अक्षर आकार:

श्रीरुचिराष्टकम् १

shrIruchirAShTakam 1

श्रीरुचिराष्टकम् १

सर्वत्र यः प्रकटयन् भुवि सद्गुणान् स्वान् श्रीविठ्ठलो हरिरिह स्वयमेव योऽभूत् । तं नित्यकान्तमथ सर्वगुणैकरूपं श्रीवल्लभप्रभुमहं सततं स्मरामि ॥ १॥ रूपामृतानि निजसेविजनाय दातुं यः सन्दधार स हि लौकिकचारुदेहम् । आनन्दमात्रनिखिलावयवस्वरूपं भूयो भजामि सुभगं भुवि गोकुलेशम् ॥ २॥ पुष्पोचितस्मितलसल्ललनालताभि- रालिङ्गितं निजजनेप्सितसत्फलाढ्यम् । श‍ृङ्गारकल्पतरुमत्र कमप्यनल्पं श्रीगोकुलोदितमहं सततं भजामि ॥ ३॥ योषिद्भिरद्भुतमशेषहृषीकपात्रैः पेपीयमानपरिपूर्णरसस्वरूपम् । ब्रह्मादिदुर्लभमनन्यजनैकलभ्यं श्रीवल्लभं तमनिशं सुभगं भजामि ॥ ४॥ सौभाग्यभूमिजनितं त्रिजगद्वधूनां लावण्यसिन्धुलहरीपरिषिक्तगात्रम् । श‍ृङ्गारशेखरमनन्तयशःस्वरूपं श्रीगोकुलेश्वरमेव सदा भजामि ॥ ५॥ सौन्दर्यपद्ममधुवञ्चितमानसैस्तु संसेवितं मधुकरैः क्षितिसुन्दरीणाम् । आनन्दकन्दमरविन्ददलायताक्षं तं गोकुलावनिगतं निभृतं भजामि ॥ ६॥ श‍ृङ्गारसारनिजरूपरसं पदाब्जं भृङ्गायितेभ्य इह पाययितुं जनेभ्यः । सौन्दर्यसीमनिकषं दधतं स्ववेशं श्रीगोकुलेशमनिशं तमहं भजामि ॥ ७॥ श‍ृङ्गारमेव वनितोत्सवमूर्मिन्तं भाग्येन केनचिदिहावतरन्तमुर्व्याम् । श्रीविठ्ठलाङ्गजनुपं स्वकुलावतंसे सन्तं भजामि सततं प्रभुगोकुलेशम् ॥ ८॥ इत्थं प्रभोर्निजप्रभातुलमातुलस्य श्रीवल्लभस्य रुचिराष्टकमादरेण । श्रीकृष्णरायकृतमिष्टदमेतदीय- पादारविन्दयुगलस्मरणेन जप्यम् ॥ ९॥ इति श्रीकृष्णरायविरचितं रुचिराष्टकं समाप्तम् ।