अक्षर आकार:

श्रीनिवासार्चादशकम्

shrInivAsArchAdashakam

श्रीनिवासार्चादशकम्

श्रीवासदेवकरुणाशिशिरालोकामृतावसेकेन । उपचितबहुविधपुण्यं धन्यं श्रीवेङ्कटाचलं वन्दे ॥ १॥ बहुलशिलातलतरुततितृणगणवीरुज्झरीमयश्शिखरी । यो गीयते परिवृतो योगीन्द्रैश्श्रीनिवास एवेति ॥ २॥ पशुपक्षिमृगवनस्पतितृणगुल्मलताशिलासु चात्मजनिम् । यत्रार्थयन्ति मुनयश्चित्राकारेषु निर्ज्झरेष्वपि च ॥ ३॥ परवासुदेव एव स्थिरवासं प्राप्य यत्र सह रमया । चिरमानन्दमुपैति हि परमानन्दं विहाय वैकुण्ठम् ॥ ४॥ मलसङ्कुले कलावपि फलजालान्यैहिकान्यपीह जनाः । स्वाभीष्टानि लभन्ते यत्र श्रीवासदेवकरुणातः ॥ ५॥ नारायणाचलेऽस्मिन्नाराच्छ्रीस्वामिपुष्करिण्याश्च । तीरालये विभान्तं नारायणमाश्रये रमाकान्तम् ॥ ६॥ अञ्जनगिरिशिखरालयमञ्जनरोचिर्निरञ्जनं धाम । कञ्जविलोचनमीडे पिञ्जरवक्षश्श्रियस्त्विषा किमपि ॥ ७॥ नारायणाद्रिवासं श्रीश्रीवासं रमाक्षमावासम् । हरिमणिगिरिसमभासं सुरुचिरहासं नमाम्यवितदासम् ॥ ८॥ आश्रितफणीन्द्रशैलं हरिमणिनीलं सुवर्णसमचेलम् । ??? कमलालोलं नमामि समशीलम् ॥ ९॥ अधरितसुरतरुदानं रक्षितदीनं रजस्तमोहीनम् । कमलाकृतबहुमानं श्रीनिधिमेनं श्रये श्रिताधीनम् ॥ १०॥ सुरगणसेवितचरणं श्रितजनशरणं श्रिताबलाभरणम् । कर्तुं भवाब्धितरणं कलये शरणं वृषाद्रिवरशरणम् ॥ ११॥ वृषशैलशिखरिजातं वारिधिजातालताभिपरिवीतम् । वन्दे सुपारिजातं विश्वजनेभ्यो वितीर्णफलजातम् ॥ १२॥ ॥ इति नावल्पाक्कं श्रीराजगोपालताताचार्यकृतं श्रीनिवासार्चादशकम्॥ From a telugu book veNkaTeshakAvyakalApa