अक्षर आकार:

श्रीहरिप्रातःस्मरणम्

shrIhariprAtaHsmaraNam

श्रीहरिप्रातःस्मरणम्

ग्राहग्रस्ते गजेन्द्रे रुवति सरभसं तार्क्ष्यमारुह्य धावन् व्याघूर्णन्माल्यभूषावसनपरिकरो मेघगम्भीरघोषः । आबिभ्राणो रथाङ्गं शरमसिमभयं शङ्खचापी सखेटो हस्तैः कौमोदकीमप्यवतु हरिरसावंहसां संहतेर्नः ॥ १॥ नक्राक्रान्ते करीन्द्रे मुकुलितनयने मूलमूलेऽतिखिन्ने नाहं नाहं न च भवति पुनस्तादृशो मादृशेषु । इत्येवं त्यक्तहस्ते सपादि सुरगणे भावशून्ये समस्ते मूलं यत्प्रादुरासीत्स दिशतु भगवान् मङ्गलं सन्ततं नः ॥ २॥