अक्षर आकार:

सत्यनारायणस्तुतिः

Satyanarayanastutih

सत्यनारायणस्तुतिः

ध्यायेत् सत्यं गुणातीतं गुणत्रय-समन्वितम् । लोकनाथं त्रिलोकेशं कौस्तुभाभरणं हरिम् ॥ १॥ नीलवर्णं पीतवस्त्रं श्रीवत्सपदभूषितम् । गोविन्दं गोकुलानन्दं ब्रह्माद्यैरपि पूजितम् ॥ २॥ सत्यनारायणं देवं वन्देऽहं कामदं प्रभुम् । लीलया विततं विश्वं येन तस्मै नमो नमः ॥ ३॥ इति सत्यनारायणस्तुतिः समाप्ता ।