अक्षर आकार:

शतदूषणीस्थहयग्रीवस्तोत्रम्

shatadUShaNIstha HayagrIvastotram

शतदूषणीस्थहयग्रीवस्तोत्रम्

श्रीलक्ष्मीहयवदनपरब्रह्मणे नमः । श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी । वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ॥ समाहारस्साम्नां प्रतिपदमृचां धाम यजुषा लयः प्रत्यूहानां लहरिविततिर्बोधजलधेः । कथादर्पक्षुभ्यत्कलिकथककोलाहलभवं हरत्वन्तर्ध्वान्तं हयवदनहेषाहलहलः ॥१॥ हयग्रीवसुधासिन्धुहर्षहेषारवोर्मयः। जयन्ति वादवेलान्तक्षिप्तबाह्यकुदृष्टयः ॥ २॥ संप्रज्ञातस्थितिमधिगते निर्विकल्पे समाधौ शान्तावद्यं स्तिमितबहुलानन्दसन्दाहमन्तः । यत्तद्ब्रह्म स्फुरति यमिनां पूर्णषाड्गुण्यरूपं सा मे नित्यं हृदि हयमुखी देवता सन्निधत्ताम् ॥ ३॥ यदात्मानो वेदा यदनुगुणवर्णाकृतिजुषः प्रमाणं यत्रैते नियतमपरिच्छेध्यविभवे । य एषामाहर्ता दनुजमथनो वाजिवदनः स मे देवः श्रीमान् विदलयतु सम्मोहमखिलम् ॥ ४॥ अबाधादध्यक्षप्रभृति मितिवर्गेष्ववधृतं शरीरं यस्येदं जगदखिलमन्तर्यमयितुः । स मे तर्कैरेतैर्निजविभवलुण्टाकमथनैः प्रसीदत्वासीदन्निगमशतसीमा हयमुखः ॥ ५॥ अज्ञानसन्तमसमाश्रयणोन्मुखानां संवित्प्रदीपमहसा सहसा निरुन्धन् । विद्यास्वयंवरपतिर्व्यपहन्त्वविद्यां सर्वानुभूः स भगवान् पुरुषोत्तमो नः ॥ ६॥ विदितमनुवदन्तो विश्वमेतद्यथावत् विदधति निगमान्ताः केवलं यन्मयत्वम् । अविदितबहुभूमा नित्यमन्तर्विधत्तां हयवरवदनोसौ सन्निधिः सन्निधिं नः ॥ ७॥ हयमुखमुखैस्तत्तद्रूपैरकर्मविनिर्मितै- रुपदिशति यस्तथ्यं पथ्यं सतामवसीदताम् । जननपदवीयातायातश्रमापहरां धियं जनयतु स मे देवः श्रीमान् धनञ्जयसारथिः ॥ ८॥ नमस्त्रेधा विभक्तानामात्मनामन्तरात्मने । ब्रह्मणे हयवक्त्राय बन्धमोक्षैकहेतवे ॥ ९॥ य एको दुर्लङ्घ्यत्रिगुणनिजमयानिगलितै- र्विचित्रैः क्षेत्रज्ञैर्विहरति सरोजासहचरः । जगत्सर्गक्षेमक्षपणपरिकर्मीणमहिमा दयालुर्देवोसौ तुरगवदनस्तारयतु नः ॥ १०॥ अनन्यानां पुंसामनवधिकभक्तिस्थितिजुषा- मविद्याध्वंसो यञ्चरणवरिवस्यापरिणतेः । तदेकं सत्संवित्सुखमवघिदूरिकृतगुणं हताशेषावद्यं हयवदनमीडीमहि महः ॥ ११॥ हताशेषक्लेशा निरवधि महानन्दधनिनो वयं भूयास्मेति स्थिरमनघवर्मन्यधिकृताः । अनाघ्रातद्वन्द्वा हयमुखपदद्वन्द्वरुचयः स्वदन्तां मे सन्तः श्रुतिजलधिमुष्टिन्धयधियः ॥ १२॥ कवितार्किकसिंहाय कल्याणगुणशालिने । श्रीमते वेङ्कटेशाय वेदान्तगुरवे नमः ॥ इति श्रीशतदूषणीस्थहयग्रीवस्तोत्रं सम्पूर्णम् ।