अक्षर आकार:

सन्नामभूषणस्तोत्रम्

sannAmabhUShaNastotram

सन्नामभूषणस्तोत्रम्

गोपालाय धराधरेन्द्रपतये स्वीयार्तिहत्रे सुर- त्रासाम्भोधिनिमग्नदेवनिचयोद्धर्त्रे यशोदात्मने । श्रीमन्नन्दसुताय गोपवनितासंलालिताय ध्रुवं कण्ठस्थापितकौस्तुभाय जलदश्यामाय तुभ्यं नमः ॥ १॥ यन्नामलवसंस्पर्शान्न तिष्ठति पराश्रयः । तं गोपीहृदयानन्ददायकं प्रभुमाश्रये ॥ २॥ यन्नामसम्भावनया गजेन्द्रो ग्राहाद्विमुक्तः परमं पदं च । जगाम तन्नामशतं च साष्टकं वदाम्यहं भक्तियुतो यथामति ॥ ३॥ पूर्वं श्रीवासुदेवेन नाम्नामष्टोत्तरं शतम् । कृतं यस्य क्रमात्तस्य तत्तन्नामानुसारतः ॥ ४॥ छन्दोऽनुष्टुबृषिः कर्त्ता देवो गोवर्द्धनाधिपः । सर्वेष्टफलसिद्ध्यर्थे विनियोग उदाहृतः ॥ ५॥ गोपालः परमानन्दो यशोदानन्दनन्दनः । वसुदेवात्मजः श्रीशो वासुदेवः सनातनः ॥ ६। -। पीताम्बरो जगत्त्राता माधवो भक्तवत्सलः । अनन्तकीर्तिर्यज्ञेशः सर्वज्ञः सर्वमङ्गलः ॥ ७॥ वनमाली सूर्यकोटिप्रतीकाशो महाबलः । विश्वम्भरः कृपासिन्धुः पुरुषः पुरुषोत्तमः ॥ ८॥ कौस्तुभोद्भासितोरस्कः कृपालुर्जगतां पतिः । मथुरागमनोद्भूतमङ्गलाक्रान्तगोकुलः ॥ ९॥ कालीयस्य फणोत्पन्नमणिभूषितविग्रहः । पद्मनाभः शेषशायी गोगोपगोपिकापतिः ॥ १०॥ निरञ्जनः प्रतापी च जगदानन्दकारकः । नटाकृतिर्यदूनां च कुलचूडामणिर्विभुः ॥ ११॥ कन्दर्पकोटिलावण्यः परमाद्भुतरूपधृक् । कमलाधिपतिः स्वामी सर्वदेवेशनायकः ॥ १२॥ चतुर्भुजश्चतुर्मूर्तिश्चतुर्वर्गविशारदः । नारायणः सर्वरूपः सर्वदा पूतमानसः ॥ १३॥ श्रीकृष्णः केशिसंहर्त्ता मुरारिर्देवकीसुतः । सर्वारिष्टान्तकः सर्वपूरकः सर्वभाववित् ॥ १४॥ खरदुष्टिनिराकर्त्ता तुलसीदासवल्लभः । पूरिताखिलभक्तादिहृद्युत्पन्नमनोरथः ॥ १५॥ उपेन्द्रः सर्वशक्तिश्च वरदेशो महोदधिः । सोमवंशोद्भवो विष्णुः सर्वात्मा सद्गुणार्णवः ॥ १६॥ गोपिकागृहसम्भूतनवनीतलवप्रियः । धूलिधूसरिताङ्गश्च कमलारुणलोचनः ॥ १७॥ गोवर्द्धनाद्रिधारी च तत्स्थिताखिलरक्षकः । प्रमेयोत्पन्नसद्भावसफलीकृतगोपिकः ॥ १८॥ तिरस्कृतहरीणाक्षः पूतनाप्राणघातकः । देवोऽच्युतो व्रजेशश्च सर्वधर्मपरायणः ॥ १९॥ वृन्दावनप्राणपतिः सत्यवक्ता धुरन्धरः । कृतरासादिसन्नृत्यसादीभूतवपुर्जनः ॥ २०॥ नन्दापदश्च संहर्त्ता बालगोपालचेष्टितः । दामोदरो विश्वमूर्तिर्धेनुकारिः प्रलम्बहा ॥ २१॥ वातासुरारिर्गोविन्दः कंसघ्नो गोकुलोत्सवः । देवेन्द्रदर्पसंहर्त्ता रुक्मिणीप्राणवल्लभः ॥ २२॥ समस्तदुष्टहर्त्ता च मोक्षदो गरुडध्वजः । योगीश्वरो जगत्पूज्यो महोदारचरित्रवान् ॥ २३॥ उद्वहः श्रीयशोदादिलालितो मधुसूदनः । समुद्रकोटिगम्भीरः सप्तलोकैकमण्डनः ॥ २४॥ जगदेकस्फुरत्ख्यातिर्धरासद्गतिनाशनः । सत्यभामाप्राणपतिर्यमुनाजलकौतुकी ॥ २५॥ सन्नामभूषणाख्यं वै स्तोत्रं यः प्रपठेत्सुधीः । कण्ठे लिखित्वा संस्थाप्य सोऽपि विष्णुर्न संशयः ॥ २६॥ गोकुलेशं नमस्कृत्य स्तुत्वा भक्त्या विचारितम् । तस्माद्गोपालभक्तानामस्तु बुद्धिप्रसारणम् ॥ २७॥ प्रोक्तानि यानि नामानि भूषारूपाणि तानि सः । दध्यादङ्गेषु सर्वेषु त्रैलोक्यविजयी भवेत् ॥ २८॥ इति सन्नामभूषणं स्तोत्रं समाप्तम् ।