अक्षर आकार:

सत्यनारायण मङ्गलाशासनम्

Satyanarayana Mangalashasanam

सत्यनारायण मङ्गलाशासनम्

सत्यावताररूपाय मङ्गलाभरणाङ्घ्रये । पम्पातीर निवासाय सत्यदेवाय मङ्गलम् ॥ १॥ स्थितमन्नवरग्रामे प्रियसत्यव्रतं प्रभुम् । स्मरामि वरदातारं सत्यदेवाय मङ्गलम् ॥ २॥ द्वारे कनकदुर्गा ते वनदुर्गगिरिस्थिता । रामस्तु व्रतशालायां सत्यदेवाय मङ्गलम् ॥ ३॥ सत्यनारायणायास्तु सेव्यमानाय निर्जरैः । कलिकल्मषनाशाय सत्यदेवाय मङ्गलम् ॥ ४॥ सत्याय सत्यरूपाय सत्यानन्दस्वरूपिणे । हरिहरस्वरूपाय सत्यदेवाय मङ्गलम् ॥ ५॥ अनन्तपद्मनाभाय माङ्गल्यगुणशालिने । सेव्यायानन्तलक्ष्म्या च सत्यरूपाय मङ्गलम् ॥ ६॥ पद्मनाभस्वरूपाय पर्वतोपरिवासिने । सत्यवत्या समेताय सत्यरूपाय मङ्गलम् ॥ ७॥ सत्यव्रतस्वरूपाय व्रताचरणमोदिने । नित्यव्रतस्वरूपाय सत्यरूपाय मङ्गलम् ॥ ८॥ अभीष्टसिद्धिदात्रे च सर्वसद्गुणरूपिणे । आश्रितावनदक्षाय सत्यरूपाय मङ्गलम् ॥ ९॥ श्रीकृष्णशास्त्रिणा बद्ध यन्त्रमध्यस्थिताय च । श्रीकृष्णवंशपालाय सत्यरूपाय मङ्लम् ॥ १०॥ इति श्रीसत्यनारायण मङ्गलाशासनं समाप्तम् ।