अक्षर आकार:

श्रीसमस्तपापनाशन श्रीविष्णुस्तोत्र

shrI samastapApanAshana shrIviShNustotra

श्रीसमस्तपापनाशन श्रीविष्णुस्तोत्र

पुष्कर उवाच परदारपरद्रव्यजीवहिंसादिके यदा । प्रवर्तते नृणां चित्तं प्रायश्चित्तं स्तुतिस्तदा ॥ १॥ विष्णवे विष्णवे नित्यं विष्णवे विष्णवे नमः । नमामि विष्णुं चित्तस्थमहङ्कारगतिं हरिम् ॥ २॥ चित्तस्थमीशमव्यक्तमनन्तमपराजितम् । विष्णुमीड्यमशेषेण अनादिनिधनं विभुम् ॥ ३॥ विष्णुश्चित्तगतो यन्मेविष्णुर्बुद्धिगतश्च यत् । यच्चाहङ्कारगो विष्णुर्यव्दिष्णुर्मयिसंस्थितः ॥ ४॥ करोति कर्मभूतोऽसौ स्थावरस्य चरस्य च । तत् पापन्नाशमायातु तस्मिन्नेव हि चिन्तिते ॥ ५॥ ध्यातो हरति यत् पापं स्वप्ने दृष्टस्तु भावनात् । तमुपेन्द्रमहं विष्णुं प्रणतार्त्तिहरं हरिम् ॥ ६॥ var प्रणतार्तिहरं जगत्यस्मिन्निराधारे मज्जमाने तमस्यधः । हस्तावलम्बनं विष्णुं प्रणमामि परात्परम् ॥ ७॥ सर्वेश्वरेश्वर विभो परमात्मन्नधोक्षज । हृषीकेश हृषीकेश हृषीकेश नमोऽस्तुते ॥ ८॥ नृसिंहानन्त गोविन्द भूतभावन केशव । दुरुक्तं दुष्कृतं ध्यातं शमयाघन्नमोऽस्तुते ॥ ९॥ यन्मया चिन्तितं दुष्टं स्वचित्तवशवर्त्तिना । अकार्यमहदत्युग्रन्तच्छमन्नय केशव ॥ १०॥ ब्रह्मण्यदेव गोविन्द परमार्थपरायण । जगन्नाथ जगद्ध्यातः पापं प्रशमयाच्युत ॥ ११॥ यथापराह्ने सायाह्ने मध्याह्ने च तथा निशि । कायेन मनसा वाचा कृतं पापमजानता ॥ १२॥ जानता च हृषीकेश पुण्डरीकाक्ष माधव । नामत्रयोच्चारणतः स्वप्ने यातु मम क्षयम् ॥ १३॥ var पापं यातु शरीरं मे हृषीकेश पुण्डरीकाक्ष माधव । पापं प्रशमयाद्यत्वं वाक्कृतं मम माधव ॥ १४॥ यद्भुञ्जन्यत्स्वपंस्तिष्ठन् गच्छन् जाग्रद् यदास्थितः । कृतवान् पापमद्याहं कायेन मनसागिरा ॥ १५॥ यत् स्वल्पमपि यत् स्थूलं कुयोनिनरकावहम् । तद्यातु प्रशमंसर्व वासुदेवानुकीर्तनात् ॥ १६॥ परं ब्रह्म परं धाम पवित्रं परमञ्च यत् । तस्मिन् प्रकीर्तिते विष्णौ यत् पापं तत् प्रणश्यतु ॥ १७॥ यत् प्राप्य न निवर्तन्ते गन्धस्पर्शादि वर्जितम् । सूरयस्तत् पदं विष्णोस्तत् सर्वं शमयत्वधम् ॥ १८॥ माहात्म्यं पापप्रणाशनं स्तोत्रं यः पठेच्छृणुयादपि । शारीरैर्मानसैर्वाग्जैः कृतैः पापैः प्रमुच्यते ॥ १९॥ सर्वपापग्रहादिभ्यो यातिविष्णोः परं पदम् । तस्मात्पापे कृते जप्यंस्तोत्रंसर्वाघमर्दनम् ॥ २०॥ प्रायश्चित्तमघौघानां स्तोत्रं व्रतकृते वरम् । प्रायश्चित्तैः स्तोत्रजपैर्व्रतैर्नश्यति पातकम् ॥ २१॥ ततः कार्याणि संसिद्ध्यै तानि वै भुक्तिमुक्तये ॥ २२॥ इत्याग्नेये महापुराणे सर्वपापप्रायश्चित्त पापनाशनस्तोत्रं नाम द्विसप्तत्यधिकशततमोऽध्यायः ॥ Agni Purana adhyAya 172