अक्षर आकार:

श्रीसर्वोत्तमस्तोत्रम्

shrIsarvottamastotram

श्रीसर्वोत्तमस्तोत्रम्

प्राकृतधर्मानाश्रयमप्राकृतनिखिलधर्मरूपमिति । निगमप्रतिपाद्यं यतच्छुद्धं साकृति स्तौमि ॥ १॥ कलिकालतमश्छन्नदृष्टित्वाद्विदुषामपि । सम्प्रत्यविषयस्तस्य माहात्म्यं समभूद्भुवि ॥ २॥ दयया निजमाहात्म्यं करिष्यन् प्रकटं हरिः । वाण्या यदा तदा स्वास्यं प्रादुर्भूतं चकार हि ॥ ३॥ तदुक्तमपि दुर्बोधं सुबोधं स्याद्यथा तथा । तन्नामाष्टोत्तरशतं प्रवक्ष्याम्यखिलाघहृत् ॥ ४॥ ऋषिरग्निकुमारस्तु नाम्ना छन्दो जगत्यसौ । श्रीकृष्णाऽस्यं देवता च बीजं कारुणिकः प्रभुः ॥ ५॥ विनियोगो भक्तियोगप्रतिबन्धविनाशने । कृष्णाधरामृतास्वादसिद्धिरत्र न संशयः ॥ ६॥ आनन्दः परमानन्दः श्रीकृष्णास्यं कृपानिधिः । दैवोद्धारप्रयत्नात्मा स्मृतिमात्रार्तिनाशनः ॥ ७॥ श्रीभागवतगूढार्थप्रकाशनपरायणः । साकारब्रह्मवादैकस्थापको वेदपारगः ॥ ८॥ मायावादनिराकर्ता सर्ववादिनिरासकृत् । भक्तिमार्गाब्जमार्तण्डः स्त्रीशूद्राद्युद्धृतिक्षमः ॥ ९॥ अङ्गीकृत्यैव गोपीशवल्लभीकृतमानवः । अङ्गीकृतौ समर्यादो महाकारुणिको विभुः ॥ १०॥ अदेयदानदक्षश्च महोदारचरित्रवान् । प्राकृतानुकृतिव्याजमोहितासुरमानुषः ॥ ११॥ वैश्वानरो वल्लभाख्यः सद्रूपो हितकृत्सताम् । जनशिक्षाकृते कृष्णभक्तिकृन्निखिलेष्टदः ॥ १२॥ सर्वलक्षणसम्पन्नः श्रीकृष्णज्ञानदो गुरुः । स्वानन्दतुन्दिलः पद्मदलायतविलोचनः ॥ १३॥ कृपादृग्वृष्टिसंहृष्टदासदासीप्रियः पतिः । रोषदृक्पातसम्प्लुष्टभक्तद्विड् भक्तसेवितः ॥ १४॥ सुखसेव्यो दुराराध्यो दुर्लभाङ्घ्रिसरोरुहः । उग्रप्रतापो वाक्सीधुपूरिताशेषसेवकः ॥ १५॥ श्रीभागवतपीयूषसमुद्रमथनक्षमः । तत्सारभूतरासस्त्रीभावपूरितविग्रहः ॥ १६॥ सान्निध्यमात्रदत्तश्रीकृष्णप्रेमा विमुक्तिदः । रासलीलैकतात्पर्यः कृपयैतत्कथाप्रदः ॥ १७॥ विरहानुभवैकार्थसर्वत्यागोपदेशकः । भक्त्याचारोपदेष्टा च कर्ममार्गप्रवर्तकः ॥ १८॥ यागादौ भक्तिमार्गैकसाधनत्वोपदेशकः । पूर्णानन्दः पूर्णकामो वाक्पतिर्विबुधेश्वरः ॥ १९॥ कृष्णनामसहस्रस्य वक्ता भक्तपरायणः । भक्त्याचारोपदेशार्थनानावाक्यनिरूपकः ॥ २०॥ स्वर्थोज्झिताखिलप्राणप्रियस्तादृशवेष्टितः । स्वदासार्थकृताशेषसाधनः सर्वशक्तिधृक् ॥ २१॥ भुवि भक्तिप्रचारैककृते स्वान्वयकृत्पिता । स्ववंशे स्थापिताशेषस्वमाहात्म्यः स्मयापहः ॥ २२॥ पतिव्रतापतिः पारलौकिकैहिकदानकृत् । निगूढहृदयोऽनन्यभक्तेषु ज्ञापिताशयः ॥ २३॥ उपासनादिमार्गातिमुग्धमोहनिवारकः । भक्तिमार्गे सर्वमार्गवैलक्षण्यानुभूतिकृत् ॥ २४॥ पृथक्शरणमार्गोपदेष्टा श्रीकृष्णहार्दवित् । प्रतिक्षणनिकुञ्जस्थलीलारससुपूरितः ॥ २५॥ तत्कथाक्षिप्तचित्तस्तद्विस्मृतान्यो व्रजप्रियः । प्रियव्रजस्थितिः पुष्टिलीलाकर्ता रहःप्रियः ॥ २६॥ भक्तेच्छापूरकः सर्वाज्ञातलीलोऽतिमोहनः । सर्वासक्तो भक्तमात्रासक्तः पतितपावनः ॥ २७॥ स्वयशोगानसंहृष्टहृदयाम्भोजविष्टरः । यशःपीयूषलहरीप्लावितान्यरसः परः ॥ २८॥ लीलामृतरसार्द्रार्द्रीकृताखिलशरीरभृत् । गोवर्धनस्थित्युत्साहस्तल्लीलाप्रेमपूरितः ॥ २९॥ यज्ञभोक्ता यज्ञकर्ता चतुर्वर्गविशारदः । सत्यप्रतिज्ञस्त्रिगुणातीतो नयविशारदः ॥ ३०॥ स्वकीर्तिवर्धनस्तत्त्वसूत्रभाष्यप्रदर्शकः । मायावादाख्यतूलाग्निर्ब्रह्मवादनिरूपकः ॥ ३१॥ अप्राकृताखिलाकल्पभूषितः सहजस्मितः । त्रिलोकीभूषणं भूमिभाग्यं सहजसुन्दरः ॥ ३२॥ अशेषभक्तसम्प्रार्थ्यचरणाब्जरजोधनः । इत्यानन्दनिधेः प्रोक्तं नाम्नामष्टोत्तरशतम् ॥ ३३॥ श्रद्धाविशुद्धबुद्धिर्यः पठत्यनुदिनं जनः । स तदेकमनाः सिद्धिमुक्तां प्राप्नोत्यसंशयम् ॥ ३४॥ तदप्राप्तौ वृथा मोक्षस्तदाप्तौ तद्गतार्थता ॥ अतः सर्वोत्तमस्तोत्रं जप्यं कृष्णरसार्थिभिः ॥ ३५॥ इति श्रीमदग्निकुमारप्रोक्तं सर्वोत्तमस्तोत्रं सम्पूर्णम् ।