अक्षर आकार:

श्रीशार्ङ्गिपाणिस्तोत्रम्

Shri Sharngipanistotram

श्रीशार्ङ्गिपाणिस्तोत्रम्

हेममुनिकृतं नमो नमोऽगण्यगुणैकसिन्धवे कल्याणसद्विग्रहशालिने प्रभो । योगीन्द्रहृत्पङ्कजमध्यवासिने योगाय योगीन्द्रकरार्चिताय ॥ १॥ कामादिषड्वर्गविभेदकाय भक्तार्तिसम्भेदन दीक्षिताय । कल्याणनाथाय कलाधरार्कसुरेन्द्रसम्पूजितविग्रहाय ॥ २॥ कालात्मने कालसुयोगकारिणे श्रीकालचक्राय सुचक्रधारिणे । भूचक्रसंस्थाय सुमानिताय खगध्वजेशाय नमामि सन्ततम् ॥ ३॥ मत्स्याय कूर्माय किटीन्द्ररूपिणे श्रीनारसिंहाय नमो नमस्ते । इन्द्रानुजाय दितिजेन्द्रविभेदकाय निशाचरेशवरकण्ठविभेदकाय ॥ ४॥ गोपीकुचासक्तयदूद्वहाय नमामि बुद्धाय रमाधिहारिणे । ज्ञानेतरध्वान्तनिवारकाय विज्ञानवैराग्यसुभक्तिदायिने ॥ ५॥ प्रज्ञात्मने प्राज्ञसम्पूजिताय प्रह्लादसंरक्षणदीक्षिताय । आनन्दपूर्णाय सदाऽन्तरात्मने वेदान्तवेद्याय नमो नमस्ते ॥ ६॥ सर्गस्थितिप्रलयकारणकारणाय भोगीन्द्रतल्पाश्रितविग्रहाय । कल्पार्धकल्पाय फलप्रदायिने कञ्जासनापूजितमङ्गलाङ्गिने ॥ ७॥ नमो नमस्ते करुणाकराय नागारिदिव्यांसगताय विष्णवे । श्रीभूमिनीलार्चितसुन्दराङ्गिने नमो नमः शार्ङ्गधराय तुभ्यम् ॥ ८॥ पुनः पुनस्ते प्रणमामि विष्णो त्वत्पार्श्वयोः पुरतः पृष्ठतश्च । सर्वत्र ते सन्ततमादरेण नमामि शार्ङ्गेश महाप्रभो विभो ॥ ९॥ इति हेममुनिकृतं श्रीशार्ङ्गपाणिस्तोत्रं सम्पूर्णम् ।