मन्दमरुन्मणिस्तु मुकुरो मन्दस्मितं चन्द्रिका वेश्मोरो वनमालिका वृषधरेङ्ङोला तनुत्विण्णदी । मध्वास्वादमदोत्पतन्मधुकरश्रेण्यम्बुबिन्दूत्किर द्वार्यन्त्रं तव नाभिवारिजमिदं लीलाभिक्लप्त्यै श्रियः ॥ १५॥ कुक्षिस्थत्रैलोक्यगलोकौघविमर्दप्राप्तोच्छूनत्वोदयभाजो वलयस्ते । तत्सीमाकारा वलिसन्ध्यञ्चितरेखाः शेषक्ष्माक्षोणिभृद्धव लक्ष्मीश विभान्ति ॥ १६॥ कुक्षिन्यस्तजगत्रयीजनघटासंमर्दजोच्छूनतासम्भूता वलयश्च सन्धय इमास्तत्सीमरेखा इव । सद्धीरोदरबन्धनं विजयते तद्धारणादक्षता सन्देहारचितं वृषाचलशिरश्चूडामणे श्रीनिधे ॥ १७॥ श्रीवत्सचिह्नवक्षाः श्रीवत्सलतातिशायिवात्सल्यः । श्रीवत्ससक्तचित्तः श्रीवस्तजिदाकृतिर्हरिर्जीयात् ॥ १८॥ तटित्पटुकुटीरभापटलहेमपेटीरमा- घटीकुचतटीलसत्तरपटीरपङ्काङ्कितम् । नमद्धृदय पश्यतोहरतरं तवोरस्स्थलं धगद्धगितसद्दृषद्वृषधरेश चित्तेऽस्तु मे ॥ १९॥ फुल्लेन्दीवरगुच्छसुन्दरशिखा प्रान्तस्फुटाब्जा ततोऽधस्ताद्गुच्छयुगाञ्चिताग्रन्त विलसन्मल्ल्यग्रसत्पल्लवा । अप्राप्तोपमगन्धकान्तिमृदुताव्योमाम्बुजम्लानता न्यस्ता चम्पकमालिकोरसि विभो केनापि शुद्धेन ते ॥ २०॥ एका त्वत्पदजा समुद्रमगमत्सिन्धुः परा वार्धिजा त्वां शेषद्रिगृहं श्रिता चकचकन्नीरा लसच्छैवला । स्वब्जेन्दीवरशङ्खचक्रमिथुनावर्ता स्फुरत्सैकता स्मृत्याऽप्यर्थितजीवनादिफलदा पापापनोदक्षमा ॥ २१॥ त्वद्दृक्पुष्पवदंशुजार्धहसनस्वापं मधुध्राड्मासोपानैर्वलिभिस्समेत्य शिशवे नाभीजुषे चारुजे । दातुं स्वौषधिकाज्यमब्जमनिशं हस्ते वहन्ती भवद्- वक्षस्थाभवरोगिणे दिशति मे किं नामृतं सत्कृपा ॥ २२॥ श्रीस्त्वल्लोचनपुष्पवत्करचयैरर्धप्रबोधं मधु- भ्राज्यब्जं तव नाभिपद्मशिशवे वल्याख्यसोपानकैः । गत्वा दातुमिवौषधोज्ज्वलघृतं शङ्खं वहन्ती भवद्- वक्षस्स्था भवरोगिणे दिशति मे किं नामृतं वत्सला ॥ २३॥ पश्चाद्वाहुयुगेन पद्मयुगले लक्ष्म्या समीपं स्वकं नीते तावकमीक्षणं दिनकरश्चन्द्रश्च गोव्यापनैः । एकं विस्फुटयन् परं मुकुलयन्नित्यं सभृङ्गस्वनं तस्या वक्त्ररुचिं कलां कुचरुचिं किं प्रापयत्यच्युत ॥ २४॥ चञ्चल्लोकजयेच्छपञ्चविशिखज्यावाहरावावली- स्वादुत्वापहमाधुरीरसपिबद्वाचासुधाशीकरैः । जन्यान्धोमहतीसमुद्गतकलादेशैस्त्वदीशश्रुतिं मातस्सिञ्चसि मा कथं मम कृते वीक्ष्यापि मे भद्दशाम् ॥ २५॥ भोगी चन्दनगन्धसङ्गमृदुतावृत्तायतत्वैर्भवद्- बाहुश्रीजयदीधीरितो वृषगिरिं मत्वा जगद्रक्षणात् । बाहोः पोष्यघनाच्च भक्षितजगत्प्राणं घनद्वेषयुक्- स्वं न्यूनं तव वीक्ष्य केतनमगाद्वल्मीकरन्ध्रं भयात् ॥ २६॥ वाराशिजादिनिजनारीसमूहकुचनीरोत्थकुड्मलगणे तारेट्कलानिकरमूरीकृतोल्लसनभीरञ्चितं कृतवती । स्फाराङ्गुलिव्रततिसारप्रसूनततिराराद्धृताङ्कुशदशा क्रूरासुरेट्करिणि हा राजते नखरपारम्परी तव हरे ॥ २७॥ अन्यावार्यातिभीमप्रतिकलरहितापारपाप्मास्मदीक्षा दोषार्तौ पुष्पवन्तावरिदरकपटौ त्वन्मुखेनेक्षणोत्कौ । इच्छन्तौ साक्षितां स्वां मदितरविषयां पापनुत्ति नु नात्तप्रत्युक्ती त्वत्कुतो वा परमिह वसतः किं वृषक्ष्माधरेश ॥ २८॥ धराधरधराधरं तव सुधाझरीमाधुरी- निराकृतिधुरन्धरं दृढतरं निपीयाहवे । दरस्तव सुहृद्द्विषोर्ध्वनिमिषेण हि श्रोत्रयोः सुधागरलवृष्टिकृद्भवति पुष्टिनष्ट्योः कृते ॥ २९॥ स्यालं श्रीश दिनेदिनेऽक्षतजलध्युत्पत्तिमस्तोपमत्- वद्वक्त्राभिभवेच्छयाऽऽगतमथ त्वत्पन्नखेन क्षतम् । हीतं पीतकलङ्कदुर्भरगरं हा कालचक्रे विधुं विन्यस्य भ्रमयस्यजेन विगरं कर्तुं रवात्तत्पितुः ॥ ३०॥ मत्वाऽऽस्याक्रमणोत्कमक्षियुगलं त्वच्छ्मश्रुरेखा नता तन्मध्यं तव चोन्नतानुनयनेकृत्नासा जगाम श्रुतिः । स्वानुल्लङ्घनधीः समीपमलिकं भ्रूसीमलोलीकृते मूर्धन्यञ्च कचं स भागमपरं भीत्या किमु श्रीनिधे ॥ ३१॥ न्यक्कृतकमलोल्लसितं श्रुत्यन्तनिषक्तमस्तमिथ्यादृष्टिक् । दृष्ट्वेव भक्तबृन्दं दृग्द्वयमासीत्तथा वृषाद्रीश ॥ ३२॥ आघ्रातुं मुखमीश किन्नु भवता कुन्दव्रजः प्रापितः किं कारुण्यसुधाब्धिफेनपटली चित्ताद्बहिर्निर्गता । लग्ना त्वद्वदनेन्दुपानसमये माधुर्यलोभाद्वरात् किं लक्ष्मीरथवा [रदभा] मुकुन्द किमिदं मन्दस्मितं तेऽथवा ॥ ३३॥ बन्धूकाम्बुजकुन्दचम्पकसुमान्योष्ठाक्षिदन्तावली- घ्राणं मुख्यरुचीहया समभवन् युग्मं तु सारङ्गयोः । शाख्यन्तस्पृहयाल्वदभ्रमहिमश्रीदृक्त्वमाश्रित्य किं तत्र श्रीप्रिय सर्वगन्धरससल्लब्ध्या सदा मोदते ॥ ३४॥ आराध्याराधन[क]परिशोधकवेदावलीधियै भवतः । छन्दःप्रवक्तुरास्ये विमले रदमालिके भवतः ॥ ३५॥ अघटितघटनालक्ष्यं वक्त्रेन्दौ श्मश्रुतिमिरमेतत्ते । नासाचम्पकनिकटे भ्रूभृङ्गश्रेणिकेव लक्ष्मीश ॥ ३६॥ जित्वा प्राकृतसाधनैर्जगदथो साध्येतरांस्तैर्मुनीन् दिव्ये ते धनुषी भ्रुवौ रतियुतस्तूण्यौ च जङ्घे स्मरः । वर्ष्भेन्दीवरजालमङ्घ्रिकरदृग्वक्त्रं च पद्मान्यहो यत्नैः प्राप्य चकार पूरुषमणे तैर्वल्लवीस्त्वद्विटाः ॥ ३७॥ साराचिरद्युतिकनीराभिरामतरधाराधराधिपघटा दोराहवप्रचयधीरानुशासितभगोराशिजायुततनो स्वाराण्मुखाग्रिमुखहीरालियुङ्मकुटभाराजिदीपपटली नीराजिताङ्घ्रियुग नारायणाद्यपरमारादशर्म हर मे ॥ ३८॥ बृन्दीभूततमिस्रबुद्धिकलयच्चण्डांशुभामण्डली- शङ्कामङ्कुरयत्सुरत्नरुचिरं शेषाचलाधीश्वर । बद्धं मूर्द्धजकुड्मलं कबलयन्नम्राधराश्यागिरत्- त्वत्कारुण्यकलामिव प्रकटयत्येतत् किरीटं तव ॥ ३९॥ अलिजलधरबलभिदुपलतिमिरलघिमकलनसबलकबररुचः । जनदृगगुणपरिहृतिमतिकृतपरिवृति भवति तव नु सुम मकुटम् ॥ ४०॥ श्रीभृद्रुद्धकचं श्रमैकफलदं किं ते किरीटं महत् चित्रं मन्मकुटं शिरस्स्थमपि मे बिभ्रद्भरं भासयत् । सद्गम्यं परमं पदं त्ववति ते प्राचीनमप्युत्तरं सर्वस्मात्परिपूरयत्युरुतराः स्वाशा महद्वर्ण्यते ॥ ४१॥ साक्षिण्याप्ततमा दयां तव गता सर्वार्थविन्माधुरीयुक् श्रुत्यन्तपदाभिरामनिनदा सर्वैस्त्वदीयैस्सह । त्वद्घण्टैव सहस्रधा निकटभाग्ब्रूते जगद्धूर्वहं त्वद्भृन्मन्मकुटप्रसिद्धिमधिकां श्रीवल्लभ श्रूयताम् ॥ ४२॥ शेषत्वेन निरूपितं गुरुवरैस्तच्छेषतामाश्रितैः स्वामित्वं निरुपाधिकं भजदहो निर्दोषमत्स्वत्वभाक् । लक्ष्मीभागधरीकृतं तु भवता लोकानुकूलं पुरा त्वामुद्वास्य तव प्रभुत्वमकरोन्नो वेत्सि किं तत्प्रभो ॥ ४३॥ गावो यत्र निरूप्यमाणविलसद्रूपानुगच्छध्दृदः सोत्कण्ठा विचरन्त्यहो सुमनसां पद्वाऽप्यजानां गवाम् । शीर्षेषु प्रतिभाति निर्मलदृशाम् त्वद्गत्युपायात्मता यस्मिन्नेव विभाति तेन सदृशं लक्ष्मीश किं वर्तते ॥ ४४॥ गेहादेर्मनुजास्त्रिविष्टपसदस्तेषां पयोजासनः तेषां तस्य च वेङ्कटाचलपते श्रीशस्य ते श्रीश पादद्वयम् । यत्तस्यापि हि पादुकामणिमयं संरक्षकं पुंमणिव्याकीर्णं तदनन्यरक्षककथं मां सर्वदा रक्षतु ॥ ४५॥ स्तोत्रं गोत्रापतीनां न कुरु मुख मुधा स्वाय ते ज्ञा यदि स्युः नो जानन्त्युक्तिशक्तिं त्रिचतुरपदधीलोलवाचो यदि स्युः । दुर्वाराखर्वगर्वाः परिभवचतुरास्सिद्धयो यद्यलभ्याः नात्मश्लाघां सहन्ते न तव फललवस्तद्भज श्रीनिवासम् ॥ ४६॥ नो गच्छेः कविते सुते क्षितिपतिं त्वं चन्दनद्रुं धने गन्धे लोलतया ससंशयबुधक्रूराहयस्तत्र हि । अन्योन्यैक्यगलत्कुदूषणविषाः साध्वोषधिस्पर्शतोऽप्येग्रे त्वां बत मारयेयुरचिरात् तत् पत्रिपत्रं भज ॥ ४७॥ बोद्धारोऽपि समिद्धमत्सरतया नाद्धावहित्थाचणाः शुद्धोक्तिष्वविशुद्धबुद्धिजननश्रद्धालुतात्युद्धताः । मद्धीकानपि विद्धयन्ति कविते श्रद्धत्स्व तेमेऽद्धावचोऽ बद्धक्ष्मेशगुणा जगद्धवपदे नद्धा ममृद्धा भव ॥ ४८॥ विद्वद्द्वेषभृतो मुधापदगणाः प्रोच्चैस्स्वरा निस्त्रपाः सङ्केतेन परस्परं स्वविजये साक्षित्वमप्याश्रिताः । सद्बुद्धीनपि वञ्चयन्ति विबुधान् भूपान्तिके नास्तिका विद्यावित्तविघातुका भुवि कृते लक्ष्मीशमेवाश्रय ॥ ४९॥ गौर्गां गवा गवे गोर्गोर्गवि गौर्यस्य पाति यः । वराय पीडकान् व्याप्तान् दत्ते तं श्रीनिधिं भज ॥ ५०॥ वृषाचलेशितुः पदाश्रिताः कुभृन्मुदाऽऽपतत्- फलादिवन्महाफलार्थिनोऽप्यवान्तरं फलम् । अकाङ्क्षितामपि श्रियं प्रयान्ति शेषवृत्तिसत्फला परेरितां महीं पुरेव तस्य पादुका ॥ ५१॥ आराद्वेगादरिष्टं भवति बहुतरं यत्पदाब्जानतानां सव्यौ भागौ यदीयौ निरवधिकरुची चारुभाभ्यां च माभ्याम् । विभ्राजत्पुष्पवद्भापरिहसनचणे यत्कराम्भोजहेती श्रीनाथः श्रेयसी सोऽप्रतिमबलभवासङ्ग्यधीने करोति ॥ ५२॥ वनचर राम पुष्टवरगो द्रुहिणार्यतनो विरचितसूत्रवेदमयकाव्यपुराणतते । परखपयोधिजीवशुभदेशनिवासरते [पर] मयि च वसस्यहो सकृप वत्सल माधिपते ॥ ५३॥ उद्यत्सूनसमीपभाक् परभृता दृष्टं द्वितीयक्षण- प्राप्तामार्दवमिद्धसूनजयकृद्दन्तावलीसङ्गिनः । लक्ष्म्यास्वाद्यरसस्य नित्यमृदुतारुण्यस्य चाटीकते शेषाद्रीश तवाधरस्य किमु भासम्पल्लवं पल्लवम् ॥ ५४॥ गौर्यस्यामरवैरिनाशनपटुस्तत्कर्णनाथाचलो धामैतन्निधिभानुकुञ्चिदलयुग्गेहाविहारास्पदम् । वत्सं तत्पदवैरिहेतिकपटग्राहिच्छिदावर्णितः कामस्तच्छतजित्तनुस्तदितरा श्रीः पातु देवस्स नः ॥ ५५॥ कामो यस्य जगज्जनिस्थितिलयव्यग्रस्तनुस्तच्छतो- त्कृष्टा श्रीरितरा ततो हि हृदयं तन्नित्ययोगोज्वलम् । भोगस्तत्पथदूरवर्तिमहिमा तद्वद्वराद्रिः पदं नित्यं धाम तदेकनम्रसुलभं तद्वान्मुदे सोऽस्तु नः ॥ ५६॥ त्वत्कैङ्कर्यार्थदिव्यामिततनुजननीं श्रीश शक्तिं न कुर्वन् वित्ताशां वर्घयेश्चेत्सुचिरमनुसृतैर्नैकदेश्यैर्धनाढ्यैः । मत्पर्वण्येव दत्तं किमपि परिमितं साम्बु कृच्छाद्ग्रहीतुं बह्वीर्मे पार्थिवीर्वा सपदि दिश तनूर्वैधहैन्येऽपि मान्याः ॥ ५७॥ नागं पुष्करपुष्करहृदगतं नक्रास्यरुद्धाङ्घ्रिकं भ्राजत्पुष्करपुष्करं स्मृतजगन्मूलं त्वरक्षो जवात् । तं त्वां पुष्करपुष्करायितसमोत्कृष्टं मणीन्द्रप्रभा- स्फूर्जत्पुष्कर पुष्करप्रभुमहातल्पाश्रये श्रीनिधे ॥ ५८॥ दीनं मां कमलासमाश्रित नतं त्राहीति वाचं मम श्रुत्वा किं न करोषि सुन्दर शिरःकम्पं समन्दास्मितम् । मद्दीनत्वतमश्छटाप्रतिभटस्फूर्जत्किरीटाग्रणी- प्रत्युप्तोपलफालफल्यचपलामालासमुद्भासितम् ॥ ५९॥ चित्रं रमाधव यशोमुक्ता रन्ध्रोज्झितास्तवानन्तैः परिगुम्फिता गुणौघैः सुदृशां हृदयङ्गमा विभान्ति ॥ ६०॥ अनर्घ्यफलदायके प्रणतिमात्रसाध्ये त्वयि स्थितेऽपि धनकाङ्क्षया चिरमुपास्यमानार्थिनः । मदान्धतदुपेक्षया धनलवं च नोपश्यतो- ऽप्यहो तदुपसेविनी भवति धीर्मम श्रीनिधे ॥ ६१॥ सेच्छं मामवितुं पदे तव सुखे वित्ते च दुःखात्मके त्वं शास्त्रेण दृगादिना च सुगुणं दोषं च मे दर्शयन् । ज्ञात्वाप्यर्थिनिषेविणे विघटयन् लाभं पुनश्चार्थभाक्- काङ्क्षस्योद्धरणाभ्युपायमधिकं श्रीभृद्विभोपश्यसि ॥ ६२॥ शस्त्रक्षाराग्निकर्माण्यतिहितमनसा सूनवे त्वं पितेवान्- अन्त्रे दुःखानि कुर्वन् नृपसुतरचिताकृत्यदण्डागुरूणि । दत्त्वा हेतून् गतेरप्यवसि हिततमं त्वामुपेक्ष्योत्कटाघ- व्याप्त्या दुःखैकभाजो वरकृप सुमतिं देहि मे श्रीनिवास ॥ ६३॥ रूपेणाललितेन मन्दविभवैरखैरनन्यस्थया वृत्त्या चाचलता मया सकमल त्वं सूत्रधारो हरे । रम्यप्राणिसुभूमिके बहुरसैः पूर्णे जगन्नाटके चित्रं हास्यरसं किरस्यलघुभिर्वेद्यं हि सामाजिकैः ॥ ६४॥ चित्ताकर्षिगुणं भुजङ्गजयकृद्दोषं प्रदानस्पृहाद्- ईनारिप्रकाराग्रनर्तितसुगुं भक्तैकसक्ताशयम् । उद्वेल्लत्कनकाचलादरमितं वैकुण्ठगोष्ठ्यस्पृहां सर्वाशानिलयात्मकं नतनिधे त्वत्तुल्यमीक्षस्व माम् ॥ ६५॥ श्रीभृत्पुण्यजनान्निहन्ति तव गौस्तात्रेक्षते मे पुनः त्वं चेज्जिह्मगभोगसङ्गतिरतोऽहं चेत्तपस्वी महान् । अव्यक्तारिदरोऽसि वेद्मि न परं लोकं कुतस्तद्भयं भेदे त्वत्सदसन्मयात्परमसद्रूपस्य साम्यं क्रमे ॥ ६६॥ मद्दोषव्रजमाश्रयव्ययकरं लक्ष्मीधर त्वद्गुण- व्रातं लोकहिते रतं च मनसा जानन् भयाभीतिभाक् । दावव्याप्तमुखद्रुकोटरगतस्वाभीष्टवातापतद्- वर्षत्सन्निहिताम्बुभृद्गणशुकन्यायेन वर्ते हरे ॥ ६७॥ आचक्राम जगन्ति ते पदमिति स्यात्किंवदन्ती मृषा नैवं चेन्मितभावृणोतु मम हृद्भूयोऽपि नैव त्यजत् । स्थाल्यन्धःकणनीतितोऽर्थयुगथो निश्चीयते सा मया सर्वे श्रीभृदवेत्य शक्तिममितां त्वामाश्रयेयुस्ततः ॥ ६८॥ कुल्यायां सगरात्मजैः कररुहैरुत्पादितायां क्वचित् सेतुं किञ्चिदकारयो वनचरैः पूर्वं किलैतत्कियत् । उत्ताराय भवाम्बुधेरपजने रत्नैर्गुणैस्तैर्हरे सेतुं मे प्रतिपाद्य दर्शयसि चेच्छक्तो विनिर्णायसे ॥ ६९॥ अप्रकृतिबद्धमपि सुप्रत्ययमनवद्यमपि लसद्दोषम् । कमलाप्रियमपि कुपतिं गिरिस्थमपि श्रये नियन्तारम् ॥ ७०॥ सुरासुरार्याञ्चितपार्श्वराकाविलक्षणेन्दूपमितं रमेश । एकैकमुक्ताफलकर्णभूषं मुखं मुहुस्ते कुरुते मुदं मे ॥ ७१॥ दुर्वारोग्रमहाघजालयुगसौ किञ्चित् कथञ्चित्क्वचित् कुर्याच्चेच्छरणागतिं कथममुं रक्षिष्य इत्यात्तभीः । अभ्यस्तं शरणागतावनवचः कृत्वाऽभ्रचित्रं गिरौ दुर्गे श्रीश फणीशभृद्विषभिषग्वेषी निगूढोऽसि किम् ॥ ७२॥ गिरिच्छलबिलेशयप्रवरमूर्धनैल्यस्फुरन्- मणिर्नरपतन्मृगक्रिमिदृशां च वीक्ष्यस्सदा । यदीक्षितनतस्पृहः कृतविलम्बनो वर्तसे तदा त्वनृतमद्गिरा समयभाक् त्वमेवाव माम् ॥ ७३॥ भीकरकाञ्चनलोचनघूकदिवाकरमभीरुमनेकम् । नाकपशोकविमोक श्रीकर सूकरविभो नौमि त्वाम् ॥ ७४॥ दुस्त्यजफलीकरण सुश्रीः कनकाद्रिस्थितोऽपि वित्तार्थी । पुरतो निपतितमशरणमनवथिकार्तस्वरं त्यज न मां त्वम् ॥ ७५॥ मा ते स्ताद्रुडदेयतान्तसुम मय्यर्थित्वतस्तज्जगत्- संसर्गान्नतु मत्स्वभावजनितं नायाचथाः किं बलिम् । वित्तार्थी कनकाद्रिभागसि ततो याच्ञानिवृत्त्युज्झितं लोकं मां नय वीतदेहिवचनः स्यां किङ्करस्ते सदा ॥ ७६॥ भक्तैस्स्वार्थपरैरकार्युपकृतिः का वेति तान् रक्षसि त्वद्वात्सल्यदयाक्षमाद्युपचयव्यग्रं परार्थे रतम् । कस्मान्नावसि मामघौघनिरतं स्वीयं प्रभो श्रीनिधे घण्टाकर्णमुखावनादपि यशो मद्रक्षणे स्यान्महत् ॥ ७७॥ श्रीनाथ स्वापहारान्मयि तव रुडभूद्दण्डयस्येतमस्मात् मां त्वत्क्रूरप्रकृत्या स्वविभवपरया प्रेरिता धीर्ममेत्थम् । चक्रे नाहं तदेनां निगलय तु पदे स्वं हृतं ते गृहाण त्वं दूरे मे कुरुष्व प्रकृतिमपि पुनर्नापहारः प्रसीद ॥ ७८॥ रत्नैरितराप्रमेद्यपटुतैस्त्रासादिदोषोज्झितैः शुद्धैः काञ्चनभूषणालिममितामुद्भासयद्भिः परम् । त्वत्सायुज्यमुपागतैस्तव वपुर्हारैर्जरीजृभ्यते विष्णो त्वत्पदमप्रमेयमहिम श्रीनाथ सद्भिर्यथा ॥ ७९॥ सङ्ख्यावद्भिरपि व्यपेतगणनैर्गन्धोज्झितैरप्यलं सामोदैर्विगतोग्रतैरपि मनस्सम्भूतधिक्कारिभिः । शेषाद्रीडसदृग्बलैरपि सदा त्वद्दर्शनप्रोज्ज्वलैः सद्भिस्सेवितमादरात्तव कदा पश्येम पादद्वयम् ॥ ८०॥ हरिणा रिपुकरिणामुरुकरुणावितकरिणा शरणागतिकरणामरतरुणाऽऽदिमगुरुणा । दरिणाऽम्बुजशरणाशरदरुणाम्बुजहरिणा हरिणा कृतभरणा वयमरुणालिजिदरिणा ॥ ८१॥ तुल्योत्कृष्टबिवर्जितो यदि गुणैस्त्वं चेत्तणैः स्वं ते त दन्यैरहं तादृड्मानतमा त्रयी यदि ततः शुद्धस्य मत्सङ्गतः । नावद्यं तव किं भवेदिति पुरा दृष्टं न चेन्मादृशाः किं दृष्टः क्वचनापि तत्कुरु भवच्छुध्यै विदोषं तु माम् ॥ ८२॥ वैकुण्ठे परतैव वैभववती सौशील्यमुख्यास्त्वह- र्दीपास्तद्वृषशैलभाङ्नरमृगव्योमाड्द्रुमाद्यैरपि । सेव्योऽस्यद्य बहुक्षुधस्तव चिरादेते गुणाः प्रस्फुरद्- दर्वारामितपापराशिममितं सम्प्राप्य तुष्यन्तु मे ॥ ८३॥ पददर्शकोरुयोजितहस्ताभ्यां निजपदाब्जनम्राणाम् । भवजलधिरूरुदघ्नः स्यादिति सूचयसि ननु वृषाद्रीश ॥ ८४॥ चञ्चद्दारमरीचिकाविषयदुर्वीरुद्गदव्याघ्रयुक्- क्रुड्दावावृतिभीमसंसृतिवनीदग्धात्मसंजीवनीम् । सारासारभवत्कथारससुधां पीतां सदा कुर्वतां शेषाद्रीश सुधा सुधाऽब्धिजनिता सा शर्करा शर्करा ॥ ८५॥ कान्त त्वन्मतिकान्तिशान्तिकरणप्रकान्तविक्रान्त्यसद्- भ्रान्तिध्वान्तदुरन्तदुष्पथगतिश्रान्तिप्रतान्तान्तरम् । शान्तस्वान्तकृताच्छचिन्तनसुधासिक्तत्वदङ्घ्रिद्वयाः सन्तो मां विनिवेशयन्तु सदमनसि स्वीये कटाक्षेण ते ॥ ८६॥ पाठान्तरम् -- एनःकृन्तनसन्ततोल्बणभवद्वृत्तान्तचिन्तासुधा- सन्तुष्यन्तमिमं कुरु श्रितनिधे श्रकान्त चिन्तापह ॥ ८६॥ किं चामराणि धवलातपवारणानि सिंहासनानि शयनानि पदासनानि । पीताम्बराणि यदि वाऽत्र यथोचितं ते सर्वोपचारकरणानि वृषाचलेश ॥ ८७॥ सिद्धान्तार्थविरुद्धबद्धकुहनाबौद्धप्रबन्धच्छटा- श्रद्धासिद्धदुरध्वबाधितभवन्निर्धारणाधारणम् । मा त्वं मा कुरु मासमाश्रित सुधामाधुर्यमाधुर्यवाग्- गुम्भे त्वद्गुणयुक्प्रबन्धनिकरे सम्बन्धयास्मन्मनः ॥ ८८॥ वक्षो दक्षिणमीक्ष्यतेऽक्षततटिल्लक्ष्म्या हि लक्ष्म्या जगद्- रक्षादक्षकटाक्षयाऽक्षयभवत्स्वातन्त्र्यहृद्वीक्षया । मात्रा मे सतताश्रितं तव ततो मा त्रासमात्राऽसकृद्- गाढप्रेमकृतागसोऽप्यतिशिशोः क्षान्त्येकरक्ष्यस्य मे ॥ ८९॥ अभ्राम्भोजसुखस्सदैव निरयव्राते स्वतन्त्रश्चरन् प्राप्तं मद्ग्रहणेच्छया स्थिरसुखं त्वां मत्पूरे दुःखितम् । रुद्धं चाकरवं परास्ति यति ते शक्तिर्हरे त्वत्पुरे नोभूयश्च्युतिदे निधेहि सुखदे मां श्रीनिधे सद्विधे ॥ ९०॥ रक्षतु लक्ष्मीशो मां रक्षितरक्षोऽनुजादिहितपक्षः । कुक्षिसुनिक्षिप्तजगल्लक्ष्मणमुनिदत्तलक्ष्मसल्लक्ष्यः ॥ ९१॥ शब्दादिदुर्विषयतापकयुग्भवेऽस्मिन् घोरज्वलज्ज्वलनतप्त इवाम्बरीषे । व्रीहि पुराणमपयः पटुतोज्झितं मां कालं कियन्तमभिभर्त्जयसे रमेश ॥ ९२॥ केचित्पुण्यदिनेष्वनल्पयतना जिह्वाग्रमात्रे क्षणं स्वाद्वल्पं गदकृच्च वस्तु समुदो यद्भुञ्जते तत्कियत् । पूर्णा सर्वरसैः समस्तगदभिन्निर्यत्नलभ्यामिता लक्ष्मीनाथकथासमुज्ज्वलसुधा स्वाद्यास्तु मे सर्वदा ॥ ९३॥ सौम्यामेककलां शुचिं च दधतः सर्वज्ञशब्दं गुड- क्ष्माभृच्छब्दमिवावमत्य निपुणो यत्सेवया प्राप्तवान् । निर्दोषाः सकलाः कलाः श्रयति तं शब्दं यथार्थं नमच्- छीर्षालङ्कृतिपादुकोऽस्तु सततं देवस्तुरङ्गाननः ॥ ९४॥ यत्पादामृतमादराच्छिरसि यन्नामामृतं चानने विभ्रत्प्राप शिवत्वमिन्दुमकुटः सर्वज्ञतां चोज्ज्वलाम् । धाता सोमकनीतवेदनिकरः सम्प्राप यस्मात्त्रयीं तं शुभ्रांशुविशुद्धवाहवदनं श्रीवेङ्कटेशं भजे ॥ ९५॥ पूतास्त्वद्वचनाननाः क्षितिरुहः शेषाद्रिशीर्षस्थितान् आरुह्य क्रतवे तवोडु सुमनोबुद्ध्याऽपचिन्वन्त्यहो । तद्बुद्ध्या मुहुरुत्सृजन्ति कुसुमान्युच्चैस्त्वराशालिनः प्रत्यूपेऽद्य भज प्रबोधममलस्फूर्ते रमावल्लभ ॥ ९६॥ सत्तेजांसि सुमानि नन्दनवनादानीय देवाधिपैः त्वत्पादद्वितयेऽर्पितानि सुधियां कुर्वन्त लक्ष्मीपते । त्वत्पूजापरतुङ्गवेङ्कटशिरोरूढद्रुमाग्रश्रित- प्रभ्राजत्सुमबुद्धिभागपचितानीतार्पितोडुभ्रमम् ॥ ९७॥ त्वत्सम्प्राप्तविभूतिरक्षणभरः कारुण्यपूर्णो यति- क्ष्माभृत्त्वत्पदयोः प्रपत्तिमकरोत्स्वीयार्थमप्यादरात् । इत्थं तद्वचने च दर्शितमभूदार्यैस्ततो मामचित्- कल्पं वाऽप्यव वेङ्कटाद्रिधव तत्सम्बन्धतः श्रीनिधे ॥ ९८॥ दैन्योक्तिर्मम सप्तपादविनतिर्जाता तवाग्रे कुतः कारुण्याम्बुनिधे रमेश विदितं नो पूर्णकामान्तिके । स्वान्तं तन्नवनीतकोमलतमं हेतुर्विधोरात्मभू- वह्निप्रोज्ज्वलगोपिकाकुचतटीलग्रं विलीनं क्षणात् ॥ ९९॥ फुल्लाक्षिद्वितयेन ते मयि कथाः श‍ृण्वत्यमर्यादतां श्रुत्यादीनि दृशोर्विलोक्य करणान्यल्पेतरांस्त्वद्गुणान् । शब्दादीनविभागतोऽनुभवितुं वाञ्छन्ति शक्तस्समः त्वं चैवं कुरु मापते विभजनं स्तोकेऽपि दायेऽयुधि ॥ १००॥ भूभृद्भिद्वज्रमाल्यस्फुरदमररिपुस्वामिवक्षोभिदस्ते रेखामात्रेण नम्राः स्मरयुधि नखरा येषु सम्पीडनोत्काः । गोपीवक्षोजशैलेष्वसकृदकरुणोद्घट्टनैस्तैः किणत्वं प्राप्तं गच्छेन्मृदुत्वं हृदयमिह कथं श्रीश मय्याकुलेऽपि ॥ १०१॥ लङ्कायां प्राप्य बन्दीं स्वयममरवधूर्वीतबन्दीर्व्यधाः श्रीः आर्द्रागोराक्षसीश्च प्लवगवरभयादध्यरक्षः कृपार्ता । वन्दीज्ञे कर्मबन्दीविकलमनुकलं सागसं वा त्वदङ्घ्रयो लग्नं कस्मान्न पासि खवशवृषधरे डम्ब मां वत्सलाऽपि ॥ १०२॥ खद्योतभावं भवदीयतेजः प्रद्योतनाग्रे तपनस्समेत्य । खद्योतनाम प्रययौ त्रिलोकीविद्योतमानप्रथ वेङ्कटेश ॥ १०३॥ सत्सङ्घातमहोसहे कुवलयप्रद्वेषिवृत्त्यञ्चिते नित्यं पङ्कजनीष्टकारिणि कदाचित् प्राप्य वा दक्षिणाम् । भूयोऽप्युत्तरयाशया प्रचलिते प्रायो विसर्पत्करे सर्वत्रैव कठोरगौ भयि कथं लक्ष्मीश नो तिष्ठसि ॥ १०४॥ वैकुण्ठादवतीर्य चौर्यनियतं जारत्वमभ्यस्तवान् श्रीश त्वं नवनीतगोपवनिताः स्तोयानुषक्तीः श्रयन् । शब्दादौ विषये चिरान्मम रुचिं पातिव्रतीं बिभ्रतीं हृत्वोत्कां त्वयि चेत्परे तु पुरुषे कुर्याः कृती स्यास्तदा ॥ १०५॥ शेषाद्रौ कुसुमं भवेयमपि तद्यत्स्वल्पमेकं फलं नश्यद्दाग्द्रुमसङ्गतं न जनयल्लूनं करेणादरात् । त्वद्भक्ताय फलान्यदृष्टविलयान्यच्छान्यनेकान्यलं सूते त्वत्पदगन्धकान्तिमृदुताश्चाप्नोति सार्थोदयम् ॥ १०६॥ जेतुं त्वां सजडान्तरस्सनिनदो मेघो वृषाद्रिं गतो नित्यश्रीयुत साचिरद्युतिरिलां कुर्वन् सपङ्कां स्वतः । पङ्कध्वंसक शुद्धसेवित शुचित्यक्तो नभोगस्सुखिन् लज्जाभागशनीद्धतापविकरो मुञ्चत्यहो जीवनम् ॥ १०७॥ समीरणसमीरणश्रितसुधन्यवन्यस्फुरत्- सुमप्रकरतत्परभ्रमरमण्डलीवेष्टितम् । हिमाहिमभयादिवाधवलगाढवस्त्रावृतं विमानमुपमानवाग्रहितमाश्रितं त्वाश्रये ॥ १०८॥ प्रयाति मुखतां विधौ तव कलङ्कहानेच्छया भजालमभिजिद्युतं प्रियवियोगदुःखासहम् । चतुर्युगलमौक्तिकश्रवणभूषणत्वं तथा नखप्रततितामपि स्वयमगाद्रमावल्लभ ॥ १०९॥ मद्रक्षैककृतक्षणेन भवता दत्तेन चित्तादिना सेवायै करणेन साधु गुरुणा गोवालसंछेदनम् । छित्त्यै शिष्य इवैधसः कुचरितं कुर्वेऽतिदुर्वारधीः मामीदृग्गुणमीश रक्षसि कथं शेषाचलाधीश्वर ॥ ११०॥ शाटीभास्वत्कटीत्विट्फणिपतिफणितिं चारुटीकासुकुञ्चीं युष्मत्सर्वस्वपेटीं रुचिरविरचितां शुद्धगोराशिरत्नैः । वित्ताशायत्तचित्ते मयि वरदयया सन्निधे त्वं निधेहि त्वद्वश्योऽवश्यतःस्यां तदनु तव पदं न त्यजेयं भजेयम् ॥ १११॥ प्रयाति मुखतां विधौ तव कलङ्कहानेच्छया प्रियाविरहगूढधीर्भवदुरःस्थिताया गलम् । ननान्दुरिव रागतोऽश्लिषदनर्ध्यभासोज्ज्वला वृषक्षितिभृदीश्वरासितकिरीट तारावलिः ॥ ११२॥ आखेटोत्कं वृषाद्रिप्रभुमतिजवन श्रीशमानीय देवं चारञ्चारं पुरो मे विसदृगुपकृते क्रीतदासत्वमाप्तम् । मां त्वत्पादेऽभिराजद्गुणगण विनतं वीश्वरानन्दयित्वा कर्माजन्याभवस्पृग्वर भज विनतानन्दनाख्यां शुभार्थाम् ॥ ११३॥ कांश्चिद्रक्षसि मां कुतो न कमलेण्णिर्हेतुकारुण्यभाक् सेच्छास्ते यदि मां तथा न कुरुपे कस्मान्न यादृच्छिकम् । पुण्यं मे यदि तत्कुतो न तनुषे चित्कृत्यमेतत्तु चेत् अन्तः किं कुरुपे ह्युदास्स इह चेच्छक्तः समो वा न किम् ॥ ११४॥ अग्रे तेऽपि विवादतत्परममुं किं पातयस्युग्ररुट् दुःखे त्वत्पुर आकुत्र पुरास्थितोऽस्मि सहजं भूयोऽस्तु का मे क्षतिः । कुर्वे साधु विवादमेव यदि वा नित्ये पदे चैद्यवत् घण्टाकर्णवदप्यये क्षिपसि चेत्स्याः सार्थकोपस्तदा ॥ ११५॥ आरान्मङ्गलतुङ्गश‍ृङ्गशशम्भृद्ग्रावस्रवद्वार्निशा- सिद्धासेकमहालवालतरुजैर्नानास्फुरत्सौरभैः । विभ्राजन्मकरन्दकैः सुमरुता विक्षिप्यमाणैः सुमैः आक्रान्तालयमिन्दिरासहचरं वन्दे महानन्ददम् ॥ ११६॥ तिष्ठन् वेङ्कटशैलमूर्ध्नि पुरतः कृत्वा पतङ्गं शुचि- स्तोमेन स्फुरताऽऽवृतो ननु धरन् सव्ये पवित्रं करे वारस्त्रीजननृत्तवीक्षणमपि त्यक्त्वाऽद्वितीयो हरे गोपीजारतया समागतमघं मार्ष्टुं तपस्तप्यसे ॥ ११७॥ शब्दादिप्रवणांस्त्वदङ्घ्रिजलजात् द्वन्द्वं तृणीकुर्वतः पश्यन्तो मनुजान् विसृष्टविषयाःसन्तोऽपि लक्ष्मीपते । प्राप्यप्रापकशोधकाः परिहृतौ भक्तेरपि प्रोत्सुकाः तत्त्वत्पद्युगसद्धनं तृणमिव प्रेक्षन्त इत्यद्भुतम् ॥ ११८॥ शेषाद्रीश्वर मामकं दृढपदं बह्वर्थसन्धायकं गोजालं व्रजवासिनामिव भवद्गीतामृतासारतः । व्यावर्त्यामितदुष्टसत्त्वविषयात् त्वत्सन्निधौ चारयन् रक्ष क्षेमद किञ्चिदान्तरधनं गोपालक स्वीकुरु ॥ ११९॥ आर्यानार्याशयाम्भोभवभवनशिरश्छेदपापोग्रताप- व्यग्रस्योग्रस्य भिक्षां प्रतिदिशमटतः पाणिलग्नं कपालम् । भ्राजत्तेजा व्यधास्त्वं स्फुटितमज यदा पार्श्वरक्तप्रसृत्या पारम्यं रम्य सम्यक्तव जगदवदत्सत्तदैवादिदेव ॥ १२०॥ त्र्यक्षं रक्षकमाहवे विवशयन् रक्ष्यस्य बाणस्य च त्वत्पौत्राय निजात्मजां कलयितुं द्वौ द्वौ समाश्लिष्य च । स्वेशं क्रन्दितुमात्मनोर्ननु दशां त्यक्त्वाऽवशिष्टान् भुजान् छित्वा रक्षकतां त्वदेकनिलयां लक्ष्मीनिवासाकरोः ॥ १२१॥ न जाने श्रीजाने हितमहितमप्याहितमहा- विमोहो मोहोद्यद्विषमविषयासक्तिविवशः । निहन्ताऽहन्ताया भवति न विवेको भवति धीः खपद्मं पद्माङ्घ्री कथमिव लभेयं समगुण ॥ १२२॥ कदा वा शेषाद्रौ तुलितविरजस्वामिसरसी- जले स्नातः पूतो भुवनभवन त्वद्भवनभाक् । अये लक्ष्मीनाथासुरविमथनास्मद्धननिधे प्रसीदेति क्रोशन्निमिषमिव नेष्यामि दिवसान् ॥ १२३॥ कदा वा पङ्कच्छिज्जनयदमृतं निर्मलनख- श्रिया पङ्कोत्पन्नं विषनिलयमब्जं हसदिह । न ते रागं स्वीयं प्रकटयदिवालोहिततया रमेश त्वत्पादद्वितयमज पश्येयमसकृत् ॥ १२४॥ कदा वा दावार्चिःपरिभवभवद्वैभवभव- च्छिदम्भोभृद्दम्भोल्लसनहसनप्रोज्ज्वलतनो । सुसारासाराभाशरणकरुणादृष्टिरमिता प्रसन्नाऽऽसन्नार्ता मयि परिपतेद्वेङ्कटपते ॥ १२५॥ धारकपोषकभोग्यत्वत्कः परमो गुरुर्दयालुर्नः अस्मभ्यं त्वयि रचितन्यासोऽयं तत् सुमाव सम्बन्धात् ॥ १२६॥ अनेकैः स्वै रूपैर्धरति मम रूपाण्यनुदिनं श्रमो भूयानासीदिति फणिपतेस्तानि कृपया । दधन्तीं श्रीभर्तर्निजपृथुकलक्ष्मीमनुपमां शिरोबाहामध्ये वहसि किमु शेषत्वकुतुकी ॥ १२७॥ सुगन्धपरिबन्धुरं सविधसेविनां साम्यदं लसद्विटपसद्भुजं किसलयाभदन्तच्छदम् । अदभ्रमलयं गिरिं श्रितममेयलक्ष्म्याञ्चितं भवन्तमभजन्त किं पटुपटीरबुध्द्योरगाः ॥ १२८॥ त्वां वल्मीकगतं पुराऽतिसुरभे संवेष्टयन्तः फणि- श्रेष्टाः शीर्षभुजावलग्ननिलया गन्धैकवश्यान्तराः । गोक्षीरच्युतवामलूरुकभयप्रत्यक्तवन्तद्भ्यः परे भान्तीमे किमु वेङ्कटाचलपते श्रीवासबाह्वन्तरम् ॥ १२९॥ निर्हेत्वप्रतिषेधमादृगवनं हर्याखुवैर्यर्भक- न्यायाभ्यां न भवत्यथापि शकनाद्रुध्द्वा निपेध्द्रेऽपि मे । षट्पत्कीटनयेन देहि समतां कः किं स्वतन्त्रं वदेत् मर्यादा क्वचिदुज्झिता जयतु वा नित्या विभूतिः परम् ॥ १३०॥ मन्निन्दास्पृहयालुताळुरिह निर्बीजं कृपालुर्भया गुप्तं वाङ्मनसापदं च मदघव्रातं स्वयं कीर्तयन् । आदत्ते समुदग्रमुत्तव च मत्पापापनुत्तिश्रमं के किञ्चित् कुञ्चयति प्रपञ्चजननोदञ्चद्विरिञ्चेडित ॥ १३१॥ रक्ता दृक् स्वगुणेन ते हृदकरोद्रक्तं श्रियः सङ्गतेः त्वद्दृङ्नीलतमा तु रक्तभकरोत् हृत्ते विचित्रं त्विदम् । स्वातन्त्र्यं गुणमग्रहीत्तव ददौ स्वं पारतन्त्र्यं च ते भाग्यं मे पितरेतदत्यघयुजो माता त्वलं वत्सला ॥ १३२॥ रम्यस्यन्दमरन्दबिन्दुसुमनोबृन्दत्वदङ्घ्र्यम्बुज- द्वन्द्वास्कन्दननन्दनीयविभवाः कुन्देन्दुमन्दस्मित । वन्दारुव्रजचन्दिरानन सुधानन्दाश्रुसन्दोहिनः सुस्पन्दाः पवनाः त्वदद्युपवनाद्भूपावनाः वान्त्विति ॥ १३३॥ जीवाः पात्राणि माया विपुलयवनिका सूत्रजालानि कर्म- व्राता मायाविकारा ह्युपकरणपदं यान्ति पेट्यौ पटिष्ठे । श्रीवत्सः कौस्तुभश्वाप्रकृतिपरवशा वीक्षणोत्का नटी श्रीः लीलादीन् सूत्रधारः त्वमखिलभुवनं नाटकस्ते रमेश ॥ १३४॥ सममसममनन्तं मङ्गलं मङ्गलानाम् अमलममलभासा भासयन्तं जगन्ति । हृदयहृदयमुष्णद्योतहृष्यन्नशुष्य- त्कमलकमलनेत्रं स्तोत्रपात्रं करोमि ॥ १३५॥ प्रीतः श्रीश वपुःश्रमेण सुमदे भूरङ्गदासे धन- च्युत्या प्रीततरः सुवर्णसुमुदे तोण्डप्रभौ निर्व्यये । नाथ प्रीततमः कुलालजरठे मृत्सूनदे तत्सुमे प्रीतिस्ते सुलभे ममाद्य सुलभं हृत्पद्ममङ्गीकुरु ॥ १३६॥ नायं शीतकरो जगत्सु विहरत्त्वत्कीर्तिलक्ष्म्याः करे श्वेताब्जं न च लक्ष्म बम्भरकुलं नो कौमुदी तारकाः शीतत्विट्पटवासजातिकुसुमव्राताः सुरस्त्रीकर- क्षिप्तास्तत्तनुसङ्गतास्तदनिशं ते हि भ्रमन्त्यम्बरे ॥ १३७॥ रूपि स्वं गुणमादधाति निकटे स्वच्छेऽन्यरूपास्पदे दृष्टान्तस्फटिके जपासुममिह प्राप्तं विचित्रं महत् । श्यामोऽप्यात्मगुणेन काममतनोः श्यामाः पुरा गोपिकाः रक्ता नन्दतपोविपाकजनने शेषाचलाधीश्वर ॥ १३८॥ ब्रह्माण्डे सरसि स्फुटोडुकुमुदे द्युर्वारि ते मेरुणा क्रीडामण्डपिनीनचन्दिरमिपेणौजोयशस्सम्पदौ । पश्यन्तीष्वमरीष्वपक्ष्मचलनास्वाराद्विसर्पत्करे सान्योन्यग्रहणस्पृहे भ्रममितः शेषाद्रिचूडामणे ॥ १३८॥ नेत्रारुण्यमिषेण वेङ्कटपते युष्मत्स्वरूपादिके सत्त्वासत्त्वदृशोरुपर्यनुसृचलितस्वोद्देश्यभेदं परम् । भूषास्त्रत्वयुतत्वदायुधसमं प्रह्लाददैत्येन्द्रयोः सन्दृष्टं युगपत्प्रदर्शयसि किं सद्रागरुट्त्वं पदम् ॥ १३९॥ रमाऽरुणपयोरुहप्रतिमयत्करैर्लोहिता त्वमप्यधवलोत्पलप्रभवदीक्षणप्रेक्षणैः । गतोऽस्यसिततां ध्रुवं तव तदक्षियुग्मं सदा मयि प्रसरतु प्रभो वृषधराध्रधाराधर ॥ १४०॥ दातृत्वोपकृतिप्रियोक्तिरहितान्नोद्यद्दयान् प्राभव- स्फीतान् दर्शितदन्तपङ्क्ति धनिनः संसेव्यमानान्मया । मन्ये हृद्युपकारकान् धनलवालाभाकुलं मां यतः ते श्रीवेङ्कटशैलनाथ सदयं त्वां स्मारयन्त्यञ्जसा ॥ १४२॥ उष्णानुष्णसहिष्णुरेव विचरन्नुष्णांशुतेजश्वयं भूष्णुं जिष्णुमजं च विष्णुमसुखं मुष्णन्तमर्थिस्थितम् । रैतृष्णामृगतृष्णया परवशो दुष्टाध्वनिष्णातधीः श्रीशं कृष्णरुचिं विहाय नरमाः स्तौम्येष पुष्णात्विति ॥ १४३॥ वृत्तिर्मे न सतीति चेत्तव कुतः सर्वान्नभुक् सा सती भिल्लीशेषफलाद जारनृपते दस्योऽङ्गनाध्वंसक । सूते पापमसौ ममैव यदि तत्किं निग्रहस्ते यदि त्वद्वद्वीक्ष्य तदुज्झितः शिशुमिमं श्रीशाव भां तावकम् ॥ १४४॥ स्वातन्त्र्यप्रबलाघवीक्षणभिया त्वज्जीवयोर्वत्सला श्रीरास्ते रुचिरोरसि प्रतिकलं स्वातन्त्र्यभङ्गात्ततः । वात्सल्यादिगुणा जयन्ति शरणं त्वं भीर्न न क्लिष्टता सौख्यं तूत्कटमित्थमप्यरुचयो न त्वां भजन्ते जडाः ॥ १४५॥ चोरः कोऽपि वृषाचले बत महामायो जरीजृम्भते आराध्यप्रजवप्रसारितगुणाकृष्टाः प्रमोदाञ्चिताः । तत्सात्कृत्य समग्रवञ्चितधिपः स्वं सर्वमन्यानपि स्वं सर्वं तदधीनमेव कुरुतेत्येवं भणत्यन्वहम् ॥ १४६॥ मच्चक्षुःपरिपेयकौस्तुभमणे नावेक्ष्य मत्पातकं रक्षायै हृदये निवेशितममुं मां शोभमानाज्जलिम् मह्यं दर्शयसे भयं मम परं हर्तुं कृपाम्भोनिधे श्रीशेषक्षितिभृन्निवास कमलाशुद्धान्तवक्षःस्थल ॥ १४७॥ स्वप्राणोश्चण्डपत्रोद्दलितनिजपदोद्यद्रजोवैभवेन स्वाक्ष्यास्यभ्राट् स्वनाभिं श्रवणमपि निजं स्वं च कं छादयाद्भिः । भ्राजत्सत्त्वैस्तमोभाविवरणपटुभिर्जन्यसक्तैः स्वकृत्तैः भिन्नाक्षो नस्वगीःस्थैः स्वहृदयशरणं चारुगुर्माः पुनातु ॥ १४८॥ श्रीभृन्मामव चक्षुषोश्च हृदये विन्यस्य मे सर्वदा त्वां वर्ते विशयोऽस्ति ते यदि परित्यक्तेतरप्रत्ययः । त्वत्कारुण्यदृगापतत्तरलसद्धारैकपात्रं तु मां कृत्वा तत्र विलोकयोज्ज्वलमते मा मध्ववाच्यादरः ॥ १४९॥ एह्यत्र मन्येऽद्य हरिष्यसे हृद्वृषाद्रिनाथेन हृतं तदासीत् शब्दादिमेवं विषयं हसद्भिर्नतिर्गृहीता मम सद्भिरस्तु ॥ १५०॥ हृद्वो हरिष्यध्व इतीव मन्ये वृषाद्रिभर्त्रैव हृतं पुरा तत् इति प्रकृष्टान् विषयान् हसद्भिर्नतिर्गृहीता मम सद्भिरतु ॥ १५१॥ शुत्याद्यवगत्याहतवृत्त्या जडमत्या- ऽधृत्याऽधृतिमत्या परवत्या जनतत्या । सत्या चिदुपेत्या क्षितिभृत्यापरवत्याततनित्या प्रीत्या भगवत्याविरभूत्याज्यकुगत्या ॥ १५२॥ श्रीभ्वीट् कुध्रभृदब्रुङुद्भवशिवेट्छक्रादिलेखेड्यप च्छार्ङ्गच्छिन्नरिपुच्छिदिद्धविशिखाच्छन्नच्छविद्विट्छिराः । कार्तार्थ्यान्वहसंस्फुरत्सदघधक्छेषक्षितिध्रक्षयो दद्यात्स्वस्त्यदरी दरीलसदरी नीलस्सनीलस्स नः ॥ १५३॥ तव मुखरुचिमाप्तुं सङ्घशक्त्त्या समाब्जो नखमिषदशवर्ष्मा पादयोस्ते पपात । अथ तद सहमब्जं छादयत् तं सगन्धं स्वयमपि बहुसङ्ख्यं तत्फलार्थं तथाभूत् ॥ १५४॥ श्रयति यस्य वधूर्हृदयं सदा स पुरुषोत्तम इत्यनिशं हरिः । स्वपुरुषोत्तमतामिव बोधयन् हृदयवासिरमः स मुदेऽस्तु नः ॥ १५५॥ स्वांशं स्वामिसरस्यपारकुसुमे नॄणां मुदे कार्तिके द्वादश्यां सितपक्षके प्लवमुपारूढं वृषाद्रीश्वरम् । दृष्ट्वा देवमुदे वियत्सरसि सत्सूनेंऽकदम्भो हरिः सुप्रेम्णोडुपमेत्य नीलरचितां नीलः स सङ्क्रीडते ॥ १५६॥ अघटितघटनापटुता यदि तव बहुलाघमुत्तमानन्दम् । श्रिभृत् कुरु मां नित्यं सेवे त्वां भवति हि स्वलाभस्ते ॥ १५७॥ त्वन्नामानि जपन्तं नित्यं रक्षसि कथं न मां श्रीश । लौकिकशब्दपरोऽहं किं तेऽखिलशब्दवाच्यता नो वा ॥ १५८॥ परं पदमयं स्वह्यतोऽप्यपरमेव वा स्यान्न चेत् परापरविदां वरा वृषगिरीश ते सूरयः । कुतोऽन्यतमवस्तुतामिह चराचरेष्वात्मनाम् अवेक्ष्य तदुपेक्ष्य ते निकटदेहलीत्वं ययुः ॥ १५९॥ वैकुण्ठाद्वृषशैल एव परमो यस्मात्ततोऽत्रागतः तत्रत्यैः सह मोदसे कमलया भान्त्यत्र ते सद्गुणाः । द्योसन्मर्त्यपतत्पशुक्रिमिदृशां गम्योऽत्र पूर्णैनसः दृग्योग्योऽसि ममापि हन्त विमुखाः पश्यन्ति ते स्वामिताम् ॥ १६०॥ नित्ये धाम्नि नमानमक्षमपि नो साक्षी न लिङ्गं क्षमं नित्या गीर्बहुभिः परैरितरथा नीता स्वयं दर्शय । तन्मे विश्वसिमि श्रुताः स्वलु गतायाता भवस्था न चेत् तन्मे दर्शयसे न तद्वृषगिरिः श्रेष्ठः परं श्रीनिधे ॥ १६१॥ पूर्वं त्वं निजधामनी तुलयितुं वैकुण्ठशेषाचलौ रोदःपात्रगतौ विधाय नितरामूर्ध्वोद्गतं लाघवात् उत्सृज्यादिममन्तिमं गुरुतयाऽधःस्थं श्रितोऽस्यादरात् एतद्ज्ञापयितुं तथैव जगतः किं तौ निधत्से सदा ॥ १६२॥ लक्ष्मीलक्ष्म महः परं दधदिदं हैमं विदोषप्रभैः सद्रत्नैः सहितं तमःप्रतिभटं धामाचलात्मोत्तमम् । अत्यर्कानलदीप्रमक्षरपदं विष्णोरिति स्वच्छधी- योगीङ्गीर्विषयः स्वमित्यनुदिनं वक्तीव वीनां रवैः ॥ १६३॥ धाम्न्यस्मिन् बहुलक्षपापि विलद्भूभृन्महाराजते स्रग्लग्रभ्रमरालिधीदतनुभातिश्यामहाराज ते । प्राकारे स्फुरितैर्विमानमणिराड्भासामहा राजते जालैर्ध्वान्तहरैःकृतप्रियलसत्कोकीमहा राजते ॥ १६४॥ त्यक्तवा स्वार्थगणं परार्थघटकः सत्पूरुषः कीर्तितः वात्सल्यादिभवद्गुणातिमहसे सोढ्वापि दुःखव्रजम् । दोषानेव सदा करोपि सुखदं पुण्यं न किञ्चित्क्वचित् तस्मात्सत्पुरुषं भवद्धितपरं लक्ष्मीश रक्षस्व माम् ॥ १६५॥ कस्मैचिन्महते प्रसन्नमनसा भूपेन दत्तं वरं ग्रामं तस्य सुतादयोऽप्यनधिका दासाश्च भूपाविदः । लोके भुज्जत एव तद्वदहमप्यज्ञोऽपि तेऽज त्वया पूर्वाचार्यवशीकृतं तव पदं भोक्ष्ये हि तद्दास्यतः ॥ १६६॥ श्रीश त्वन्निकटे पुरार्थितवते मादृक्स्वकीयावली- युक्तस्वस्य शठद्विपे करुणाया त्वं तत्फलं प्रादिशः । बह्वेकत्वनिरूपणोत्कवचना श्रीसूक्तिरस्यादिमा सिद्धोदर्कमिवैतदीयमवदन्मां कास्ति चित्ता मम ॥ १६७॥ कूरेशः स्वपदाश्रिताय हि चतुर्ग्रामाय लब्धैनसे त्वां तस्मिन् विलसत्क्रुधं समुदितक्षान्तिं विधाय स्वयम् । स्वस्मै दत्तमदापयत्फलमतः श्रिश त्वयार्योऽपि मे पूर्णाघाय च दापयिष्यति फलं स्वीयं ममत्वाश्रयः ॥ १६८॥ का कर्मज्ञानभक्तिप्रपदनविरहात् पातकेभ्यश्च भीर्मे स्वाङ्घ्रौ बद्धाज्जलीनामभिनयति हरिर्जानुदघ्नं भवाब्धिम् । उद्दिश्यैनं कदाचित्कथमपि च सकृत्कुत्रचिन्मेऽज्जलिः स्या- दार्योक्तोऽशक्तिबुद्धेरभिमतसुखकृच्छक्तलक्ष्यं परं हि ॥ १६९॥ मन्दो हन्त जनोऽनवद्यसुखदे सङ्कल्पमात्राद्वधू- पुत्राद्यैहिकलोकदायिनि हरेर्नत्येकलभ्ये स्थिरे । हैमे धाम्नि नधीः क्षराल्पसुखदालभ्याधिकानर्थद- स्त्रीहेमायतिकाङ्क्षयात्र बहुधा निचत्वमापद्यते ॥ १७०॥ उत्पूलुत्य त्वरया सुशीलकणो वैकुण्ठतोऽमुं श्रितः चिहं भूधरनिम्नता क्कनु गता सा ते त्वरा वश्यवे । दीनस्यात्यघिनोऽगतेर्मम पुरो न प्रादुरासीः कुतः श्रीभृल्लोकुगुणस्तवापि किमभूद्धीमान्द्यमस्यैनसा ॥ १७१॥ भक्तयङ्गं किमुत प्रपत्तिमिलितो हेत्वन्तरं वा फलं हेतुर्नान्यफलस्य कृत्स्नमपि नो किञ्चित्त्वयैवाज्जलिम् । त्वत्पादेऽरचयं कथाञ्चिदव वा मा वाऽघमग्नं तु मां कुर्वस्यानमतश्चिनत्सि तु करं दीनः करोमीश किम् ॥ १७२॥ विलोक्य मम देशिकं वरभवत्पदैकाश्रयं अकिञ्चनमसद्गतिं बहुलपापमग्नाशयम् । त्वदङ्घ्रिशरणागतिं कथमपीरयन्तं जडं न वीक्ष्य मम दुष्टतां स्वकृतवित्त्वमेवाव माम् ॥ १७३॥ दुःखं मां शरणागतं भजति चेत्क्रन्दामि तद्दर्शिनः तन्न स्याद्यदि ते दयाविरहितः स्यास्तद्भवेत् ते यदि । निर्दोषो न भवेर्द्विधा श्रुतिशतोत्सादस्तथान्यश्रुतेः सिध्येन्नैव किमप्यतः परममुं रक्षाखिलाघव्रजात् ॥ १७४॥ वाचामगोचरमनन्तमनन्यनिष्टं श्रुत्यादिसिद्धमनिशं गुणमण्डलं ते । आच्छाद्यपूर्वमिदमेव ममापि चित्रं अस्यैकदैव हि विरुद्धभयाभये स्तः ॥ १७५॥ कामादिदोषनिवहः परिवर्धते मे जानन्नधीरपि सदा रचयाम्यघानि । दुस्सङ्गतौ रुचिरतोऽनुशयः कदापि नोदेति हन्त कथमीदृगहं तरेयम् ॥ १७६॥ रागं विवर्धय भवच्चरणारविन्दे दोषेषु यत्नमनिशं विफलं कुरुष्व । बालाद्यवद्यपरिहारनयादयुक्तं मा दर्शयार्जय सदा भवदीयसङ्गम् ॥ १७७॥ हातुं नाथ नभोगतां वृषधरावास त्वमासीद्धनः चिह्नं चामृतदत्वमाश्रयविनाभावासहाऽगात् तटित् । अस्थैर्ये विमनाश्च मात्वमिहते वक्षस्यलोलस्थितौ लक्ष्म्यां श्रीश्चपलेति लोकवचनं विद्युन्मयत्वार्थकम् ॥ १७८॥ कांश्चिद्रक्षसि मां कुतो न बहुना पापेन चेत्तत्कृतं मन्दं मामनिवारयन् मयि वसन् दक्षः किलाकारयः । कूपान्तर्निपतन्तमर्भकमलं पश्यन्त्युपेक्षापरा माताऽपातयदेव तत्त्वदुदितं पापं निवर्त्याव माम् ॥ १७९॥ अन्तःस्थो जगतां जनिस्थितिलयान् कुर्वन्नियन्ता स्वराट् दुष्टघ्ने जननादिभाक् स्वमनसा श्रत्यादिमानोऽप्यहम् । न त्वं साक्ष्यवदः प्रमाणमशुभं वाचा किमेवंविधः त्वं चेन्मामव पातकादकपटं त्वां निश्चिनोमीदृशम् ॥ १८०॥ कुर्वे दुःखकराण्यघानि मनसा कस्मादहं वासना- मोहाद्यैरिति चेदमूनि किमु ते वश्यान्यवश्यानि वा । आद्ये तैस्त्वमकारयः स्वकरणैर्वश्यो न दण्ड्योऽस्म्यहं पित्राज्ञारचितस्वमातृनिधनः किं जामदग्न्योऽघभाक् ॥ १८१॥ अन्त्ये यद्यलयानि तानि न सुखं स्यात्कस्यचित्किं त्वया श्रीयन्ते यदि जातुचित्कथमपि श्रीनाथ किं वा त्वया त्वत्तश्चेत्तदवारकः शकनवान्नाकारयोऽघं कुतः मच्चेत्किञ्चिदपेक्षसे न हि भवेः पूर्णस्ततो रक्ष माम् ॥ १८२॥ निर्बीजं मम रक्षणे निखिलचिन्मुक्तिप्रसङ्गो यदि स्यान्नौ का क्षतिरक्षरं तव पदं वर्धेत हीदङ्क्षयात् । लोकोऽयं सकलः सुखैकनिलयः स्याद्वा जनायं विना लीला ते न घटेत चेत्तव कृते दुःखप्रदस्त्वं भवेः ॥ १८३॥ स्वाज्ञाभेदनिजस्वहृत्यपदवीचारस्थिरं प्रायशो दण्डैरप्यनिवृत्तमेव निधनानर्हं स्वकीयं प्रभुः । स्वेच्छाचारनिरोधके दृढतरे धाम्नि स्वके पातय- त्येवम्भूतममुं रमाधव कुतो मा पातयस्यक्षरे ॥ १८४॥ बालं कर्मपिताप्यकार्यशतकं कृत्वाप्यदोषोऽवति त्वं तातोऽनुपधिः स्वराडशरणं दीनं जडं माममुम् । मर्यादामनवप्रमाणगदितामुत्सृज्य वा पासि चेत् का ते हानिरनीदृशेषु भवतात् सा सर्वविच्छीनिधे ॥ १८५॥ मर्यादामवधीर्य चक्रमधरो विप्रात्मजानक्षरं धामारोप्य पुनर्द्विजाय समदास्तस्मात्समानीय तान् । घण्टाकर्णमुखद्विषः समनयो मुक्तिं परां श्रीनिधे सन्त्यन्यानि निदर्शनानि च शतं मय्येव सा पाल्यते ॥ १८६॥ चेतोवाक्तनुकर्मभिः क्षरतमैः कालान्तरे कार्यकृत् कल्प्यं कर्तृगतं स्वतस्त्वकुशलं किञ्चिद् गतं लाघवात् । विद्वत्कारकधर्मतां तदिह ते कोपो हि मद्गोचरः पापं मे त्वदनुग्रहेऽत्र परमे कुत्रैष तिष्ठेद्धरे ॥ १८७॥ कस्मान्नावसि मां हरे मयि गुणो नास्तीति चेत् किं त्वया दोषे सत्यवितुं यथा न निपुणो नैवं गुणे शिक्षितुम् । रक्षारक्षणयोर्गुणागुणगता स्याद्दक्षता तद्भव- न्नाथत्वाय सदोषमस्तगुणमप्येतं प्रभो रक्ष माम् ॥ १८८॥ वीक्ष्य श्रीट् प्रभुतां भयात्तव मुदे भ्रान्त्या नु मुग्धं जनः त्वामाहाखिलवेदिनं स्वमवति स्वार्थार्थमेव स्ववान् । स्वस्य स्वानवने क्षतिः स्वमवितुं स्वं नैव दक्षं त्विति त्वं नो वेत्स्यथ वेत्सि चेत्कथममुं स्वामिन्न मां रक्षसि ॥ १८९॥ नाम्बामम्बेति तातेत्यपितरमपि किं वक्ष्यसिशोऽपि याच्नां दौत्यं वा सारथित्वं गिरिधृतिमवनेरुद्धृतिं वा वनान्ते । सञ्चारं दैत्यरक्षोबहुविधनिधनं दावपानं दयालो मद्रक्षार्थं [करिष्यस्यजित बत कुतो मुग्धवत्तिष्टसि त्वम्] ॥ १९०॥ ॥ इति श्लोकानिमान् सप्त श्रीनिवासगुणाकरे ॥ ॥ श्रीशैलस्तातयाचार्यो व्याख्यया समयोजयत् ॥ ॥ इति श्रीनिवासगुणाकरः ॥ ॥ यावदुपलब्धः ॥ From a telugu book veNkaTeshakAvyakalApa