अक्षर आकार:

सेवाफलम्

sevAphalam

सेवाफलम्

यादृशी सेवना प्रोक्ता तत्सिद्धौ फलमुच्यते । अलौकिकस्य दाने हि चाद्यः सिद्‍ध्येन्मनोरथः ॥ १॥ फलं वा ह्यधिकारो वा न कालोऽत्र नियामकः । उद्वेगः प्रतिबन्धो वा भोगो वा स्यात्तु बाधकम् ॥ २॥ अकर्तव्यं भगवतः सर्वथा चेद्गर्तिन हि । यथा वा तत्त्वानिर्द्धारो विवेकः साधनं मतम् ॥ ३॥ बाधकानां परित्यागो भोगेऽप्येकं तथापरम् । निष्प्रत्यूहं महान् भोगः प्रथमे विशते सदा ॥ ४॥ स विघ्नोऽल्पो घातकः स्याद्वलादेतौ सदा मतौ । द्वितीये सर्वथा चिन्ता त्याज्या संसारनिश्चयात् ॥ ५॥ नन्वाद्ये दातृता नास्ति ततीये बाधकं गृहम् । अवश्येयं सदा भाव्या सर्वमन्यन्मनोभ्रमः ॥ ६॥ तदीयैरपि तत्कार्यं पुष्टौ नैव विलम्बयेत् । गुणक्षोभोऽपि द्रष्टव्यमेतदेवेति मे मतिः । कुसृष्टिरत्र वा काचिदुत्पद्येत स वै भ्रमः ॥ ७॥ इति श्रीवल्लभाचार्यकृतं सेवाफलनिरूपणं समाप्तम् ।