अक्षर आकार:

श्रीमदन्नवरसत्यनारायणसुप्रभातस्तोत्रम्

Shrimad Annavara Satyanarayana Suprabhata Stotram

श्रीमदन्नवरसत्यनारायणसुप्रभातस्तोत्रम्

श्रीरस्तु । उत्तिष्ठान्नवराधीश उत्तिष्ठ व्रतमोदित । उत्तिष्ठोत्तिष्ठ विश्वेश सत्यदेव दयानिधे ॥ १॥ ब्राह्मे मुहूर्त उत्थाय करिष्यन्ति तव व्रतम् । सत्यव्रतानुमोदार्थं उत्तिष्ठोत्तिष्ठ सत्वरम् ॥ २॥ उत्तिष्ठ निर्गुणाकार भक्तानां पालनं कुरु । उत्तिष्ठोत्तिष्ठ शुद्धात्मन् रत्नाद्रिवसतिप्रिय ॥ ३॥ उत्तिष्ठ कमलाकान्त उत्तिष्ठ पुरुषोत्तम । उत्तिष्ठानन्तपालेश त्रैलोक्यं परिपालय ॥ ४॥ विना सत्यदेवं कलौ नास्ति मुक्तिः सदा सत्यदेवं स्मरामि स्मरामि । करोमीश सत्यव्रतं दीनबन्धो न चान्यं स्मरामो न चान्यं भजामः ॥ ५॥ भजामि त्वदङ्घ्रिं न याचेऽन्यदेवं सदा देव याचे कृपालो भवन्तम् । प्रभो दीनबन्धो विभो लोकरक्षिन् शरण्यस्त्वमेवास्य दीनस्य नाथ ॥ ६॥ न जानामि धर्मं न जानामि चान्यं त्वमेकश्शरण्यो गतिस्त्वं त्वमेकः । अनाथं दरिद्रं जरारोगयुक्तं कृपापात्रमेनं कुरु श्रीनिवास ॥ ७॥ न तातो न माता न बन्धुर्न दाता गतिस्त्वं त्वमेकश्शरण्यस्त्वमेकः । हरीशं हरेशं सुरेशं गिरीशं भजेऽहं सदाहं न जानामि चान्यम् ॥ ८॥ प्रातः स्मरामि बलसत्यपदाब्जयुग्मं शीर्षोपरिस्थितगुरोरपरस्वरूपम् । वेदान्तवेद्यमभयं धृतदेवरूपं सत्यावतारजगतीतलपावनं च । ९॥ प्रातर्नमामि वरसत्यविभुं पवित्रं रक्षोगणाय भयदं वरदं जनेभ्यः । सत्यावतीसहितवीरवरस्वरूपं दीनानुपालनरतं परमादिदेवम् ॥ १०॥ प्रातर्भजामि वरसत्यपदारविन्दं पद्माङ्कुशादिशुभलाञ्छनरञ्जितं तत् । योगीन्द्रमानसमधुव्रतसेव्यमानं पापापहं सकलदीनजनावलम्बम् ॥ ११॥ प्रातर्वदामि वचसा वरसत्यनाम वाग्दोषहारिसकलाघनिवारणं च । सत्यव्रताचरणपावनभक्तजाल वाञ्छाप्रदातृसकलादृतभव्यतेजः । १२॥ प्रातः करोमि कलिकल्मषनाशकर्म तद्धर्मदं भवतु भक्तिकरं परं मे । अन्तःस्थितेन शुभभानुचिदात्मकेन सत्येन लोकगुरुणा मम सिद्धिरस्तु ॥ १३॥ लक्ष्मीसमेत जगतां सुखदानशील पद्मायतेक्षण मनोहरदिव्यमूर्ते । लोकेश्वर श्रितजनप्रिय सत्यदेव श्रीरत्नपर्वतनिकेतन सुप्रभातम् ॥ १४॥ पापापहार कलिदोषहरातिदक्ष श्रीमन्नगालय मनोहरसत्यमूर्ते । कारुण्यवीक्षण महामहिमाढ्य देव नित्यं प्रभातसमये तव सुप्रभातम् ॥ १५॥ तापत्रयापहर सत्यवतीप्रसन्न दामोदरामरपते कमलासुसेव्य । उत्तिष्ठ पालय दरिद्रजनालिबन्धो सत्यव्रतप्रिय विभो तव सुप्रभातम् ॥ १६॥ श्रीपद्मनाभ पुरुषोत्तम सत्यदेव पम्पानदीतटनिवास समस्तरूप । संसारबन्धनविमोचन दीनबन्धो श्रीकृष्ण पालक विभो तव सुप्रभातम् ॥ १७॥ श्रीराम एव भवदीय दयाविशेषात् सेतुं बबन्ध जितरावणराक्षसौघः । सत्यव्रतस्य महिमा गदितुं न शक्या सत्यव्रतप्रियपते तव सुप्रभातम् ॥ १८॥ सत्यव्रतस्य फलदानवशानुबद्ध सन्तानलाभकर हे प्रभुसत्यदेव । सक्तालिरिच्छति तव व्रतसाधनं भोः उत्तिष्ठ साधय विभो तव सुप्रभातम् ॥ १९॥ संसेव्य साधुहृदि संस्फुरदात्मतत्त्वं सच्चित्सुखं परमनन्तमतीन्द्रियं च । प्राप्नोति भक्त इह मुक्तिपदं स्थिरं च मां रक्ष नित्यकृपया तव सुप्रभातम् ॥ २०॥ सत्यप्रभुस्तु मनसो वचसामगम्यः वाचो विभान्ति निखिला यदनुग्रहेण । यस्य व्रताचरणभाग्यमहं स्मरामि नारायणाच्युत विभो तव सुप्रभातम् ॥ २१॥ साम्बेन युक्तवरसत्यविभुस्वरूपः सेव्यः सदा हरिहरात्मकदिव्यमूर्तिः । एतादृशः स्थितिरगम्यमहाविचित्रः त्वं देव पालय विभो तव सुप्रभातम् ॥ २२॥ श्रीमन्नभीष्टवरदाखिललोकबन्धो श्री श्रीनिवास जनतापह वीरवर्य । श्री भ्राजदन्नवरवास सुसत्यमूर्ते मां पाहि पाहि वरदाच्युत सुप्रभातम् ॥ २३॥ इति श्रीसत्यनारायण सुप्रभातं समाप्तम् ।