अक्षर आकार:

श्रीरुचिराष्टकम् २

shrIruchirAShTakam 2

श्रीरुचिराष्टकम् २

प्रभुवक्त्रं रुचिरं केशं रुचिरं तिलकं रुचिरं चलनं रुचिरम् । रुचिराधिपतेः सकलं रुचिरम् ॥ १॥ द्विजवर्णं रुचिरं कर्णं रुचिरं कुण्डलं रुचिरं मण्डलं रुचिरम् । रुचिराधिपतेः सकलं रुचिरम् ॥ २॥ गलस्थलं रुचिरं भ्रूचलं रुचिरं नासा रुचिरा श्वासो रुचिरः । रुचिराधिपतेः सकलं रुचिररम् ॥ ३॥ नयनं रुचिरं शयनं रुचिरं दानं रुचिरं मानं रूचिरम् । रुचिराधिपतेः सकलं रुचिरम् ॥ ४॥ वदनं रुचिरं अमलं रुचिरं अधरं रुचिरं मधुरं रुचिरम् । रुचिराधिपतेः सकलं रुचिरम् ॥ ५॥ दन्तं रुचिरं पङ्क्ती रुचिरा रेखा रुचिरा वाणी रुचिरा । रुचिराधिपतेः सकलं रुचिरम् ॥ ६॥ वचनं रुचिरं रचनं रुचिरं आस्यं रुचिरं हासं रुचिरम् । रुचिराधिपतेः सकलं रुचिरम् ॥ ७॥ ग्रीवा रुचिरा सेवा रुचिरा । माला रुचिरा लक्षणं रुचिरम् । रूचिराधिपतेः सकलं रूचिरम् ॥ ८॥ करयुग्मं रुचिरं गमनं रुचिरं हृदयं रुचिरं नाभी रुचिरा । रुचिराधिपतेः सकलं रुचिरम् ॥ ९॥ कटितटं रुचिरं पृष्ठं रुचिरं वसनं रुचिरं रसनं रुचिरम् । रुचिराधिपतेः सकलं रुचिरम् ॥ १०॥ त्रिवली रुचिरा जघनं रुचिरं सघनं रुचिरं चलनं रुचिरम् । रुचिराधिपतेः सकलं रुचिरम् ॥ ११॥ चरणं रुचिरं वरणं रुचिरं भरणं रुचिरं करणं रुचिरम् । हरिदासमते सकलं रुचिरं रुचिराधिपतेः सकलं रुचिरम् ॥ १२॥ इति हरिदासनाथभा‍ईकृतं श्रीरुचिराष्टकं सम्पूर्णम् ।