अक्षर आकार:

सकलावतारसाम्यरूपम्

sakalAvatArasAmyarUpam

सकलावतारसाम्यरूपम्

श्रीमदाचार्यचरणानां सकलावतारसाम्यरूपं निरूप्यते । (श्रीहरिरायचरणाः) यथा श्रीमद्वराहेण दंष्ट्रया चोद्धृता मही । हिरण्याक्षश्च निहतो गोद्विजामरदुःखदः ॥ १॥ तथा श्रीवागधीशेन नष्टा भक्तिः समुद्धृता । निहत्य भक्तद्वेष्टारं दुष्टसङ्घं भयप्रदम् ॥ २॥ यतोऽथ वल्लभाधीशो विख्यातः पृथिवीतले । रोषदृक्पातसम्प्लुष्टभक्तद्विडिति नामतः ॥ ३॥ इति वाराहसाम्यम् ॥ १॥ सनन्दनादयो देवा ब्रह्मचर्यप्रकाशकाः । बभूवुर्ब्रह्मणः पुत्राः शुद्धमार्गप्रवर्तकाः ॥ ४॥ तथायमपि वागीशो ह्यन्यस्त्रीसङ्गमत्यजत् । अत एवास्य नामास्ति सुपूरितः रहःप्रियः ॥ ५॥ पतिव्रतापतिश्चेति तेन तद्वद्बभूव सः । ब्रह्मचर्यत्वसंसिद्धिस्तेन जाता महाप्रभोः ॥ ६॥ इति सनकादिसाम्यम् ॥ २॥ यथा श्रीनारदः पञ्चरात्रं व्यरचयत्प्रभुः । यस्मिन्सेवाप्रकारश्च स्फुटं श्रीमानकल्पयत् ॥ ७॥ भक्त्याचारोपदेष्टाभूत्कर्ममार्गप्रवर्त्तकः ॥ ८॥ येनाचारश्च यज्ञश्च पुष्टिमार्गः प्रवर्त्तितः । ततोऽयं यज्ञकर्ता च यज्ञभोक्तेति विश्रुतः ॥ ९॥ इति नारदसाम्यम् ॥ ३॥ यथा नारायणो देवो गन्धमादनवासभाक् । कामसेनां विजित्याशु तिष्ठत्येकान्त ईश्वरः ॥ १०॥ तथायमपि दुष्टौघं विजित्य करुणानिधिः । कृष्णप्रिये व्रजेऽवात्सीद्यतोऽयं श्रीव्रजप्रियः ॥ ११॥ इति नारायणसाम्यम् ॥ ४॥ यथा श्रीकपिलः साङ्ख्यमुक्त्वाऽज्ञानमपाहरत् । जीवानां दुष्टमनसां देवहूतीप्रियावहः ॥ १२॥ तथाणुभाष्यव्याख्यानादयमप्यखिलेश्वरः । विनाश्याज्ञानपटलं चरतां निजवर्त्मनि ॥ १३॥ बभौ सर्वत्र विजयी श्री‍इलम्माप्रियावहः । अत एवास्य नामोक्तं सूत्रभाष्यप्रवर्त्तकः ॥ १४॥ इति कपिलसाम्यम् ॥ ५॥ आन्वीक्षिकीं यथा दत्तः प्रह्लादादिभ्य उक्तवान् । नानावाक्यप्रचारेण दृढीकृत्य सतां मतम् ॥ १५॥ तथायमपि वागीशः समाश्रित्य सतां मतम् । भक्त्याचारोपदेशार्थ नानावाक्यनिरूपकः ॥ १६॥ तदर्थमेव भगवान् कथयामास वै बहून् । स्तवान्कृष्णाश्रयाद्यांश्च प्रभुः श्रीकृष्णहार्दवित् ॥ १७॥ इतिदत्तसाम्यम् ॥ ६॥ यथा यज्ञावतारश्च यामादिद्वादशात्मजैः । सार्द्धं गुणगणाब्धिश्चारक्षत्स्वायम्भुवान्तरम् ॥ १८॥ तथा श्रीवल्लभाधीशः कुमाराभ्यां च नप्तृभिः । दूरीकृत्यासुरान् सर्वानपात्सारस्वतान्तरम् ॥ १९॥ इतियज्ञावतारसाम्यम् ॥ ७॥ यथा श्रीऋषभो देवः पुत्राणां ज्ञानदोऽभवत् । अज्ञानान्तर्द्धिरमलः पुंसां मोहाब्धिमज्जताम् ॥ २०॥ तथायं चाज्ञातलीलो नाम्ना ख्यातश्च भूतले । स्ववंशे स्थापिताशेषस्वमाहात्म्यश्च सोऽभवत् ॥ २१॥ इति ऋषभदेवसाम्यम् ॥ ८॥ यथा श्रीपृथुराजा च गोरूपोर्वीं दुदोह वै । सर्वजीवार्थमनघो महाराजोऽवसेवितः ॥ २२॥ तथा महेन्दिरास्वामी सामवेदसमुद्भवः । ऋग्धेनूः सन्दुदोहाथ भक्तेच्छापूरकाह्वयः ॥ २३॥ पुष्टिमार्गप्रचारार्थं शुद्धद्वैतमताप्तये । लीलामृतरसौघाद्रिकृताखिलशरीरभृत् ॥ २४॥ इति पृथुसाम्यम् ॥ ९॥ भक्तं यथैकं मत्स्यस्तु सत्यवन्तमपात्प्रभुः । जलात्प्रलयकालीनात् मात्स्यं संश्रावयञ्जनान् ॥ २५॥ तथा श्रीवल्लभेशस्तु संसारभयवारिधेः । भक्तानपाद्बहून् श्रीशः श्रावयित्वा सुबोधिनीम् ॥ २६॥ सुरासुराणामुदधिं मथ्नताममृतं यदा । भूतोऽप्राप्तामृतानां च क्लिश्यतां तेन कर्मणा ॥ २७॥ इति मत्स्यसाम्यम् ॥ १०॥ यथा श्रीकमठः साक्षाद्दधे मन्दरपर्वतम् । पुष्टे च हाटकमयं लक्षयोजनविस्तृते ॥ २८॥ तथैव दैवजीवानामसुराणां च वाक्पतिः । क्लिश्यतां भवसिन्धौ च मोक्षपीयूषहेतवे ॥ २९॥ गृहीत्वा ज्ञानसर्पस्य मुखपुच्छौ महाप्रभुः । तदा प्रलुप्तं निगमपर्वतं चोद्दधार ह ॥ ३०॥ दुष्टोत्थापितपाखण्डविषं भूरि पराक्रमम् । पत्रावलम्बनशिवरूपेणाथ पपौ मुदा ॥ ३१॥ इति कमठसाम्यम् ॥ ११॥ यथा धन्वतरिः पुंसां स्मृतिमात्रार्तिनाशनः । तथा सतामयमपि स्मृतिमात्रार्तिनाशकः ॥ ३२॥ इति धन्वतरिसाम्यम् ॥ १२॥ यथा श्रीमोहिनी दैत्यान् मोहयित्वाऽथ चाक्षुषैः । दैत्योत्सङ्गगतं पात्रं सुधायाः प्राप्य निर्मलम् ॥ ३३॥ सुरेभ्यश्चामृतं भूयो ददौ दैत्येभ्य एव न । पुरुषोऽपि महाविष्णुर्धृत्वा स्त्रीरूपमद्भुतम् ॥ ३४॥ एवं श्रीवल्लभोऽपीशो नष्टं वेदमनुत्तमम् । उद्धृत्य जगतां नाथो निजभक्तार्थमादरात् ॥ ३५॥ विरुद्धाश्रयतो दुष्टान् मोहयित्वा महाप्रभुः । तेन सम्मथ्य निगमगिरिणास्मिन्भवे शुभम् ॥ ३६॥ पुष्टिरूपामृतमयं निष्कास्य गुणवारिधिः । देवेभ्योऽदादसुरेभ्यो न ददौ भक्तवत्सलः ॥ ३७॥ पूर्वमासीत् स्वयमपि वल्लभोऽथ द्वितीयके । अवतारे सम्बभूव वाक्पतिः पुरुषाकृतिः ॥ ३८॥ इति मोहिनीसाम्यम् ॥ १३॥ अथ सकलजगदार्तितटिनीपतिवारको भगवान्नृसिंहो यथा स्तम्भादाविर्भूय हिरण्यकशिपुं कराग्रेण विदार्य निजभक्तं प्रह्लादं ररक्षैवं भगवान् श्रीवल्लभाधीशोऽपि चम्पकारण्ये वीतिहोत्रात्प्रकटीभूयाखिलदुःखदातारं जीवाज्ञानरूपमहादैत्यं सद्वाक्यप्रचारनखैर्भित्त्वा प्रह्लादरूपवैष्णववृन्दमरक्षदित्यत एव उग्रप्रताप इति नामनिर्देश इति ॥ ३९॥ इति नृसिंहसाम्यम् ॥ १४॥ अथ च यथाऽखिलगीर्वाणकदम्बसमीडितगरिष्ठ- गुणगणपटलो भगवान् वामनः कश्यपसुतं आदौ भिक्षुरूपं गृहीत्वा बलेः सर्वस्वमाच्छिद्य ववृधे पुनश्च तेन सम्पूजितस्तमनुगृह्यान्तर्दधे तथैव भगवानिलापतिः श्रीलक्ष्मणराजकुमारः शुद्धः भिलुकवद्रूपं समाश्रित्य तत्र च महाभिमानिनं पण्डितसमूहं विजित्याचार्यपदवीं च प्राप्य विद्यानगराधीश्वरमनुगृह्य तेषां निरुत्तराणां जयेन पुष्टिमार्गमार्त्तण्डोदयं कृत्वा मातुलाभिमानं चाहत्य कनकाभिषेकाप्तयशःप्रसारेण वृद्धिं प्राप्य पृथिवीं पर्यक्रामदिति ॥ ४०॥ इति वामनसाम्यम् ॥ १५॥ यथा द्विजद्रोहकारान् जघान क्षत्रियान् बहून् । परश्वधेन तीक्ष्णेन रेणुकानन्दवर्धनः ॥ ४१॥ तथा श्रौतद्रोहकरान् यः स्मार्तानसुरान् प्रभुः । पत्रावलम्बखण्डेन जित्वा चक्रे निरुत्तरान् ॥ ४२॥ इति परशुरामसाम्यम् ॥ १६॥ कलिकालमलग्रस्तान् जीवानालोक्य दुर्मतीन् । मन्दभाग्यांस्तथा दुष्टान् श्रीमान् सत्यवतीसुतः ॥ ४३॥ श्रीमद्भागवतालापादुद्दधार दयापरः । पाषण्डतिमिराक्रान्तजीवजालं द्विधाऽकरोत् ॥ ४४॥ तथा महाप्रभुरपि दुष्टाध्वार्णवमज्जितान् । जीवानालोक्य भगवान् पुष्टिमार्गोपदेशतः ॥ ४५॥ अङ्गीकृत्य मन्त्रदानाच्चक्रे भयविवर्जितान् । पुत्रपौत्रप्रपौत्राद्यैः करोति च करिष्यति ॥ ४६॥ इति वेदव्याससाम्यम् ॥ १७॥ अयोध्याधिपती रामः सेतुं कृत्वा यथार्णवे । स्वसेनां स्थापयामास जिग्येऽसुरचमूर्द्रुतम् ॥ ४७॥ तथेलम्माकुमारोऽपि श्रीमद्भागवतार्णवे । सेतुं सुबोधिनीरूपं विधायातारयज्जनान् ॥ ४८॥ जिगायासुरवर्गं च वैष्णवद्वेषकारकम् । श्रीभागवतपीयूषसमुद्रमथनक्षमः ॥ ४९॥ इति दाशरथिरामसाम्यम् ॥ १८॥ अथ यथा सकलजगदभीष्टसम्पादकः श्रीभगवान् श्रीनन्दराजकुमारो निजसहोदरेण श्रीरेवतीरमणेन पूर्णारेवतीरमणसदृशेन सारस्वतकल्पेऽवतीर्य दुष्ट- कदम्बरूपं भूभारमुज्जहार स्वहस्तमारणेन च तन्मोक्षं चकारैवमसावपि भगवान् पुरुषोत्तमो नारायणादि- दीक्षितानां सोमयागफलस्वरूपः श्रीलक्ष्मणाङ्गजः कलाववतीर्य पुत्राभ्यां श्रीगोपीनाथविठ्ठलाभ्यां सहाष्टा- क्षरदानेन निगददानेन च केनचिदपराधविशेषेण विनष्ट- मतीन् अत एव गोलोकच्युतान् जीवानुद्दधारेति ॥ ५०॥ इति श्रीकृष्णसाम्यम् ॥ १९॥ यथा हलधरः श्रीमान् निजानन्दाब्धिमज्जितः । कृष्णसौख्यप्रयत्नात्मा रोहिण्यानन्दवर्धनः ॥ ५१॥ किञ्च- निजभाण्डकारकाणामभीष्टदाताऽथ रेवतीश्रेष्ठः । श्रीपुष्टिमार्गसंस्थैः सद्भिः सेव्यो व्रजेशवन्नित्यम् ॥ ५२॥ तथायमपि वागीशो नामभिस्तत्सद्रक्षकैः । विख्यातस्त्रिषु लोकेषु कृष्णानुग्रहभोजनः ॥ ५३॥ आनन्दः परमानन्दः पूर्णानन्दो जगद्गुरुः । स्वानन्दतुन्दिलश्चेति इलम्मानन्दवर्धनः ॥ ५४॥ अदेयदानदक्षश्च श्री‍अक्काप्राणवल्लभः । भक्तेच्छापूरकः कृष्णभक्तिकृन्निखिलेष्टदः ॥ ५५॥ इति हलधरसाम्यम् ॥ २०॥ अथ च यथा भगवान् बुद्धो देवकार्यार्थं सर्वान् विनिन्द्य विश्ववैपरीत्यं कर्माचरन् सर्वान् दैत्यान् मोहयामास तथयमपि भगवान् श्रीकृष्णाख्यः प्राकृतानुकृतिव्याजमोहितासुरमानुषः इतिनामानु- करणसम्पन्नो वैष्णवानां वैपरीत्यं कर्म प्रकाशयन् निगूढहृदयत्त्वं च दर्शयन् सन्न्यासधारणमङ्गी- कृत्यासुरस्य मोहलीलामाचचारेति ॥ ५६॥ इति बुद्धसाम्यम् ॥ २१॥ हयग्रीवो यथा नष्टवेदाविर्भावकारकः । तथायमपि वेदोक्तं नष्टमार्गमदशर्यत् ॥ ५७॥ इति हयग्रीवसाम्यम् ॥ २२॥ हंसो यथा च महतां पुत्राणां ब्रह्मणः पुरा । ज्ञानदः सम्बभूवेह ब्रह्मानुग्रहकारकः ॥ ५८॥ तथा महाप्रभुरपि महतां ज्ञानदोऽभवत् । हनुमत्सदृशानां च रामसन्तोषकारकः ॥ ५९॥ इति हंससाम्यम् ॥ २३॥ कल्किर्यथा कलेरन्ते जीवाज्ञानं विनाशयन् । भद्रप्रदश्च जीवानां सम्भविष्यति सर्वतः ॥ ६०॥ एवं वैश्वानरोऽपीशः कलिनष्टं च दुर्बलम् । पुष्टिमार्गं पुनः श्रीमान्द्योतयिष्यति निर्मलम् ॥ ६१॥ पुष्टिमार्गं तु भगवान् सर्वकाले तु रक्षति । पुत्रपौत्रादिरूपैश्च दुर्लभाङ्घ्रिसरोरुहः ॥ ६२॥ भूतेषु च भविष्येषु वर्त्तमानेष्वपीश्वरः । चतुर्युगेषु कृतभुग् मार्गं रक्षति रक्षति ॥ ६३॥ इति कल्किसाम्यम् ॥ २४॥ एवं सर्वावताराणां गुणकर्मपराक्रमान् । दधाति नितरां सन्तः श्रीमाँल्लक्ष्मणनन्दनः ॥ ६४॥ तस्मात्सर्वैर्वैष्णवैश्च त्रैलोक्ये विबुधेश्वरः । प्रकीर्तितः कृष्णरूपः श्रीपूर्णपुरुषोत्तमः ॥ ६५॥ अतः स एव संसेव्यो वैष्णवैः पापभीरुभिः । ध्यातव्यः स्मरणीयश्च तैलङ्गतिलकः प्रभुः ॥ ६६॥ आर्या- अस्य श्रवणात्पाठात्प्रभवेत्पुंसामभेदत्वम् । श्रीमन्नन्दकुमारवाक्यत्योश्चापि नूनमुर्व्यां वै ॥ ६७॥ एतन्मदुदितं बालस्वभावाद्वंशवत्सलः । श्रीवल्लभाचार्यनामा प्रभुः क्षाम्यतु सर्वथा ॥ ६८॥ स्वकीयं श्रीवल्लभीयं मामानन्दनिधिर्हरिः । निःसाधनं च वृणुते स कृष्णः शरणं मम ॥ ६९॥ इति श्रीहरिदासविरचितं श्रीमहाप्रभुसर्वावतारसाम्यनिरूपणं सम्पूर्णम् ।