अक्षर आकार:

शिक्षाश्लोकाः

shikShAshlokAH

शिक्षाश्लोकाः

यदा बहिर्मुखा यूयं भविष्यथ कथञ्चन । तदा कलाप्रवाहस्था देहचित्तादयोऽप्युत ॥ १॥ सर्वथा भक्षयिष्यन्ति युष्मानिति मतिर्मम । न लौकिकः प्रभुः कृष्णो मनुते नैव लौकिकम् ॥ २॥ भावस्तत्राप्यस्मदीयः सर्वस्वश्चैहिकश्च सः । परलोकश्च तेनायं सर्वभावेन सर्वथा । सेव्यः स एव गोपीशो विधास्यत्यखिलं हि नः ॥ ३॥ इति श्रीवल्लभाचार्यविरचिताः शिक्षाश्लोकाः समाप्ताः ।