श्रीकृष्णविलासकाव्यम् सुकुमारकविविरचितम्
॥ श्रीः ॥ प्रथमः सर्गः अस्ति श्रियः सद्म सुमेरुनामा समस्तकल्याणनिधिर्गिरीन्द्रः । तिष्ठन्निदं विश्वमनुप्रविश्य स्वेनात्मना विष्णुरिवोर्जितेन ॥ १-०१॥ मिथस्तिरोभावविलोकनाभ्यां सङ्क्रीडमानाविव बालकौ द्वौ । पार्श्वेषु यस्याशु परिभ्रमन्तौ चन्द्रांशुमन्तौ नयतो दिनानि ॥ १-०२॥ उच्चैश्शिखः काञ्चनगौरवर्णस्तमो निगृह्णन्महसा निजेन । दीपस्त्रयाणामिव विष्टपानां यो भाति पर्यन्तचरत्पतङ्गः ॥ १-०३॥ यस्या पतित्वे विहिताभिलाषः करोति तीव्राणि तपांसि लोकः । बिभर्ति रत्नाकरमेखलां तामङ्केन पुत्रीमिव यो धरित्रीम् ॥ १-०४॥ महान्ति दानानि मखानुदग्रान् पराञ्चि पानाशनयोस्तपांसि । शरीरिणः शान्तमलैर्मनोभिः कुर्वन्ति यच्छृङ्गनिवासकामाः ॥ १-०५॥ सुरा युगान्तेषु सह प्रियाभिर्न्निषेदिवांसो यदधित्यकासु । उदन्वतामैक्यमुपागतानां पश्यन्ति कल्लोलशतप्रचारान् ॥ १-०६॥ पुष्पाणि शय्यास्सुरपादपानां क्रीडागृहाः काञ्चनगह्वराणि । भवन्ति च स्वर्गविलासिनीनां रत्नाङ्कुरा यत्र रतिप्रदीपाः ॥ १-०७॥ स्वर्गौकसस्स्वर्णमहीषु पीताः श्वेतत्विषो रूप्यमयीषु भूषु । नीलाश्च नीलोपलमेदिनीषु ज्ञातुं मिथो यत्र न शक्नुवन्ति ॥ १-०८॥ दरीगृहोत्सङ्गगतेरनूरोः कशाभिघातध्वनिभिः सकम्पाः । सद्यः प्रियानुज्झितमानदोषाः सुराङ्गना यत्र परिष्वजन्ते ॥ १-०९॥ नेतुं त्रपानम्रमुखीरनीशाः स्फुटानि यत्स्वर्णगुहान्तराणि । सिद्धाः प्रयत्नेन विना नवोढाः नयन्ति नीलोपलगह्वराणि ॥ १-१०॥ यत्रोद्यतानां कुसुमापचाये कान्तासु कल्पद्रुमवाटिकासु । विभान्ति सुत्रामविलासिनीनां पदानि लाक्षारसपाटलानि ॥ १-११॥ पयोदमार्गव्यतिलङ्घिनीषु हंसाः शिरःपुष्करिणीषु यस्य । वर्षागमेऽप्यश्रुतमेघनादाः न कुर्वते मानसदीर्घयात्राम् ॥ १-१२॥ छन्नेषु यस्मिन् कनकोज्ज्वलाभिरामूलचूडं नवमञ्जरीभिः । गन्धेन विज्ञाय पतन्ति भृङ्गाः शृङ्गान्तरारग्वधपादपेषु ॥ १-१३॥ मन्दाकिनी यच्छिखरे वहन्ती कुल्यापथाभ्यन्तरसम्प्रविष्टा । बालेव तद्रक्षणसम्प्रवृत्ता दिने दिने सिञ्चति पुष्पवाटीम् ॥ १-१४॥ श्रियाभिरामश्शरणं सुराणामलङ्घनीयो महता महिम्ना । विराजमानो वनमालया च यः शार्ङ्गधन्वानमनुप्रयाति ॥ १-१५॥ पुरा पुराणां त्रितयं दिधक्षोरुमापतेः कार्मुकतां प्रपन्नः । मध्येन वज्राङ्कुशमत्स्यचिह्नं योऽद्यापि तन्मुष्टिपदं दधाति ॥ १-१६॥ शृङ्गाग्रभाजां सुरसुन्दरीणां मुखानि पश्यन्नमलानि चन्द्रः । निगूहितुं नूनमुरःकलङ्कं ह्रियेव यत्सानुपथेन याति ॥ १-१७॥ मनोभिरामे शिखरे तदीये सहोपविष्टं सुरसिद्धसङ्घैः । अवोचदागत्य कृतप्रणामा कदाचिदुर्वी कमलाधिवासम् ॥ १-१८॥ पुमानिवाहं भवतः पुरस्ताद्ब्रवीमि किञ्चित् प्रतिपद्य धैर्यम् । पीडा मदीया परमत्र हेतुर्निर्ल्लज्जता नन्वखिलोपहास्या ॥ १-१९॥ सृष्टास्त्वया दत्तवराश्च दैत्याः भारेण मां सम्प्रति पीडयन्ति । बले प्रमाणे च भवन्ति येषां नैवोपमानं कुलभूभृतोऽपि ॥ १-२०॥ स्वविक्रमोन्मूलितराजकानां जयैषिणामद्य परस्परेण । तेषां रणक्षोणिषु सिंहनादैर्निर्घातघोरैर्गिरयः स्फुटन्ति ॥ १-२१॥ मुहुर्बलादुन्नमयत्यहीन्द्रे मद्भारभुग्नं फणचक्रवालम्। मम प्रकम्पाश्चलिताब्धिशैलाः दिग्दन्तिनो हन्त कदर्थयन्ति ॥ १-२२॥ आशामुखेषु भ्रमतामजस्रं तेषां चमूभिः परिसर्पिणीभिः । तिरोहितां भानुमतो मयूखाः न क्वापि मां सम्प्रति संस्पृशन्ति ॥ १-२३॥ सन्नास्मि दैतेयभरेण साहं फणीश्वरस्सीदति मद्भरेण । तद्भारशीर्यन्निजकर्परस्य धिक् तामवस्थां कमठेश्वरस्य ॥ १-२४॥ भारावसीदद्फणमण्डलस्य फणीश्वरस्योपरि दुःस्थिताऽहम् । आसन्नपातास्मि तटीव नद्याः प्रवाहवेगेन विलुप्तमूला ॥ १-२५॥ निवेदिता देव मया दशेयमनुक्तिदोषो मयि नोपपाद्यः । निवेद्यते रक्ष्यजनेन दुःखं ततः परस्तात् प्रभवः प्रमाणम् ॥ १-२६॥ इत्युक्तवत्यामुचितं पृथिव्यां चिन्ताबलेन स्तिमितो मुहूर्तम् । मुखानि पश्यन्नमृताशनानां देवः प्रजानां पतिरित्युवाच ॥ १-२७॥ नासत्यमेतद्यदवोचदुर्वी स्वकर्मणः साधु फलं मयाऽऽप्तम् । मद्वर्द्धिता मामवमत्य दैत्याः बलादुपघ्नन्ति जगन्ति यत्ते ॥ १-२८॥ अतीतकार्यानुशयेन किं स्यादशेषविद्वज्जनगर्हितेन । सुराः समुन्मूलनमाशु तेषां कर्तुं यतध्वं जगतां हिताय ॥ १-२९॥ सद्यस्समुत्तिष्ठत चिन्तयालं चिन्ता हि कार्यप्रतिबन्धहेतुः । यामः पृथिव्या सह यत्र तत्र नारायणो दानवकालरात्रिः ॥ १-३०॥ अस्त्वेवमित्यादरपूर्वमेव स स्वीकृतोक्तिस्सुरसिद्धसङ्घैः । सरोजजन्मा सह तैः प्रतस्थे विहायसा विश्वपतेस्सकाशम् ॥ १-३१॥ एलापरिष्वङ्गलसत्तमालं वेलाधिरूढस्खलदूर्मिमालम् । ददर्श धाता मनसोऽनुकूलं पयःपयोधेरचिरेण कूलम् ॥ १-३२॥ ददर्श च क्षीरमयं समुद्रं कैलासशृङ्गोन्नतफेनकूटम् । पुण्यं पयःकेलिसमुत्सुकानां श्रियः सखीनामवगाहनेन ॥ १-३३॥ आनन्दयामास दिवौकसस्तानाघ्रातशेषो मुनिमण्डलेन । प्रकामपुण्यः पवनोपनीतो वैकुण्ठवक्षस्तुलसीसुगन्धः ॥ १-३४॥ गन्धानुसारेण विसृष्टनेत्रैर्हिरण्यगर्भप्रमुखैरमर्तैः । नवार्ककल्पं ददृशे मुरारेर्वक्षस्थलीकौस्तुभरत्नधाम ॥ १-३५॥ अपह्नुताशेषमनोविकारं दिविस्पृशा तूर्यरवेण मिश्रम् । आकर्ण्य वैकुण्ठविलासिनीनां गीतध्वनिं हर्षमयासिषुस्ते ॥ १-३६॥ आसक्तिमालक्ष्य विनीतवेषा स्वमौलिविन्यस्तकरास्सुरास्ते । आलोकयामासुरशेषनाथं सविग्रहं पुण्यमिव प्रजानाम् ॥ १-३७॥ प्रवृद्धहेमाभरणप्रकाशं तमालनीलं जलधौ शयानम् । तटिल्लताढ्यं पयसोऽतिपानादनीशमुद्गन्तुमिवाम्बुवाहम् ॥ १-३८॥ तरङ्गवातेन पयःपयोधेरापूर्यमाणं करपाञ्चजन्यम् । वामेन तिर्यग्वलता सलीलं सम्भावयन्तं मुहुरीक्षणेन ॥ १-३९॥ प्रतिक्षणं प्रेमविशेषजाभिस्सम्भावनाभिः कमलासनायाः । पुराऽऽत्मना कल्पितमम्बुराशेः प्रमार्जयन्तं मथनावमानम् ॥ १-४०॥ पर्यायतः पाणिधृतं सरोजं विन्यस्य विन्यस्य दृशोः पदव्याम्। निद्रां प्रबोधं च मुहुर्न्नयन्तीं पद्मासनां सस्मितमीक्षमाणाम् ॥ १-४१॥ स्वच्छस्वदेहप्रतिबिम्बितेन फणाश्मजालेन फणीश्वरस्य । भास्वत् फलस्तोमनिरन्तरस्य वहन्तमाभां वटपादपस्य ॥ १-४२॥ अजस्रमासीनरथाङ्गशङ्खमतिप्रसन्नं कमलाधिवासम् । सन्तापविच्छेदकरं प्रजानां ह्रदं महीयांसमिवाभिगम्यम् ॥ १-४३॥ वक्तुं मिथो राहुविचेष्टितानि कर्णद्वयाभ्यर्णमुपेयिवांसौ । अलब्धकालाविव भानुचन्द्रौ रथाङ्गशङ्खौ दधतं कराभ्याम् ॥ १-४४॥ द्वारस्थसेनापतिचोदितेन निवारिताः कञ्चुकिमण्डलेन । सुराः प्रमोदस्खलितैर्वचोभिः स्थित्वैव ते व्योमनि तुष्टुवुस्तम् ॥ १-४५॥ नमः परस्मै पुरुषाय तुभ्यं गिरां धियामप्यपथि स्थिताय । अस्मान् पुनस्त्रातुमुदग्रमोहान् कृपाबलात् कल्पितविग्रहाय ॥ १-४६॥ भागीरथी पादकुशेशयात्ते विनिर्गता विश्वमिदं पुनीते । कस्त्वां पुनर्भावयतो जनस्य शुद्धिं परिच्छेत्तुमलं मनीषी ॥ १-४७॥ अनन्तशक्तेरपविक्रियस्य तिस्रस्त्रिलोकीश्वर शक्तयस्ते । वितन्वते स्थावरजङ्गमानामुत्पादनक्षेमविलोपनानि ॥ १-४८॥ कटाक्षमात्रेण भवाम्बुराशेः पारं परं प्रापयितुस्त्रिलोकीम् । सकृन्नमस्या परमातरस्ते यत्नानुरूपं हि फलं क्रियाणाम् ॥ १-४९॥ त्वं ज्योतिरापस्त्वमसि त्वमुर्वी त्वं व्योम वैश्वानरसारथिस्त्वम् । त्वं जीववर्गः परमस्त्वमात्मा यन्नासि किं नाम जगत्पते तत् ॥ १-५०॥ नवाभ्रवर्णं नलिनायताक्षं पीताम्बरं हारकिरीटिनं त्वाम् । वयं तु सेवेमहि वीक्षमाणाः सायूज्यमन्विछति कः सुखार्थी ॥ १-५१॥ अलं न निर्देष्टुमियत्तया त्वामशेषनाथ श्रुतिरग्रिमापि । स एव साक्षात्क्रियते पुनस्त्वमहो जितं नः सुकृतैरनल्पैः ॥ १-५२॥ तृणाय मत्वा निखिलानि शार्ङ्गिन् पदानि वैधेयमनोहराणि । आवृत्तिशून्यं परमं पदं ते वाञ्छन्ति वैराग्यधना महान्तः ॥ १-५३॥ इति स्तुतो देवगणेन देवो दयानिधिर्दानवकालरात्रिः । न्यषीददुत्थाय भरावभुग्ने भुजङ्गतल्पे भुवनैकनाथः ॥ १-५४॥ विष्वक् स वैकुण्ठविलासिनीनां सलीलमान्दोलितचामराणाम् । निवारयन्नग्रकरारविन्दैः कोलाहलं काञ्चनकङ्कणोत्थम् ॥ १-५५॥ प्रसादवत्या कमलासनादीन् सुरानशेषाननुगृह्य दृष्ट्या । उवाच वाचं दशनांशुपूरैः समेधयन् दुग्धमयं पयोधिम् ॥ १-५६॥ अधिज्यकोदण्डधरो निषङ्गी सन्नाहवान् पाणिधृतैकबाणः । अयं समाजो भवतां द्विषद्भ्यो भयं समावेदयति स्फुटं मे ॥ १-५७॥ अलं विलम्बेन दिवौकसस्तन्निवेद्यतामद्य कुतो भयं वः । अयं करो दुष्टवधोत्सुकं मे सुदर्शनं न क्षमते निरोद्धुम् ॥ १-५८॥ इत्यूचिवांसं परमं पुमांसं नत्वा शिरोभिर्बहुशः सुरास्ते । आरूढहर्षातिशयाः स्वमर्थमारेभिरे वक्तुमशेषमेव ॥ १-५९॥ निवार्य सर्वानपि वक्तुकामान् सेनापतिस्तानमरान् करेण । सविभ्रमप्रेरितया पुरस्थं दृष्ट्या सरोजासनमाजुहाव ॥ १-६०॥ अथागतस्तेन करे गृहीत्वा नीतः प्रभोरन्तिकमब्जयोनिः । वक्तुं नियुक्तः स कृतप्रणामो विज्ञापयामास विनीतवेषः ॥ १-६१॥ वयं त्वया दत्तविभूतयोऽपि मोहातिरेकादभिमन्यमानाः । कृच्छ्रे पुनस्त्वां शरणं व्रजन्तः हा निस्त्रपाणां प्रथमे भवामः ॥ १-६२॥ अपारदुःखार्णवपोतपात्रीं त्वया कृपामुद्वहतातिगुर्वीम् । कृतघ्नताजन्मभुवाममीषामस्माकमर्थे न किमन्वभावि ॥ १-६३॥ मनस्विलोकस्य विगर्हणीये प्रतिग्रहे वर्जयता जुगुप्साम् । पुरा पुरस्ताद्बलिदानवस्य प्रसारितो नाग्रकरस्त्वया किम् ॥ १-६४॥ दैत्याधिराजेन हिरण्यनाम्ना पर्याकुलं त्रातुमशेषलोकम् । इदं तु दिव्यं परिहृत्य रूपं न त्वं किमासीर्नरतिर्यगात्मा ॥ १-६५॥ स्वविक्रमाक्रान्तसुरासुरस्य रक्षःपतेर्निग्रहणादरेण । भूत्वा सुतः पङ्क्तिरथस्य राज्ञस्तां तामवस्थां न किमन्वभूस्त्वम् ॥ १-६६॥ अनेकधा पालयितारमेवं सम्प्रत्यपि त्वां शरणं प्रपन्नाः । सन्तापहारी ननु चातकानां भूयोऽपि भूयोऽपि पयोद एव ॥ १-६७॥ विश्वं विदन्नप्यविदन्निव त्वं नाथानुयुङ्क्षे भयहेतुमस्मान् । अनुग्रहस्यैतदपि प्रभूणां प्रायः प्रकारान्तरमाश्रितेषु ॥ १-६८॥ तपोभिरुग्रैर्भगवन् सुराणामवध्यभावं दनुजाः प्रपन्नाः । पातालमुर्वीं च विजित्य दर्पादुपक्रमं ते दिवमद्य जेतुम् ॥ १-६९॥ न जातु शून्यः कुलिशेन पाणिर्वक्षो न मुक्तं मणिकङ्कटेन । शक्रस्य दैत्यागतिशङ्किनोऽस्य नासज्जितस्तिष्ठति वारणेन्द्रः ॥ १-७०॥ दण्डं यमात्पाशमपामधीशाद्गदां कुबेरात्कुलिशं मघोनः । आदातुकामः प्रहिणोति दूतान् कंसः स्वदोर्विक्रमनिर्जिताशः ॥ १-७१॥ रणे विनिर्जित्य बलं सुराणां पराक्रमेणाप्रतिमेन वीरः । भोजेश्वरः क्रीडति सावरोधो मूलेषु सम्प्रत्यमरद्रुमाणाम् ॥ १-७२॥ धनुर्धराध्यासितवप्रशीर्षाः द्वाःपालनव्यग्रसमग्रयोधाः । प्रवीरनिर्भर्त्सितकान्दिशीका स्थातुं न जानाति पुरी सुराणाम् ॥ १-७३॥ हाहेति विक्रोशदनाथमेतद्विश्वं जगत्पीडयतः प्रकामम् । त्वया विनाऽन्यस्त्रिषु विष्टपेषु न कर्तुमीष्टे नरकस्य भङ्गम् ॥ १-७४॥ प्रलम्बकेशिप्रमुखास्तथान्ये परस्सहस्रं परियन्ति दैत्याः । निर्घातकल्पैर्निजसिंहनादैर्विदारयन्तो वियदाहवेषु ॥ १-७५॥ षट् सूनवस्सन्ति हिरण्यनाम्नो दैत्यस्य पातालतलाधिवासैः । तैर्न्नः क्रियन्ते दुरितानि यानि वक्तुं न शक्यानि मुकुन्द तानि ॥ १-७६॥ तेषां महीध्रप्रतिमाकृतीनां भारं मही सोढुमसावशक्ता । अस्मान् पुरस्कृत्य भवत्सकाशं प्राप्ता निजक्लेशनिवेदनाय ॥ १-७७॥ तदेतदावेदनमस्मदीयं श्रुत्वा प्रमाणं प्रभुरित्युदीर्य । विधिर्व्यरंसीद्विहितप्रणामः स चापि गम्भीरमुवाच देवः ॥ १-७८॥ अलं विषादेन दिवौकसो वः समीहितं हस्तगतं मनुध्वम् । व्रतं हि मे केवलमेतदेव संरक्षणं यच्छरणागतानाम् ॥ १-७९॥ मामर्थयन्ते वसुदेवपत्न्यौ पत्नी च नन्दस्य सुतं गुणाढ्यम् । अंशद्वयेन व्रतकर्शिताङ्गीस्तिस्रोऽपि ताः पुत्रवतीर्विधास्ये ॥ १-८०॥ इयं च लोकत्रितयस्य माता मायाभिधाना मम शक्तिरग्र्या । कार्याणि वः कान्यपि कर्तुकामा जनिष्यते जन्मविनाशशून्या ॥ १-८१॥ तद्गच्छत स्वर्गमपेतखेदाः न कालहानिः परिशङ्कनीया । अनेन शार्ङ्गेण शपे शरैर्वः सद्यो मनःशल्यमपाकरिष्ये ॥ १-८२॥ इति तममरलोकं सान्त्वयित्वा स देवः सपदि नवघनाभः पद्मनाभस्तिरोऽभूत् । स च विहितनमस्यस्तस्य वाचं प्रशंसन् निजपदमभिपेदे हर्षपर्याकुलात्मा ॥ १-८३॥ इति सुकुमारकृतौ कृष्णविलासकाव्ये प्रथमस्सर्गः ॥ १ ॥द्वितीयः सर्गः अथैकदा पुत्रफलानि सम्यग्व्रतानि बाह्योपवने चरन्तीम् । रथेन कंसो वसुदेवयुक्तः स्वसारमालोकयितुं जगाम ॥ २-०१॥ स्फुरत्प्रभापल्लविताङ्गयष्टीं कथञ्चिदूढस्तनमञ्जरीकाम् । तत्रालकैः षट्/पदिनीमजानात् स तां लतामध्यगतां चिरेण ॥ २-०२॥ सा सन्नताङ्गी नियमावसाने ज्येष्ठाय तस्मै विदधे नमस्याम् । स चाशिषा तामनुगृह्य साध्वीं भोजेश्वरो वाक्यमिदं बभाषे ॥ २-०३॥ अद्यापि बालासि सुताननेकान् प्रसोष्यसे किं व्रतयातनाभिः । पश्याधुना पल्लवसूतिकाले किं कल्पते चूतलता फलाय ॥ २-०४॥ कृशासि कामं विरम प्रयासान्मनोभिरामानुपभुङ्क्ष्व भोगान् । अङ्गानि ते सन्नतगात्रि दुःखं मृणालकल्पानि कथं सहेरन् ॥ २-०५॥ तामेवमुक्त्वा स तु साभ्यनुज्ञां रथं समारोप्य सहैव पत्या । प्रयातुकामः पुरमन्तरिक्षे शुश्राव वाचं शतधारकल्पाम् ॥ २-०६॥ त्वदन्तिकस्था सहजाशमीयं प्रसोष्यते पुत्रमयं कृशानुम् । मरुत्समिद्धस्स तु दुर्निवारस्त्वां भस्मसात् कंस करिष्यतीति ॥ २-०७॥ निशम्य तद्भूतवचो निकामं कंसस्स रोषागमदुर्निरीक्ष्यः । कृपां परित्यज्य कृपाणपाणिः स्वसुर्वधाय स्वयमुद्यतोऽभूत् ॥ २-०८॥ नृशंसकृत्ये नितरां प्रवृत्तमुदग्रकोपस्फुरिताधरोष्ठम् । प्रसादयन्नानकदुन्दुभिस्तमुवाच धीमानुपपत्तियुक्तम् ॥ २-०९॥ अलं तवानेन वधोद्यमेन त्वया विधेयो नृपते विमर्शः । किमेष नाश्रावि विचारशून्यं व्रजन्त्यनर्था इति साधुवादः ॥ २-१०॥ भयेन युद्धेषु पुरन्दरादीन् सुरान् पराचस्त्रपया विमुञ्चन् । महीश्वर स्त्रीवधपातकेऽस्मिन् कथं तवोपक्रमते कृपाणः ॥ २-११॥ अनेन किं वा तव जीवितेन यद्रक्षणं स्यात् सहजावधेन । गुणेन केनापि हि लब्धनाम्नामपि स्वनाशादयशो गरीयः ॥ २-१२॥ प्रपद्यमानस्य सदाभिवृद्धिं दिवानिशं प्रीणयतश्च लोकान् । भवद्यशश्चन्द्रमसोऽस्य माभून्नवः कलङ्को भगिनीवधेन ॥ २-१३॥ स्वसुर्वधेनास्य भवेदकीर्तिस्तेन त्यजेयुस्सुहृदोऽपि भीताः । इत्येव नूनं भुजनिर्जितैस्तैस्सुरैः प्रयुक्तस्सुमहानुपायः ॥ २-१४॥ कालेन तद्द्रक्ष्यसि यन्मदुक्तं मा भूत्तवास्मिन् विषयेऽपि शङ्का । तथापि चेतस्तव शङ्कते चेदाकर्ण्यतां तर्ह्यपरः प्रकारः ॥ २-१५॥ सर्वाण्यपत्यानि वशे तवाहं जातानि जातानि समर्पयिष्ये । तन्निग्रहं वा तदनुग्रहं वा विचिन्त्य कर्तासि दशानुरूपम् ॥ २-१६॥ किं बुद्धिमान्द्येन निजेन तस्य किं भागधेयेन वराङ्गनायाः । बलेन किं वा भवितव्यतायास्तथेति जग्राह वचस्तदीयम् ॥ २-१७॥ वधप्रवृत्तो वसुदेवमन्त्रप्रभावसंस्तम्भितघोरकर्मा । निवृत्य निस्त्रिंशमहाभुजङ्गो महीभृतः कोशबिलं विवेश ॥ २-१८॥ सत्या नु सा स्यादशरीरिणी वाक् सत्यं किमेतद्वसुदेववाक्यम् । वितर्कयन्नेवमुदस्तकेतुं पुरीं प्रपेदे मणितोरणाढ्याम् ॥ २-१९॥ आलोकनैर्मौलिषु भूपतीनामासज्जयन्नञ्जलिबन्धनानि । स वैमनस्येन मुखस्थितेन भयावहः स्वं भवनं जगाम ॥ २-२०॥ विशङ्कमानः स गृहोपकण्ठे तौ सद्मनि क्वापि विधाय गुप्तौ । पराक्रमाक्रान्तसमस्तलोकः पुरेव भोगानयमन्वभुङ्क्त ॥ २-२१॥ माया हरेस्साऽथ हिरण्यपुत्रान् यान् देवकीगर्भगतानकार्षीत् । भोजेश्वरस्सत्वरमेत्य भीत्या तान् जातमात्रानवधीत् क्रमेण ॥ २-२२॥ जगद्विभूत्यै परमस्य पुंसः यो देवकीगर्भमविक्षदंशः । आकृष्य तस्मान्मुरवैरिमाया तं रोहिणीगर्भगतं चकार ॥ २-२३॥ चकास सप्तच्छदपाण्डुरेण सुतेन सा गर्भतिरोहितेन । वलाहकान्तर्हितशीतभानोर्दिशो दशां वृत्रजितः प्रपन्ना ॥ २-२४॥ ततस्समाह्लादनमीक्षणानामसूत पुत्रं शरदिन्दुकल्पम् । प्रकर्षमापन्नुदयेन यस्य सद्यः समुद्रा इव सत्ववन्तः ॥ २-२५॥ पत्युस्समादिष्टमिदं विधाय शेषं चिकीर्षुस्सुरकार्यमार्या । चराचराणां जगतां सवित्री सा श्रद्दधे जन्मभुवं यशोदाम् ॥ २-२६॥ अथ प्रजानामभिवृद्धिकामो देवो दयायाः किल जन्मभूमिः । स्वजन्मने जन्मविनाशहेतुः प्राप्यस्सतां प्राप स देवकीं ताम् ॥ २-२७॥ कृशावलग्ना कुचयोर्गरिम्णा सा देवकी सन्नतगात्रयष्टिः । जगत्त्रयीपुण्यकृतावलम्बा बभार गर्भेण जगन्निवासम् ॥ २-२८॥ अन्तर्दधाना सरसीरुहाक्षं स्वेनावतारेण भुवं पुनाना । सा देवकी सा च कवेरकन्या मिथोऽदधातामुपमानभावम् ॥ २-२९॥ अलं निवासाय न यस्य विश्वं वसन् स गर्भे मुमुदे मुकुन्दः । परोपकारप्रभवं हि दुःखं पुंसस्सुखायैव महत्तरस्य ॥ २-३०॥ बहिःस्फुरन्त्या करपाञ्चजन्यत्विषेव विष्णोरुदरस्थितस्य । अधत्त तस्यास्तपनीयवर्णा मधूकपुष्पच्छविमङ्गयष्टिः ॥ २-३१॥ बभार हारं कुचयोर्न तन्वी न पादयोर्नूपुरमामुमोच । दधौ मणिं भारभिया न मौलौ तदेव कैवल्यमभूषयत्ताम् ॥ २-३२॥ दृशः प्रयत्नेन दधौ तिरश्चीरुवाच मन्दं निभृतं जहास । शनैर्ययौ दत्तकरा सखीभिर्भृशं निशश्वास च तावदेव ॥ २-३३॥ सहैव हर्षेण सुधाशनानां सहैव पुण्येन वसुन्धरायाः । भयेन भोजाधिपतेश्च देवो सहैव गर्भे ववृधे मुकुन्दः ॥ २-३४॥ शिरोभिरूढेन वनस्पतीनां फलोपहारेण निवेदितर्द्धिः । प्रावृट् समासादितसूतिकालां तां देवकीं द्रष्टुमिवाजगाम ॥ २-३५॥ अथैकदेशा इव वारिराशेरुच्चैः पुरोमारुतविप्रकीर्णाः । वृतास्तडिद्विद्रुमवल्लरीभिर्विरेजिरे व्योमनि वारिवाहाः ॥ २-३६॥ बलाहकव्रातभवैस्तमोभिर्दिनेषु दुर्बोधपुरःस्थितेषु । न कश्चिदासीदभिसारिकाणां विद्युत्प्रकाशेन विनाऽन्तरायः ॥ २-३७॥ पयोदभस्त्रान्तरनिर्गतेन झात्कारिणा चण्डसमीरणेन । वियोगिनां चेतसि मेघकालः सन्धुक्षयामास मनोभवाग्निम् ॥ २-३८॥ स्मरेण लोकत्रितयेश्वरेण सम्भाविताज्जीवितनिर्विशेषम् । ऋतोर्वसन्ताज्ज्वलदागमस्य जहार जातिर्निखिलं निकर्षम् ॥ २-३९॥ बलाद्गृहीता इव वैतसीभिः शाखाभिरारूढमदा इवोच्चैः । परिस्खलन्त्यो निखिलास्तटिन्यः जग्मुर्जवादुद्भटफेनहासाः ॥ २-४०॥ उदारसौरभ्यवशीकृतानामन्वीयमानः पटलैरलीनाम् । अकल्पयत् केतकमातरिश्वा मनोभवस्यापि मनोविकारम् ॥ २-४१॥ अत्यम्बुपानप्रभवस्य कर्तुमन्तर्जडिम्नः प्रतिसंविधानम् । पपुस्तिरस्कारपदेन मेघाः मयूखमालामरविन्दबन्धोः ॥ २-४२॥ रराज खर्जूरफलप्रकाशं नवं पयः काननपल्वलेषु । पयोदवृन्दैः परिपीय मुक्तं प्रभाकरस्येव मरीचिजालम् ॥ २-४३॥ महीभृतां मूर्द्धसु दत्तपादं विलोक्य मित्रं विहतप्रतापम् । मग्ने जले मर्तुमिवारविन्दे मधुव्रताश्चुक्रुशुरन्तरिक्षे ॥ २-४४॥ निषेव्य हंसा मधुरैर्वचोभिः पद्माकरं लब्धसमीहितार्थाः । सद्यो ययुस्तस्य विपत्तिकाले जलाशयानां प्रकृतिः किलैषा ॥ २-४५॥ प्ररूढसस्याः फलमूलशाकैर्निरन्तराः स्वादुनवोदकाढ्याः । पल्लीजुषां चेतसि पामराणां धृतिं परामादधिरे वनान्ताः ॥ २-४६॥ समुन्मिषन्ती गिरिमल्लिकानां प्रसूनराजिस्सुतरां विरेजे । मुक्त्वा नभो मेघविमर्दभीत्या नक्षत्रमालेव गता धरित्रीम् ॥ २-४७॥ धारालजीमूतकृतान्धकारे तस्मिन्नपर्यन्तजडिम्नि काले । अलक्ष्यमाणः क्वचिदंशुमाली दिवाऽप्युवासेव तनूनपाति ॥ २-४८॥ इति प्रवृत्ते समये घनानां मासे नभस्ये निशि मध्यमायाम् । गणे शुभाख्यायिनि च ग्रहाणां देवक्युवाह प्रसवाभिमुख्यम् ॥ २-४९॥ हरत्सु बाह्यं भुवनस्य तापं प्रावृट् प्रसूतेषु वलाहकेषु । असूत तस्यान्तरतापशान्त्यै कृष्णाम्बुवाहं कृपयेव देवी ॥ २-५०॥ दिशः प्रसेदुः सह निम्नगाभिर्जहर्ष लोकेन सहाम्बुराशिः । जाते मुकुन्दे मुमुचुश्च सद्यः भयेन देवाः सह पुष्पवृष्टिम् ॥ २-५१॥ मनोभिरामेण मधुव्रतानां नादेन शंसन्निव दिष्टवृद्धिम् । चचार वायुः सुमनोंऽशुकानि सम्प्राप्य सम्प्राप्य महीरुहेभ्यः ॥ २-५२॥ व्यजृम्भत प्रस्फुटशङ्खनादः तारेण गीतध्वनिना विमिश्रः । समश्नुवानः ककुभां मुखानि दिवौकसां मङ्गलतूर्यघोषः ॥ २-५३॥ त्रपामपास्यन् विनयं विलुम्पन् नीतिं निगृह्णन् भयमाशु भञ्जन् । शरीरिणामच्युतजन्मजन्मा मोदो जजृम्भे मदनिर्विशेषः ॥ २-५४॥ आषाढिनं पाणिमुदस्य दूरं ब्रह्मर्षिलोकः पतदुत्तरीयः । ननर्त पर्याकुलपादचारः प्रहस्यमानः सुरसुन्दरीभिः ॥ २-५५॥ शृङ्गोज्झितैः कुङ्कुमवारिपूरैरन्योन्यमभ्युक्षणतत्पराणाम् । प्रमोदजन्मा दिवि सम्बभूव कोलाहलः कोऽपि सुधाशनानाम् ॥ २-५६॥ पितॄंश्च पुत्रा पितरश्च पुत्रान् गुरूंश्च शिष्या गुरवश्च शिष्यान् । पतींश्च दाराः पतयश्च दारान् प्रमोदमत्तास्सिषिचुः पयोभिः ॥ २-५७॥ असिञ्चदम्भोरुहयोनिरिन्द्रं तं पङ्कजावासमसिञ्चदिन्द्रः । असिञ्चतां द्वौ विबुधानशेषान् सर्वे सुरास्तौ च बलादसिञ्चन् ॥ २-५८॥ मिथः पयोभिः सिषिचुर्विनेदुः ववल्गुरुच्चिक्षिपुरम्बराणि । अन्योन्यमंसेन सुदूरमूहुर्मत्ता इव स्वर्गसदो बभूवुः ॥ २-५९॥ त्रिलोकनाथोदयसम्भवेन मोदेन पर्याकुलमानसानाम् । गीते च नृत्ते च सुराङ्गनानां बभूव तालस्खलितं न दोषः ॥ २-६०॥ शृङ्गोदकास्फालनरक्तनेत्राः विच्छिन्नहाराश्च्युतकर्णभूषाः । प्रहाससीदध्वनिभिर्वचोभिः समालपन्तो विबुधा विजह्रुः ॥ २-६१॥ जाते हरौ दैत्यविमर्दनेन विश्वम्भराभारमपाचिकीर्षौ । मुनेः प्रहर्षः कलहप्रियस्य जगत्प्रहर्षश्च समावभूताम् ॥ २-६२॥ इति प्रहर्षाकुलितैर्मनोभिः विशृङ्खलं क्रीडति देहिवर्गे । कंसस्सभृत्यः प्रतिपद्य मूर्छां निद्राभिधानां न किमप्यबोधि ॥ २-६३॥ श्यामं चतुर्बाहुमुदारहारं किरीटिनं कुण्डलदीप्तगण्डम् । पिताऽपि माता च विलोक्य पुत्रमानन्दमग्नौ विवशावभूताम् ॥ २-६४॥ नियम्य हर्षोदयपारवश्यं तं देवकीजानिरुवाच वाचम् । प्रसीद भीतोऽहमतीव कंसादिदं तु रूपं प्रतिसंहरेति ॥ २-६५॥ तत्प्रेरितस्तल्पगतं कराभ्यां तमाददे कल्पितबालभावम् । तयोश्शयानः करयोस्स तस्य प्रकाममप्रीयत पद्मनाभः ॥ २-६६॥ अशेत यः प्राग्वटपत्रमध्ये लोकानशेषानुदरे दधानः । विना तपोभिः किमु तस्य सिध्येत्तत्पाणियुग्मे शयनं मुरारेः ॥ २-६७॥ तमालनिलेन तमोभरेण निपीडिताशावलये निशीथे । आदाय पङ्केरुहलोचनं तं सद्यः स निर्गत्य गृहात् प्रतस्थे ॥ २-६८॥ निवार्य वर्षोदकमात्मनैव प्रकाश्य मार्गं फणरत्नभासा । उपायमुक्त्वा वसुदेवकर्णे शेषस्सिषेवे बहुधैव विष्णुम् ॥ २-६९॥ पुरात् स निर्गत्य पुमांसमाद्यं वहन् वहन्तीं यमुनामपश्यत् । कूलङ्कषौघाऽपि कलिन्दकन्या तदीयगुल्फद्वयसोदकाऽभूत् ॥ २-७०॥ उत्तीर्य तां तत्तटसंश्रितानां दातुं करं वार्षिकमागतानाम् । व्रजौकसां नन्दपुरोगमानां प्रीतो निवेशं सहसा विवेश ॥ २-७१॥ प्रविश्य जानन्निव नन्दगोपनिवेशनं सुप्तशरीरिवर्गम् । सुतां प्रसूय प्रतिपन्ननिद्रां ददर्श तद्धर्मवधूं यशोदाम् ॥ २-७२॥ तं शाययित्वा शयने तदीये कन्यां समादाय निपत्य गच्छन् । शुश्राव पुत्रोदयहर्षमूलं कोलाहलं गोपवधूजनानाम् ॥ २-७३॥ करेण कन्यां मनसा च पुत्रं वहन् मुहूर्तेन विलङ्घ्य मार्गम् । विशङ्कमाविश्य गृहं गृहिण्याः निधाय बालां शयने स तस्थौ ॥ २-७४॥ सा चञ्चरीकस्वनसन्निभेन नादेन लोकस्य मनो हरन्ती । रुरोद किञ्चिद्विवृतेन बाला स्फुटत्पयोजाकृतिना मुखेन ॥ २-७५॥ आकर्ण्य बालध्वनिमस्तनिद्राः प्रधाव्य रक्षापुरुषा जवेन । प्रबोध्य यत्नेन पतिं पृथिव्याः शशंसुरस्मै भगिनीं प्रसूताम् ॥ २-७६॥ सद्यः समागत्य स तत्र दृष्ट्वा बालाममर्षेण विमर्शशून्यः । स्वस्रा निषिद्धोऽपि वधाभिलाषी जग्राह तस्याश्चरणौ कराभ्याम् ॥ २-७७॥ उदस्य दूरं तरसा करेण चिक्षेप तां दुर्मतिरश्मपृष्ठे । महीमयातैव दिवि स्थिता सा जज्वाल धाम्ना जगतां सवित्री ॥ २-७८॥ ततः करैस्तामरसप्रकाशैः सा मन्दमान्दोलितशस्त्रजाला । विलोक्य तं विह्वलचित्तवृत्तिं जगाद वाचं जगदेकमाता ॥ २-७९॥ त्वमग्रहीर्मच्चरणौ रुषाऽपि प्रायः फलं तस्य न हन्मि यत्त्वाम् । जातः पृथिव्यां तव जाल्म हन्ता सद्यो हितं चिन्तय साधयामि ॥ २-८०॥ इति नृपमभिधाय ज्योतिषा कुर्वती सा तडिदिव नयनानि प्राणिनामाकुलानि । सुरयुवतिभिरुच्चैर्गीयमानापदाना सुरपदमभिपेदे पाटिताभ्रा जवेन ॥ २-८१॥ श्रुत्वा तस्या श्रवणपरुषां वाचमन्तर्विषण्णः पुत्रापायव्यथितमनसं सान्त्वयित्वा स्वसारम् । पद्भ्यामेव स्वभवनमथ प्राप्य कृच्छ्रादनैषीत् कंसश्चिन्ताकुलितहृदयो जाग्रदेव त्रियामाम् ॥ २-८२॥ इति सुकुमारकृतौ कृष्णविलासकाव्ये द्वितीयास्सर्गः ॥ २ ॥
तृतीयः सर्गः प्रातः प्रलम्बप्रमुखानमात्यान् सर्वान् समाहूय स भोजराजः । सविभ्रमप्रेरितदृष्टिदत्ते स्थाने निषण्णानवदद्विनीतः ॥ ३-०१॥ सन्दिह्य मोहाद्वसुदेववाक्यं मया प्रमाणीकृतभूतवाचा । हता नृशंसेन सुता भगिन्यास्तेनाविलं मे हृदयं यशोऽपि ॥ ३-०२॥ जातां पुनः काञ्चनकाञ्चनाभां सुतां गतायुर्न्निशि हन्तुमैच्छम् । उत्प्लुत्य सा व्योम्नि जवादतिष्ठत् शस्त्रोत्कटा दर्शितदिव्यरूपा ॥ ३-०३॥ नियम्य सा मातुल इत्यमर्षं प्रसेदुषी मामवदच्च बाला । अरिर्महीयानजनिष्ट भूमौ तवोचितं सम्प्रति चिन्तयेति ॥ ३-०४॥ व्याहृत्य मां द्यां प्रति देवनारीगणैर्गतायामिति सेवितायाम् । देव्यामहं दुश्चरितं स्वमेव स्मरन् विनिद्रो रजनीमनैषम् ॥ ३-०५॥ युद्धेषु देवा पुरुहूतमुख्याः भग्ना मया स्थातुमशक्नुवन्तः । अश्वान् परित्यज्य विमुच्य नागान् मुक्त्वा च शस्त्राणि दिशो द्रवन्ति ॥ ३-०६॥ तदेषु नैकोऽपि भुवं गतो मे शक्नोति कर्तुं प्रतिकूलभावम् । महीयसः किं घटते परागः समीरणस्याभिमुखं प्रसक्तुम् ॥ ३-०७॥ किमन्यदार्ताभ्यवपत्तिकामः सुरेषु सन्दर्शितपक्षपातः । अजायतोर्व्यामसुरान्निहन्तुं स एव मन्ये सरसीरुहाक्षः ॥ ३-०८॥ सर्वे वयं दैत्यकुलप्रसूताः केनापि जाता भुवि कारणेन । स तेन सन्नह्यति जेतुमस्मानुक्तोऽयमर्थः किल नारदेन ॥ ३-०९॥ अतस्तदुच्छेदविधौ विनिद्राः यतध्वमद्यैव बलानुरूपम् । नखाग्रलाव्यस्तरुरङ्कुरात्मा परश्वधस्यापि ततोऽतिभूमिः ॥ ३-१०॥ यस्मिन् भवत्याश्रितवत्सलत्वं विप्रेषु यस्यास्ति विशेषसङ्गः । मनोहरं यश्च बिभर्ति रूपं वधं स बालोऽर्हति मत्सकाशात् ॥ ३-११॥ मखाश्च तत्प्रीतिकृतो निवार्याः निवारणीया श्रुतिरग्रिमाऽपि । तृणीकृताशेषजनप्रभावा संस्थौति या तन्महिमानमेव ॥ ३-१२॥ गते विरामं गरुडध्वजेऽस्मिन् मखेषु सर्वत्र निवारितेषु । सुरेषु सर्वेष्वपि दुर्बलेषु हस्ते भविष्यत्यमरावती नः ॥ ३-१३॥ इत्यूचुषस्तस्य पदोपकण्ठं नीराजयन्तो मकुटप्रभाभिः । अवादिषुर्विक्रमदर्पितास्ते कृताट्टहासध्वनिकम्पिताशाः ॥ ३-१४॥ किं चिन्तया पार्थिव भुङ्क्ष्व भोगानस्मासु जीवत्सु कुतो रिपुस्ते । कथं मयूखेषु परिस्फुरत्सु सरोजबन्धोस्तमसाभिभूतिः ॥ ३-१५॥ अमातरिश्वानमहव्यवाहं असूर्यशीतांशुमवज्रपाणिम् । अनच्युतेशानपितामहं च द्रष्टासि राजन्नचिरेण लोकम् ॥ ३-१६॥ इत्यूचुषस्तानुचितोपहारैः सम्भाव्य कृत्येषु समादिदेश । स देवकीमानकदुन्दुभिं च विमोचयामास च बन्धनस्थौ ॥ ३-१७॥ लब्ध्वा निधानं न तथा दरिद्रो गतिं समासाद्य तथा न पङ्गुः । तथा न चान्धो दृशमाप्य हृष्येद्यथाप्तपुत्रः स जहर्ष नन्दः ॥ ३-१८॥ तपने चरमाचलं प्रपन्ने तमसा च स्थगितेषु दिङ्मुखेषु । यमुनातटवासिनं तमूचे वसुदेवः प्रतिपद्य नन्दगोपं ॥ ३-१९॥ तपसा तव नन्दगोप मन्ये फलितं जन्मसहस्रसञ्चितेन । ऋणमन्त्यमपोहितुं त्वदीयं यदयं पुत्रनिधिः समाविरासीत् ॥ ३-२०॥ इह खेलति पूतनेति कृत्या शिशुहत्यानिरता पुरोपकण्ठे । तदहर्न्निशमत्र रक्षणीयो नयनानन्दकरः सुतस्त्वयाऽयं ॥ ३-२१॥ अथवा किमिवास्यते त्वयास्मिन्निजमुत्सृज्य पदं पुरोपकण्ठे । सविधे न वसन्ति बुद्धिमन्तो फणिनो वायुसखस्य भूपतेश्च ॥ ३-२२॥ प्रतिवेदि निविष्टपूर्णकुम्भं विलसत्तोरणमुज्ज्वलप्रदीपम् । व्रज गोकुलमाकुलं प्रजाभीभवदीयागमनप्रहर्षिणीभिः ॥ ३-२३॥ शिशुरस्ति ममापि रौहिणेयो भवदीये विषये विवर्धमानः । स च साधु निरीक्ष्य रक्षितव्यो वपुषा केवलमावयोर्हि भेदः ॥ ३-२४॥ इत्युक्त्वा गतवति देवकीसहाये संत्रस्तः कथमपि नीतरात्रिशेषः । आरोहत्युदयमहीधरस्य शृङ्गं तिग्मांशौ निजवसतिं प्रति प्रतस्थे ॥ ३-२५॥ सचकितमृगमण्डलानि कुर्वन् शकटशतध्वनिभिर्वनान्तराणि । प्रमुदितमथ गोकुलं प्रपेदे दिशि दिशि मारुतधूतकेतुमालम् ॥ ३-२६॥ निजवसतिमभिप्रपद्य तुष्टः किमपि न कर्म करोति नन्दगोपः । नवनलिनपलाशचारुनेत्रं वदनमहर्न्निशमात्मजस्य पश्यन् ॥ ३-२७॥ मुग्धभावमधुरेण रञ्जयन् शैशवेन हृदयं व्रजौकसाम् । गोकुले स विजहार केशवः क्षीरवारिनिधिमप्यचिन्तयन् ॥ ३-२८॥ वदनं मधुसूदनः कराभ्यां चरणाङ्गुष्ठमुपानयत् पिपासुः । गलितेव ततस्सुरस्रवन्ती नखमुक्तामणिदीधितिच्छलेन ॥ ३-२९॥ अमृतांशुरिवापरः प्रमोदं नयनानां जनयन् स पद्मनाभः । भवनं भवनात् करौ कराभ्यां व्रजयोषिद्भिरनीयताङ्कमङ्कात् ॥ ३-३०॥ अधः कदाचिच्छकटस्य शायितः स्वकार्यपर्याकुलया यशोदया । स लीलया पादसरोरुहं शनैरुदञ्चयामास सरोजलोचनः ॥ ३-३१॥ मधुभिदश्चरणाम्बुजताडितं शकटमाशु समुत्थितमम्बरे । विपरिवृत्य पपात महीतले पटुतरध्वनिपूरितदिङ्मुखम् ॥ ३-३२॥ शकटपतनजन्म नन्दमुख्याः स्तनितमिव ध्वनितं निशम्य गोपाः । किमिदमिति भयेन तत्र जग्मुस्त्वरितगतिच्यवमानकेशबन्धाः ॥ ३-३३॥ कुचकलशविलग्नपाणिपद्मा विगलितबन्धमनोज्ञकेशपाशा । सपदि सह सखीभिरन्वधावत् कलमणिनूपुरशिञ्जिता यशोदा ॥ ३-३४॥ कृतस्मितं क्वचिदपरिक्षतं सुतं विलोक्य तं प्रमुदितमानसा परम् । व्रजौकसां सविधनिवासिनां मुखाद्विसिस्मिये विदिततदीयविक्रमा ॥ ३-३५॥ स्रुतशोणितमेव मन्यमाना चरणं तस्य निसर्गपाटलं तत् । उदमार्जयदंशुकाञ्चलेन द्रुतमागत्य पुनः पुनर्यशोदा ॥ ३-३६॥ तिलकं मधुविद्विषो ललाटे रजसा गोमयजन्मना विधाय । उरसा परिरभ्य नन्दगोपः सुचिरं तस्य सुमङ्गलानि दध्यौ ॥ ३-३७॥ शकटं मधुसूदनस्य दृष्ट्वा चरणोदञ्चनविभ्रमेण भग्नम् । अथ वारिनिधेर्विवेश गर्भं स्वरथस्यापि विशङ्क्य भङ्गमर्कः ॥ ३-३८॥ परितःस्फुरता नवेन सन्ध्यामहसा पल्लवपाटलेन लिप्ताः । पतिता इव पावके विरेजुः ककुभो दुस्सहभानुविप्रयोगात् ॥ ३-३९॥ क्षुभितश्चिरमम्बराम्बुराशिः तपनस्यन्दनवाहनावगाहात् । स्फुरदुद्भटतारकापदेशात् सहसाऽऽकीर्यत फेनमण्डलेन ॥ ३-४०॥ अहिमरुचि रसातलं प्रविष्टे भयचकितः स्वविनाशमाकलय्य । तत इव तरसोत्पतन्नसीमा तिमिरभरः पृथिवीतलं प्रपेदे ॥ ३-४१॥ भूरन्तरिक्षं भवनानि रथ्याः वनानि शैलास्सरितस्समुद्राः । ध्वान्ते दिशां रुन्धति चक्रवालं व्यक्तं न केनापि किमप्यवेदि ॥ ३-४२॥ अथ प्रयाति प्रहरे यशोदा जने च किञ्चिन्निभृते सनिद्रे । पुत्रं पयःपानगुरुप्रमोदं प्रस्वापयन्ती कलमित्यगायत् ॥ ३-४३॥ कुन्दत्विषस्तालफलप्रकाशाः तापिञ्छवर्णास्तरुणार्कभासाः । प्रभूतदुग्धा नवनीतवत्यो गावस्सहस्रं तनय त्वदीयाः ॥ ३-४४॥ प्रियालखर्जूरसमग्रसानुः फलाढ्यरम्भावनशोभनीयः । ननूपभोगाय सुतायमास्ते गोवर्धनो नाम महीधरस्ते ॥ ३-४५॥ सरसिरुहवने गतेऽपि निद्रां कथमिव ते नयनाम्बुजे विनिद्रे । श्रुतिपरिचयशालिनो हि कर्म स्वजननिषेवितमेव संश्रयन्ते ॥ ३-४६॥ तद्ध्वनिश्रवणजातकौतुका बालजीवितविलोपविश्रुता । आजगाम गगनेन पूतना यातना तनुमतीव देहिनां ॥ ३-४७॥ साऽवतीर्य नभसो निशाचरी गूढमेव निषसाद कुत्रचित् । सा च सुप्त इव वीक्षिते सुते स्वापमाप सरसीरुहेक्षणा ॥ ३-४८॥ कृष्णमङ्कमधिरोप्य निर्दया दातुमारभत पूतना स्तनम् । यत्पयोधरमुखे मुखार्पणादायुषा शिशुजनो वियुज्यते ॥ ३-४९॥ पाञ्चजन्यमिव पूतनास्तनं पाणिपल्लवयुगेन पीडयन् । आननेन मधुशत्रुरान्तरानाददे स तु ततस्समीरणान् ॥ ३-५०॥ विप्रकीर्णकचबालपल्लवा भग्नबाहुविटपा निशाचरी । सा पपात भुवि घोरनिःस्वना मारुताहतमहीरुहोपमा ॥ ३-५१॥ झटिति व्यपनीतगाढनिद्रो महता तेन रवेण पूतनायाः । प्रतिपत्तुमियाय तां प्रवृत्तिं सह गोपालगणेन नन्दगोपः ॥ ३-५२॥ तस्याश्शरीरमधिरुह्य विचेतनायाः क्रीडन्तमम्बुरुहलोचनमीक्षमाणाः । तस्थुस्समुन्मिषितविस्मयनिर्विकाराः नासाधिरोपितकराङ्गुलयो मुहूर्तम् ॥ ३-५३॥ नन्दः प्रमृज्य नयने मुहुरश्रुपूर्णे पुत्रं कृतान्तमुखनिर्गलितं निदध्यौ । दध्यौ च तस्य नितरामभिवृद्धिकामः तत्त्वं परं स हृदयेन समाहितेन ॥ ३-५४॥ श्यामलः कमलपत्रलोचनो नीलकुन्तलभरः शुचिस्मितः । ध्यायतो मनसि तस्य सन्निधिं पुत्र एव विदधे पुनः पुनः ॥ ३-५५॥ न क्षमं भवति पुत्रवासनानिस्तरं हृदयमच्युतस्मृतौ । इत्यशेषदुरितापहारिणीरग्रजन्मभिरकारयत् क्रियाः ॥ ३-५६॥ पूतनाचरितभावनाभवं दारुणं हृदयदारणं पितुः । श्रीपतिः शमयति स्म वैशसं क्रीडितैरखिललोकमोहनैः ॥ ३-५७॥ स लोचने किञ्चिदुपान्तघूर्णिते निधाय मातुर्वदने शुचिस्मितः । पयोधरं पाणियुगावलम्बितं मनश्च तस्या मधुसूदनः पपौ ॥ ३-५८॥ पाणिजानुपरिचङ्क्रमश्रमस्वेदबिन्दुमधुरं मुखं वहन् । धूसरेण वपुषा जनार्दनो गोकुलं निखिलमन्वरञ्जयत् ॥ ३-५९॥ परिभ्रमन्तं भुवि पाणिजानुना गवामधस्तात्प्रविशन्तमेकदा । सुतं यशोदा गृहकृत्यतत्परा बबन्ध पाशेन बलादुलूखले ॥ ३-६०॥ जनो हि यः कर्म करोति यादृशं स सर्वथा तादृशमश्नुते फलम् । बलिः पुराऽबध्यत येन दानवः स लोकनाथोऽपि तदाप बन्धनम् ॥ ३-६१॥ निखिलभुवनमुक्तिदे मुरारौ भगवति गाढमुलूखले निबद्धे । परिशिथिलसमाधिराविरासीन्मनसि महामुनिमण्डलस्य हासः ॥ ३-६२॥ निषीद लोलेति निबध्य सस्मितं चकार कार्याणि चकोरलोचना । अनादरेण भ्रमयन्नुलूखलं विनिर्ययौ विश्वपतिः स्वमन्दिरात् ॥ ३-६३॥ उपेयिवांसौ ककुभद्रुमात्मतां महीयसा नारदशापतेजसा । अतिष्ठतामध्वनि कैटभद्विषः कुबेरपुत्रौ तरसैव रिङ्खतः ॥ ३-६४॥ स सन्निकृष्य स्थितयोः परस्परं महीरुहोर्मध्यपथेन निस्सरन् । गतेन तिर्यक्त्वमुलूखलेन तौ बभञ्ज दामोदरगन्धवारणः ॥ ३-६५॥ प्रपद्य दिव्यं वपुरम्बरस्थितौ विमुक्तशापौ धनदात्मजावुभौ । प्रणम्य भक्त्या पुरुषं पुरातनं मुदान्वितौ जग्मतुरन्तिकं पितुः ॥ ३-६६॥ नन्दादयः सपदि गोकुलवासिनस्ते तद्भङ्गजन्म सुमहद्ध्वनितं निशम्य । अभ्येत्य भग्नपतितौ ककुभद्रुमौ तौ तत्राक्षतं च ददृशुस्सरसीरुहाक्षं ॥ ३-६७॥ नन्दः समीक्ष्य दुरितानि बहूनि सद्भ्यः दत्वा गवामयुतमात्मसुताभिवृद्ध्यै । सम्मन्त्र्य बन्धुभिरपास्य पदं तदाशु वृन्दावनं प्रति ययौ शकटैरसङ्ख्यैः ॥ ३-६८॥ गत्वा स गोकुलपतिर्मनसोऽनुकूले कूले कलिन्ददुहितुर्निदधे पदानि । रेमे च तत्र पुरुहूतपदाभिरामे लीलायितानि तनयस्य निरीक्ष्यमाणः ॥ ३-६९॥ दधिनिर्मथने निरुद्यमा सा नवनीतश्रपणे गवां च दोहे । सुतकेलिहृतेक्षणा यशोदा क्षणकल्पानि निनाय वासराणि ॥ ३-७०॥ अनुयाति जिघृक्षयेव नन्दे तरसा रिङ्खणतत्परस्य विष्णोः । ललितालकवेल्लितानि रेजुर्मुखमात्रेण मुहुर्निवर्तितानि ॥ ३-७१॥ अन्तरा विहतिमद्भिरुत्थितैरस्फुटाक्षरपदाभिरुक्तिभिः । भङ्गुरैश्च परिरम्भणोद्यमैर्गोकुलं निखिलमन्वरञ्जयत् ॥ ३-७२॥ पश्य मातुलमिति प्रदर्शितं यामिनीषु गगने यशोदया । आजुहाव ललितेन पाणिना शीतभानुमरविन्दलोचनः ॥ ३-७३॥ आत्मनः प्रतिकृतिं विलोकयन् मातृहस्तमणिदर्पणोदरे । एहि मित्र किमिहेति कौतुकाद्व्याजहार शतपत्रलोचनः ॥ ३-७४॥ गौरवं कथमियं सहेत मे मेदिनीति कृपयेव चिन्तयन् । माधवः पतनभीतिमुद्वहन् मन्दमेव निदधे पदावलिं ॥ ३-७५॥ देवो निशासु हरिरङ्कगतो जनन्याः शृण्वन् कथा मधुमुचो महताऽऽदरेण । मन्दं तदीयकरपल्लवताडितोरुः सुष्वाप कुड्मलितलोचनपुण्डरीकः ॥ ३-७६॥ कौतुकेन पितुरग्रतो हरेर्धावतस्खलनमीक्षमाणया । मोदनिघ्नमनसा सलज्जया न स्थितं न चलितं यशोदया ॥ ३-७७॥ मुखडिण्डिमवादिना परीतो मधुजित् कौतुकिना सुहृद्गणेन । अधिरोपितवारणेन्द्रभावो ललिताभिर्गतिभिर्गृहेषु रेमे ॥ ३-७८॥ अथाभिवृद्धिं प्रतिपद्यमानो दध्यादिषु प्रीतिमुवाह शौरिः । तत्तत् प्रदानेन वशे विधातुमारेभिरे गोकुलयोषितस्तम् ॥ ३-७९॥ कुरुष्व नृत्तं नवनीतमूल्यं कृष्णेति साभ्यर्थनमूचिषीणाम् । व्रजाङ्गनानां स पुरस्सलीलमुदञ्चयामास पदारविन्दम् ॥ ३-८०॥ तासां मनःप्रीतिविधानदक्षे तथा क्षणं तस्थुषि शार्ङ्गपाणौ । एकाङ्घ्रिसंस्पर्शवियोगमात्रादधन्यमात्मानममन्यतोर्वी ॥ ३-८१॥ उदञ्चितं तस्य विलोक्य पादं वेधा पुनर्विक्रमशङ्किचेताः । कमण्डलुं पाणितलेन गृह्णन्नभ्युद्यतोऽभूदवनेजनाय ॥ ३-८२॥ नृत्तामृतं गोकुलयोषितस्तत् कृष्णस्य नेत्राञ्जलिभिः पिबन्त्यः । प्रीतिप्रकर्षस्तिमितैर्मनोभिरालेख्ययोषित्प्रतिमा बभूवुः ॥ ३-८३॥ विदुर्न तद्दर्शनपारवश्याद्दातुं करस्थं नवनीतमेकाः । विस्रस्य भूमौ पतितं तदन्याः न मेनिरे पाणिसरोरुहेभ्यः ॥ ३-८४॥ अजस्रमेवं भवनेषु तासां बभ्राम कृष्णो नवनीतभिक्षाम् । पुरा किलान्यैरनिवर्तनीया निवर्तिता येन हरस्य भिक्षा ॥ ३-८५॥ धिग्याचनां चौर्यभवस्य भूयानस्त्यंहसो निर्हरणाभ्युपायः । मत्वेति नूनं नवनीतचौर्ये मधोर्निहन्ता मतिमाबबन्ध ॥ ३-८६॥ निर्वाप्य दीपं मुखमारुतेन हैयङ्गवीनं निशि हर्तुमिच्छन् । कृष्णः कटीभूषणरत्नभासा विहन्यमानो विषसाद भूयः ॥ ३-८७॥ निपीडयन्नग्रपदेन पृथ्वीमुन्नम्य देहं भृशमूर्ध्वबाहुः । पयोघटस्पर्शनमश्नुवानस्त्रिविक्रमोऽभूत् परिहासपात्रम् ॥ ३-८८॥ नियमितश्वसितो निभृतैः पदैर्निशि कथञ्चन गर्भगृहं गतः । स तु भयादसमाप्तमनोरथो निववृते नवनीतहरो हरिः ॥ ३-८९॥ हर्तुं हरेर्व्यवसितस्य घने निशीथे भूषारवश्रुतिभयाद्व्रजतोऽतिमन्दम् । अन्तर्गृहस्य नवनीतवतः प्रवेशात् प्रागेव हन्त पथि सा रजनी विभाता ॥ ३-९०॥ गोपीसमागमभिया च तृषा च गुर्व्या पातुं विहातुमपि गोपगृहेष्वजानन् । आद्वारमादधिघटं च गतागतानि कुर्वन् सरोजनयनः श्रममेव लेभे ॥ ३-९१॥ भित्तिषु प्रतिशरीरदर्शनात् शङ्कितः स नवनीतनिःस्पृहः । किञ्चिदन्यदिव तत्र मार्गयन्निर्जगाम मणिमन्दिरोदरात् ॥ ३-९२॥ जिहीर्षुरन्तर्भवनेषु गोरसं दिनान्यनैषीत्तदुपायचिन्तया । स जागरूकश्च निनाय यामिनीं मनोहराभिर्हरणप्रवृत्तिभिः ॥ ३-९३॥ दृष्टेऽपि तत्सविधसञ्चरणे स तत्र वक्तुं निमित्तमुचितं कृतनिश्चयस्सन् । अभ्यर्ण एव निदधे दधिभाजनस्य लीलायितोपकरणानि निजानि शौरिः ॥ ३-९४॥ वहन् गृहीतो नवनीतमच्युतो भयेन पारिप्लवनेत्रपङ्कजः । पदा लिखन् भूमिमवाङ्मुखस्थितो जहार चेतोऽपि च गोपयोषिताम् ॥ ३-९५॥ शपे पितृभ्यामित ऊर्ध्वमेवं नाहं विधास्ये नवनीतचौर्यम् । विनिःश्वसन्नित्यभिधाय कृष्णो जहार मातुश्च पितुश्च चेतः ॥ ३-९६॥ एहि सद्म तनयेति सादरं याचितोऽपि स मुहुर्यशोदया । आननेन नवनीतगन्घिना नाजगाम विहरन्निवाच्युतः ॥ ३-९७॥ हृतं नवं मे नवनीतमालयात् हृतं घृतं मे दधि मे हृतं निशि । इति प्रभाते वचनानि योषितामुवाह शृण्वन् न मुखे स विक्रियाम् ॥ ३-९८॥ पुत्रं कुलस्य भुवनस्य च रक्षितार- मभ्यर्थितोऽपि भगवानरविन्दनाभः । त्वां मे ददौ विधिवशाद्भुवनैकचोर- मित्याह कोपमभिनीय सुतं यशोदा ॥ ३-९९॥ स सान्त्वनेन प्रतिपादनेन भेदेन तीव्रेण च तर्जनेन निबद्ध्य पृष्टोऽपि मुहुर्जनन्या नाङ्गीकरोति स्म हरिः स्वचौर्यम् ॥ ३-१००॥ संरक्षणाय जगतामवतीर्य पृथ्व्यां गोपालसद्मसु हरत्यखिलं मुकुन्दः । इत्थं निशम्य परिहासवचस्सुराणाम्- अन्तर्जहास भगवानरविन्दनाभः ॥ ३-१०१॥ कृष्णस्य केलिसमरेक्षणकौतुकेन गोपीषु मुक्तभवनासु बहिः स्थितासु । मित्रैः पराजित इव द्रुतमेत्य गेहं बद्ध्वा कवाटमहरन्नवनीतमन्तः ॥ ३-१०२॥ त्रिभुवनमहनीयैरभ्युपायैरसङ्ख्यैः निखिलमिति स मुष्णन् गोकुलं नन्दसूनुः । अरमत सवयोभिस्तत्र गोपालपुत्रै- रपर इव शशाङ्कः प्राणिनां प्रीतिहेतुः ॥ ३-१०३॥ इति सुकुमारकृतौ कृष्णविलासकाव्ये तृतीयः सर्गः ॥ ३ ॥
चतुर्थः सर्गः स रोहिणीसूनुनिबद्धरागः सतां शरण्यस्तमसोऽपहर्ता । मनोहरो बाल इवौषधीशो दिने दिने पोषमियाय शौरिः ॥ ४-०१॥ त्यक्त्वा हरिः स्तैन्यकृतापवादं तच्छैशवं प्राप्य दशान्तरं सः । मन्ये तदंहःपरिमार्जनाय गवां परित्राणसमुद्यतोऽभूत् ॥ ४-०२॥ पुत्रे तथोद्योगिनि नन्दगोपो गोपालपुत्राननुनीय सर्वान् । त्रातुस्त्रयाणामपि विष्टपानां संरक्षणे तस्य समादिदेश ॥ ४-०३॥ मात्रा कृतस्वस्त्ययनः प्रभाते पित्रा परिष्वज्य चिरं विसृष्टः । सहैव रामेण समग्रहर्षः विनिर्ययौ विश्वपतिर्वनाय ॥ ४-०४॥ स प्रातराशी व्यतिषक्तपाणिर्यष्टिं वहन्नंसविषक्तशृङ्गः । विमुच्यतां गौरिति सम्भ्रमेण गच्छन् प्रतिद्वारमवोचदुच्चैः ॥ ४-०५॥ निशम्य तस्य ध्वनिमूर्ध्वकर्णाः विलूनपाशा भृशमुत्सुकिन्यः । वत्सानपि स्वाननवेक्ष्य गावः ससम्भ्रमं निर्ययुरालयेभ्यः ॥ ४-०६॥ गत्वा पुरस्ताद्गजराजगामी गोष्ठं गरिष्ठो गुणमण्डलेन । आपूरयन्मित्रगणागमार्थं पित्रोरभीष्टेन सहैव शृङ्गम् ॥ ४-०७॥ नभस्स्पृशा कर्णपथं गतेन तेनैव संज्ञागवलस्वनेन । आदाय तत्तत्परिबर्हजातं सद्यो गृहेभ्यः सुहृदो निरीयुः ॥ ४-०८॥ गवां खुरन्याससमुद्भवेन विषाणसङ्घट्टनजन्मना च । प्रसर्पता दिक्षु महास्वनेन घोषः क्षणं घोषमयो बभूव ॥ ४-०९॥ प्रधावनैरुत्प्लुतिभिस्सुदूरं मिथो बलाद्ग्राहविमोचनैश्च । समागतैस्तत्र समं सुहृद्भिर्बहुप्रकारं विजहार शौरिः ॥ ४-१०॥ परेण हर्षेण पुराणपुंसः सङ्क्रीडमानस्य समं सुहृद्भिः । पवित्रयामास पदाम्बुजोत्थिता करीषधूलिः ककुभां मुखानि ॥ ४-११॥ महर्षयस्तत्र महानुभावाः गृहीतरूपान्तरदुर्न्निरूपाः । भवाग्निसन्तापहरे ममज्जुः पदोत्थिते तस्य परागपूरे ॥ ४-१२॥ प्रहर्षमालोकयतां जनानां क्रीडाभिरापाद्य मनोहराभिः । उत्थापयामास स चीत्कृतेन गोष्ठे हरिर्गोसमजं शयानं ॥ ४-१३॥ तस्मिन् गवां पालनकौतुकेन वनाय निर्गछति दैत्यशत्रौ । ययुः प्रियाख्यानचिकीर्षयेव दिवाकृतो दिग्वलयं मयूखाः ॥ ४-१४॥ कूलद्रुमाणां कुसुमानि धून्वन् कर्षन् पयश्शीकरमण्डलानि । कृष्णं कृतानेकविहारखिन्नं यान्तं सिषेवे यमुनासमीरः ॥ ४-१५॥ परस्य पुंसः पदपङ्कजाभ्यां प्रवेक्ष्यतो गोकुलपालनाय । चकार नीहारहरैर्मयूखैः प्रवेशयोग्यानि वनानि भानुः ॥ ४-१६॥ प्रेम्णा परित्यक्तुमशक्नुवन्तं बद्धाञ्जलिं बन्धुजनं निवार्य । रामं पुरस्कृत्य समित्रवर्गः विवेश विष्णुर्विपिनान्तराणि ॥ ४-१७॥ अरण्यभूमीरवगाहमानं तमातपक्लान्तमवेक्षमाणः । पक्षातपत्रेण परिस्तृतेन वियत्यसेविष्ट विहङ्गराजः ॥ ४-१८॥ मा गच्छ गङ्गे यमुने क्व यासि किं तत्र गोदावरि धावसीति । न्यषेधि तत्तद्व्यपदेशपूर्वं मार्गच्युतं गोकुलमच्युतेन ॥ ४-१९॥ प्ररूढसुस्निग्धतृणाङ्कुरासु छायाद्रुमश्यामलितान्तरासु । गवां कुलं तत्सुलभोदकासु प्रचारयामास वनस्थलीषु ॥ ४-२०॥ साटोपमान्दोलितलम्बसास्नाः गावश्चरन्त्यो वलमानवालाः । त्रुट्यत्तृणस्तोमचटत्कृतिन्यः चक्रुः प्रियं चेतसि चक्रपाणेः ॥ ४-२१॥ हरिन्मणिश्यामरुचीनि तत्र स्वैरं चरन्तीषु तृणानि गोषु । शौरिः स्वयं भुक्त इवाप तृप्तिं तृप्यन्त्युदाराः परतर्पणेन ॥ ४-२२॥ सर्वासु कण्डूयनलिप्सयोच्चैरुन्नम्य कण्ठं दधतीषु गोषु । बालो हरिर्बाहुसहस्रशून्यं जन्मात्मनो निष्फलमेव मेने ॥ ४-२३॥ परिभ्रमद्गोकुलमुग्रकोपं समुच्चलद्धूलिरटद्विषाणम् । स युद्धमुक्ष्णां मदनिर्भराणां प्रविश्य मध्यं शमयाञ्चकार ॥ ४-२४॥ शाखाकराग्रैरवलम्ब्य पृथ्वीं निषेदुषः पुष्पफलावनम्रान् । तत्र द्रुमान् सादरमीक्षमाणो जगाम तृप्तिं न कदाऽपि शौरिः ॥ ४-२५॥ अलक्ष्यमूलान्यतिविप्रकर्षाद् घोषानुमेयस्खलितोदकानि । उत्तुङ्गरोधस्तरुमण्डलानि निम्नानि दृष्ट्वा नितरां स रेमे ॥ ४-२६॥ अतुच्छगुच्छस्तनभारनम्राः लताः प्रवालाधरलोभनीयाः । स तत्र वीक्ष्य भ्रमरालकाढ्यास्तामस्मरत्तामरसाधिवासाम् ॥ ४-२७॥ समुत्सुकं सागरकन्यकायामाक्रष्टुमन्तःकरणं मुरारेः । सर्वस्य वेत्ता सरसां स वाचं सङ्कर्षणस्सादरमित्युवाच ॥ ४-२८॥ अन्तस्समीरभ्रमणप्रसङ्गादुदीर्णनादेन गुहामुखेन । भूयः प्रयुङ्क्ते पृथिवीधरस्ते गोवर्धनः स्वागतमेष शौरे ॥ ४-२९॥ निशम्य गोवर्धननिर्झराणां धीरध्वनिं कृष्णशिखण्डिनोऽमी । मुदा त्वदालोकनजातयेव नृत्यन्ति चक्रीकृतबर्हभाराः ॥ ४-३०॥ पादाविमौ सञ्चरणाय नालमत्रेति मत्वा मृगयूथमेतत् । स्वलोचनांशुस्तबकापदेशान्नीलोत्पलैर्भूमिमिवास्तृणाति ॥ ४-३१॥ विकीर्य विष्वग्विपिनद्रुमाणां मधूनि पुष्पस्तबकच्युतानि । अर्कांशुतप्तामनिलो धरित्रीं सञ्चारयोग्यां भवतो विधत्ते ॥ ४-३२॥ न भीतिरन्तर्न दृशोश्चलत्वं नास्था तृणेनोत्सुकताऽपि शाबे । रूपेण दामोदर मोहितास्ते तिष्ठन्त्यमी काष्ठकृता इवैणाः ॥ ४-३३॥ तेनेति सन्दर्शितमग्रजेन मनोहरं तत्तदवेक्षमाणः । गाश्चारयन् शाद्वलिनीषु भूषु रेमे रमाया रमणः प्रकामम् ॥ ४-३४॥ तं तत्र दृष्ट्वा महनीयरूपं शौरिं शबर्यश्चरितार्थनेत्राः । फलोपहारैरुपसृत्य वन्यैरवादिषुः प्रश्रयशोभि वाक्यम् ॥ ४-३५॥ इतः पदं नः शरपातमात्रं यायास्सहानेन सुहृद्गणेन । अत्रागमिष्यन्ति किरातपुत्राः गवाममूषां परिपालनाय ॥ ४-३६॥ व्याधाहृतैर्वारणकुम्भगर्भात् मुक्ताफलैरामलकाभिरामैः । प्रसाधनं त्वां भुवनत्रयस्य प्रसाधयिष्यन्ति किरातकन्याः॥ ४-३७॥ कन्याऽस्ति काचिच्छबरेश्वरस्य या नः कुलानामधिदेवतेव । तां सर्वथा दास्यति ते स राजा महान्त्यनर्घाणि च यौतकानि ॥ ४-३८॥ इत्यूचिषीणां शबराङ्गनानामत्यादरं चेतसि वीक्षमाणः । कृष्णः कृपानिघ्नमनास्स वाचमित्याह लज्जामृदुना स्वनेन ॥ ४-३९॥ पित्रोरनुज्ञामधिगम्य भद्राः समीहितं वः सकलं विधास्ये । मयि स्थिते तिष्ठति गोकुलं तद्गच्छामि मा भूत विषादवत्यः ॥ ४-४०॥ गते पुलिन्दीरिति सान्त्वयित्वा तदिष्टभङ्ग्व्यथिते मुकुन्दे । फलापचायादिषु निस्पृहास्ताः शनैर्ययुः पक्कणमेव खिन्नाः ॥ ४-४१॥ विहृत्य गर्भेषु लतागृहाणां निपीय वारीणि च पल्वलानाम् । फलानि चास्वाद्य महीरुहाणां वनानि धन्यानि चकार शौरिः ॥ ४-४२॥ अथाधिरूढे गगनस्य मध्यं दिवाकरे दुःसहभानुजाले । घर्माकुलं गोकुलमीक्षमाणः हलायुधः प्राह रथाङ्गपाणिम् ॥ ४-४३॥ किञ्चित्परिम्लानलताप्रवालस्तृणाङ्कुरभ्रान्तकुरङ्गयूथः । अह्नः परित्यक्तजनप्रचारः प्रवर्तते मध्यम एष भागः ॥ ४-४४॥ कुलानि वीक्षस्व विहङ्गमानां पक्षान्तरस्थापितशाबकानि । कठोरमेनं गमयन्ति कालं नीडेषु निद्रालसलोचनानि ॥ ४-४५॥ प्रायः कठोरातपपीडयेव छायाः परित्यक्तबहिर्विहाराः । आलोकयाध्वन्यजनेन सार्द्धमध्यासते मूलमनोहकानां ॥ ४-४६॥ करैरसह्यैरयमंशुमाली तपन् महीमुग्र इव क्षितीशः । आशंसितापत्प्रसरः प्रजाभिर्धत्ते दशामद्य विगर्हणीयाम् ॥ ४-४७॥ विहृत्य कान्तारमहीषु वेगाद्व्रजन्नपः पुष्करिणीषु पातुम् । मार्गे करीन्द्रः करशीकरेण प्रियामसावुक्षति तापखिन्नाम् ॥ ४-४८॥ तप्तानि भासा तपनस्य हंसाः विहाय वारीणि नखंपचानि । पत्रेषु विन्यस्य पदानि मन्दं पद्माकरे सम्प्रति पर्यटन्ति ॥ ४-४९॥ निगूढमीनग्रहणाभिसन्धिं कृछ्रेण मुक्त्वा कपटासिकां स्वाम् । अमी बकोटास्तपनांशुतापात्तटीनिकुञ्जं तरसा विशन्ति ॥ ४-५०॥ तदेहि यामस्तरुषण्डमेतद् घर्माकुलं गोकुलमानयामः । अत्रैव विश्रम्य मुहूर्तमात्रं भूयोऽपि गावः प्रचरन्त्वरण्ये ॥ ४-५१॥ इतीरितं तत्समयानुरूपं वाक्यं समाकर्ण्य हलायुधस्य । आर्यो यथाज्ञापयतीति कृष्णस्तं राममुक्त्वा तरुषण्डमाप ॥ ४-५२॥ अलब्धमार्ताण्डकरप्रवेशमारामकल्पं तरुषण्डमेत्य । आनेतुकामः स गवां कुलं तदासज्जयामास मुखेन वेणुम् ॥ ४-५३॥ सलीलमीषत्परिवृत्तपादं सविभ्रमोदञ्चितसव्यनेत्रं । कृष्णस्य वंशार्पितपाटलोष्ठं वीक्ष्य स्थितं विस्मयमाप लोकः ॥ ४-५४॥ तत्र स्थितं तामरसायताक्षं तापिञ्छवर्णं शिखिपिञ्छचूडं । तमेव पश्यन्ननिमेषतायाः फलं प्रपेदे सुरसिद्धसङ्घः ॥ ४-५५॥ स्थितस्त्रिभङ्ग्या विवरेषु वेणोर्व्यापारयन्नङ्गुलिपल्लवानि । जगत्त्रयीमोहविधानदक्षमुत्थापयामास स नादमुच्चैः ॥ ४-५६॥ अथोत्थितानन्दनिमीलिताक्ष्यः विलूनदूर्वाङ्कुरलाञ्छितास्याः । गावस्तदभ्याशमुपेत्य तस्थुः निस्पन्ददेहा निभृतैः श्रवोभिः ॥ ४-५७॥ नैसर्गिकं वैरमपत्यसङ्गस्तृष्णा बुभुक्षा कुसुमायुधश्च । तद्वेणुनादश्रुतितत्पराणां नालं विधातुं विकृतिं तिरश्चाम् ॥ ४-५८॥ तस्मिन् मनोहारिणि चक्रपाणेर्वनान्तरे मूर्छति वंशनादे । विधीयमानं परिहृत्य कर्म सर्वेऽपि सत्वा लिखिता इवासन् ॥ ४-५९॥ प्रवृत्तमात्रौ वनपद्मिनीषु दातुं गृहीतुं च मृणालभङ्गम् । चक्राह्वयस्तद्गृहमेधिनी च प्रसार्य चञ्चू परमासिषाताम् ॥ ४-६०॥ उपाविशन्नुज्झितचापलानि स्वजानुविन्यस्तकराननानि । निष्पन्ददृष्टीनि वनद्रुमाणां शाखासु शाखामृगमण्डलानि ॥ ४-६१॥ पद्भ्यामवष्टभ्य महीमुभाभ्यां सद्यस्समुत्तम्भितपूर्वकायः । सिंहः करीन्द्राक्रमणे प्रवृत्तस्तस्थौ तथा कृत्रिमसिंहकल्पः ॥ ४-६२॥ सिद्धाः कलत्राणि लतागृहेषु समुद्यताः पाययितुं मधूनि । करद्वयोदञ्चितरत्नपात्राः निषेदुरालेख्यमिव प्रपन्नाः ॥ ४-६३॥ तद्वंशनालाच्च्युतमच्युतस्य गेयामृतं साधु निषेव्य वृक्षाः । चिरं जराजर्जरितत्वचोऽपि बाला इवासन्नवपल्लवाढ्याः ॥ ४-६४॥ नादेन वेणोर्विवशीकृतानां विद्याधराणां गलिताः करेभ्यः । गतिर्भवास्माकमपीति नूनं वीणा निपेतुर्मधुविद्विषोऽग्रे ॥ ४-६५॥ स्ववेणुनादेन स जीवलोकमित्थं परानन्दमयं विधाय । प्रभुर्व्यरंसीदमराश्च सर्वे सुप्तोत्थितानां स्थितिरन्वभूवन् ॥ ४-६६॥ प्रत्यागते चेतसि ते विदित्वा प्रभ्रश्य हस्तात् पतिता विपञ्चीः । पुनर्न्न चक्रुः प्रतिपन्नलज्जाः विद्याधरास्तद्ग्रहणाभिलाषम् ॥ ४-६७॥ मधुव्रतानां ध्वनिभिर्मनोज्ञैर्वाचालयन्ती वलयं दिशानाम् । प्रसूनवृष्टिः सुरसिद्धमुक्ता पपात मौलौ परमस्य पुंसः ॥ ४-६८॥ अवर्षि केनायमदृष्टपूर्वः प्रसूनराशिस्तव मूर्धनीति । पृष्टो विहस्याह विभुस्सहायान् ज्ञानं भवद्भोऽपि कथं ममेति ॥ ४-६९॥ विषह्यतां याति विवस्वदंशौ विश्रान्तमुत्थाप्य गवां स पुञ्जम् । भूयस्तृणाश्यामलभूतलेषु प्रारब्ध सञ्चारयितुं वनेषु ॥ ४-७०॥ ततः परिक्षीणसहस्रभानोरशाम्यदूष्मा दिवसस्य तीव्रः । यथा विनाशे धनसञ्चयस्य महावलेपो धनिनो जनस्य ॥ ४-७१॥ प्रभाकरे पाटलभासि दूरं दिशं प्रतीचीमवगाहमाने । आलोक्य रामः परिणाममह्नो दामोदरं सादरमित्युवाच ॥ ४-७२॥ आविर्भवन्मन्दमरुत्प्रचारा शान्तातपा निर्वृतसर्वसत्वा । विरामवेला दिवसस्य शौरे प्रवर्तते पश्य मनोभिरामा ॥ ४-७३॥ शिरोभिरूढेन्धनशाकमूलाः स्वयूथ्यमुच्चैःस्वरमाह्वयन्तः । वनेचरा वीक्ष्य विराममह्नः समारभन्ते सहसैव गन्तुम् ॥ ४-७४॥ शतं शतं व्योमनि बद्धमालाः शात्कारवाचालविलोलपक्षाः । व्रजन्ति लक्ष्मीकृतवासवृक्षाः मनोजवाः पश्य पतत्रिणोऽमी ॥ ४-७५॥ भुवः परागे बहुशो लुठित्वा प्रविश्य नीडं कलविङ्गयूथम् । धिनोत्यपत्यानि बुभुक्षितानि ग्रासेन चञ्चूपुटसञ्चितेन ॥ ४-७६॥ तदेहि शौरे तपनव्यपायात्प्रागेव यामः पदमस्मदीयम् । इयं क्षतिः श्वभ्रतटेन पश्चाद्दुःसञ्चरा लुब्धकनिर्मितेन ॥ ४-७७॥ श्रुत्वेति रामस्य गिरं मुरारिः अस्त्वेवमित्यादरपूर्वमुक्त्वा । सह प्रतस्थे स च मित्रवर्गैः प्रचण्डशृङ्गध्वनिपूरिताशैः ॥ ४-७८॥ सहप्रयाणाय कृतत्वराणामूधोभराद्दूरविलम्बिनीनाम् । स तत्र तत्र प्रतिपाल्य तस्थौ प्रीतो गवामागमनं मुकुन्दः ॥ ४-७९॥ समावृतो गोपजनेन नन्दः गोपाङ्गनाभिश्च वृता यशोदा । अतिष्ठतामध्वनि लोचनाभ्यां पुत्रागतिप्रेक्षणसस्पृहाभ्याम् ॥ ४-८०॥ चकार कर्णेषु तयोः प्रमोदं दामोदरापूरितशृङ्गनादः । दिवि प्रसर्पन्नथ पांसुपूरः नेत्रेषु पीयूषमिवाभ्यवर्षत् ॥ ४-८१॥ तौ धूसराङ्गौ रजसा कुमारौ गत्वा स नन्दः परिरभ्य गाढम् । आत्मानमानन्दसमुद्रमग्नं नालं समुद्धर्तुमभून्मुहूर्तम् ॥ ४-८२॥ उत्पत्य धावद्भिरुदस्तशस्त्रैः क्ष्वेलारवक्षोभितदिग्विभागैः । आभीरवीरैस्स वृतः प्रपेदे व्रजं समाकर्णिततूर्यघोषम् ॥ ४-८३॥ चाटूक्तिभिः पार्श्वचरानशेषान् विसृज्य गोपान् सहितस्स मित्रैः । विवेश कृष्णो भवनं दिनान्ते समुज्वलन्मङ्गलदीपिकाभिः ॥ ४-८४॥ कामं दिवा कर्णपथं गतेन नीताः प्रियं वेणुरवेण विष्णोः । प्रतिप्रियं चक्रुरमुष्य सायं गावः पयोदोहननिःस्वनेन ॥ ४-८५॥ अनुदिनमिति कुर्वन् पालनं गोकुलस्य क्षणमिव दिवसानि क्रीडया यापयन् सः । अखिलमपि धरित्रीभारमभ्युद्धरिष्यन् अरमत सह शौरिस्तत्र सङ्कर्षणेन ॥ ४-८६॥ इति सुकुमारकृतौ कृष्णविलासकाव्ये चतुर्थः सर्गः ॥ ४ ॥