अक्षर आकार:

श्रीरङ्गराजस्तवम्

shrIra~NgarAjastavam

श्रीरङ्गराजस्तवम्

श्रीरङ्गराजस्तवम् ॥ श्रीमते रामानुजाय नमः । श्रीपराशरभट्टार्यः श्रीरङ्गेशपुरोहितः । श्रीवत्साङ्कसुतः श्रीमान्श्रेयसे मेऽस्तु भूयसे । अथ श्रीरङ्गराजस्तवे पूर्वशतकम् । श्रीवत्सचिह्नमिश्रेभ्यो नम उक्तिमधीमहे । यदुक्तयस्त्रयीकण्ठे यान्ति मङ्गलसूत्रताम् ॥ १॥ रामानुजपदच्छाया गोविन्दाह्वाऽनपायिनी । तदायत्तस्वरूपा सा जीयान्मद्विश्रमस्थली ॥ २॥ रामानुजमुनिर्जीयाद्यो हरेर्भक्तियन्त्रतः । कलिकोलाहलक्रीडामुधाग्रहमपाहरत् ॥ ३॥ विधाय वैदिकम्मार्गमकौतस्कुतकण्टकम् । नेतारं भगवद्भक्तेर्यामुनं मनवामहै ॥ ४॥ नौमि नाथमुनिं नाम जीमूतं भक्त्यवग्रहे । वैराग्यभगवत्तत्त्वज्ञानभक्त्यभिवर्षुकम् ॥ ५॥ ऋषिं जुषामहे कृष्णतृष्णातत्त्वमिवोदितं सहस्रशाखां योऽद्राक्षीद्द्राविडीं ब्रह्मसंहिताम् ॥ ६॥ नमः श्रीरङ्गनायक्यै यद्भ्रूविभ्रमभेदतः । ईशेशितव्यवैषम्यनिम्नोन्नतमिदं जगत् ॥ ७॥ श्रीस्तनाभरणं तेजः श्रीरङ्गेशयमाश्रये । चिन्तामणिमिवोद्वान्तमुत्सङ्गेऽनन्तभोगिनः ॥ ८॥ अस्ति वस्त्विदमित्थं त्वप्रसङ्ख्यानपराङ्मुखम् । श्रीमत्यायतने लक्ष्मीपदलाक्षैकलक्षणम् ॥ ९॥ लक्ष्मीकल्पलतोत्तुङ्गस्तनस्तबकचञ्चलः । श्रीरङ्गराजभृङ्गो मे रमतां मानसाम्बुजे ॥ १०॥ स्वस्ति श्रीस्तनकस्तूरीमकरीमुद्रितोरसः । श्रीरङ्गराजाच्छरदश्शतमाशास्महेतमाम् ॥ ११॥ पातु प्रणतरक्षायां विलम्बमसहन्निव ॥ सदा पञ्चायुधीं बिभ्रत्स नः श्रीरङ्गनायकः ॥ १२॥ अमतं मतं मतमथामतं स्तुतं परिनिन्दितं भवति निन्दितं स्तुतम् । इति रङ्गराजमुदजूघुषत्त्रयी स्तुमहे वयम्किमिति तन्न शक्नुमः ॥ १३॥ यदि मे सहस्रवदनादिवैभवं निजमर्पयेत्स किल रङ्गचन्द्रमाः । अथ शेषवन्मम च तद्वदेव वा स्तुतिशक्त्यभावविभवेऽपि भागिता ॥ १४॥ सो अङ्ग वेद यदि वा न किलेति वेदः सन्देग्ध्यनर्घविदमात्मनि रङ्गनाथम् । स्थाने तदेष खलु दोषमलीमसाभिः मद्वाग्भिरैशमतिशायनमावृणोति ॥ १५॥ स्वं संस्कृतद्राविडवेदसूक्तैः भान्तं मदुक्तैर्मलिनीकरोति । श्रीरङ्गकम्रः कलभं क एव स्नात्वाऽपि धूलीरसिकं निषेद्धा ॥ १६॥ किन्तु प्रपत्तिबलतारितविष्णुमाय- मद्वंश्यराजकुलदुर्ललितं किलैवम् । श्रीरङ्गराजकमलापदलालितत्वं यद्वाऽपराध्यति मम स्तुतिसाहसेऽस्मिन् ॥ १७॥ नाथस्य च स्वमहिमार्णवपारदृश्व- विज्ञानवाग्विलसितं सहते न वेदः । आपेक्षिकं यदि तदस्ति ममापि तेन श्रीरङ्गिणः स्तुतिविधावहमध्यकार्षम् ॥ १८॥ अन्यत्रातद्गुणोक्तिर्भगवति न तदुत्कर्षचौर्यैः परेषां स्तुत्यत्वाद्यावदर्था फणितिरपि तथा तस्य निस्सीमकत्वात् । आम्नायानामसीम्नामपि हरिविभवे वर्षबिन्दोरिवाऽब्धौ सं बन्धात्स्वात्मलाभो न तु कबलनतः स्तोतुरेवं न किं मे ॥ १९॥ कावेरीमवगाहिषीय भगवद्भोगान्तरायी भवत् कर्मक्लेशफलाशयप्रशमनोद्वेलामलस्रोतसम् । जन्तोस्सम्सरतोऽर्चिरादिसरणिव्यासङ्गभङ्गाय या लोकेऽस्मिण् विरजेव वेल्लितजला श्रीरङ्गमालिङ्गति ॥ २०॥ दुग्धाब्धिर्जनको जनन्यहमियं श्रीरेव पुत्री वरः श्रीरङ्गेश्वर एतदर्हमिह किं कुर्यामितीवाकुला । चञ्चच्चामरचन्द्रचन्दनमहामाणिक्यमुक्तोत्करान् कावेरी लहरीकरैर्विदधती पर्येति सा सेव्यताम् ॥ २१॥ तीर्थं शुन्धति पाति नन्दनतरून् रथ्याङ्गणान्युक्षति स्नानीयार्हणपानवारि वहति स्नातः पुनीते जनान् । श्यामं वेदरहो व्यनक्ति पुलिने फेनैर्हसन्तीव तत् गङ्गां विष्णुपदीत्वमात्रमुखरां हेमापगा हन्त्वघम् ॥ २२॥ अगणितगुणावद्यं सर्वं स्थिरत्रसमप्रति- क्रियमपि पयः पूरैराप्याययन्त्यनुजाग्रती । प्रवहति जगद्धात्री भूत्वेव रङ्गपतेर्दया शिशिरमधुराऽगाधा सा नः पुनातु मरुद्वृधा ॥ २३॥ तरळतनुतरङ्गैर्मन्दमान्दोल्यमान- स्वतटविटपिराजीमञ्जरीसुप्तभृङ्गा । क्षिपतु कनकनाम्नी निम्नगा नारिकेल- क्रमुकजमकरन्दैर्मांसलापा मदंहः ॥ २४॥ कदलवकुलजम्बूपूगमाकन्दकण्ठ- द्वयससरसनीरामन्तरा सह्यकन्याम् । प्रबलजलपिपासालम्बमानाम्बुदौघ- भ्रमकरतरुवृन्दं वन्द्यतामन्तरीपम् ॥ २५॥ यद्विष्णोः पदमतमः परोरजोऽग्र्यं मुक्तानामनुविरजं विदीप्रमाहुः । तत्पुण्यं पुलिनमिदन्तयाऽद्य मध्ये कावेरि स्फुरति तदीक्षिषीय नित्यम् ॥ २६॥ त्रय्यन्तप्रहतिमतीषु वैष्णवानां प्राप्यासु प्रचुरभवश्रमापहासु । कावेरीपरिचरितासु पावनीषु श्रीरङ्गोपवनतटीषु वर्तिषीय ॥ २७॥ स्फुरितशफरदीर्यन्नालिकेरीगुलुच्छ- प्रसृमरमधुकुल्यावर्धितानोकहानि । रतिमविरति रङ्गारामरम्यस्थलानि क्रमुकपदसमोचामेचकानि क्रियासुः ॥ २८॥ अधिपरमपदं पुरीमयोध्यां अमृतवृतामपराजितामुशन्ति । पुलिनमुपरि रङ्गराजधानी पिशितदृशामपि सा पुरश्चकास्ति ॥ २९॥ भवपदमपि दिव्यधाम कर्तुं तदुभयतन्त्रितहर्म्यमालिकेव । भवनमणितलैर्विजृम्भमाणा जयतितरामिह रङ्गराजधानी ॥ ३०॥ मणिमकररुचीर्वितत्य पाशान् विसृमरकेतुकरैर्मृगं हिमांशोः । श्रिय इव नवकेलये जिघृक्षुः सुखयतु रङ्गपुरी चकासती नः ॥ ३१॥ जनपदसरिदन्तरीपपुष्यत् पुरपरिपालननित्यजागरूकान् । प्रहरणपरिवारवाहनाढ्यान् कुमुदमुखाण् गणनायकान् नमामि ॥ ३२॥ अहृतसहजदास्याः सूरयस्स्रस्तबन्धा विमलचरमदेहा इत्यमी रङ्गधाम । महितमनुजयतिर्यक्स्थावरत्वाः श्रयन्ते सुनियतमिति ह स्म प्राहुरेभ्यो नमः स्तात् ॥ ३३॥ श्रीरङ्गदिव्यभवनम्भुवि गोपुराणां प्राकारितेन निकरेण गुरुत्मतेव । पार्श्वप्रसारितपतत्त्रपुटेन भक्त्या नानातनूभिरूपगूढमुपघ्नयामः ॥ ३४॥ प्राकारमध्याजिरमण्डपोक्त्या सद्वीपरत्नाकररत्नशैला । सर्वंसहा रङ्गविमानसेवां प्राप्तेव तन्मन्दिरमाविरस्ति ॥ ३५॥ जितबाह्यजिनादिमणिप्रतिमा अपि वैदिकयन्निव रङ्गपुरे । मणिमण्डपवपगणन् विदधे परकालकविः प्रनमेमहि तान् ॥ ३६॥ स्मेराननाक्षिकमलैर्नमतः पुनानान् दंष्ट्रागदाभ्रुकुटिभिर्द्विषतो धुनानान् । चन्द्रप्रचण्डमुखतः प्रणमामि रङ्ग- द्वारावलीषु चतसृष्वधिकारभाजः ॥ ३७॥ सर्वात्मसाधारणनाथगोष्ठी- पूरेऽपि दुष्पूरमहावकाशम् । आस्थानमानन्दमयं सहस्र- स्थूणादिनाऽऽम्नातमवाप्नवानि ॥ ३८॥ विहरति हरौ लक्ष्म्या लीलातपत्रपरिष्क्रिया- विनिमयविधासूनासूनिक्रियासफलोत्पलाम् । अथ मुनिमनः पद्मेष्वब्जासहायविहारज- श्रमहरतटीं यामस्तामैन्दवीमरविन्दिनीम् ॥ ३९॥ तापत्रयीमैन्दवपुष्करिण्यां निमज्ज्य निर्वापयिताऽस्मि यस्याः । अभ्यासतोऽपामघमर्षणीनां चन्द्रः सुधादीधितितामवाप ॥ ४०॥ पूर्वेण तां तद्वदुदारनिम्न- प्रसन्नशीताशयमग्ननाथाः । पराङ्कुशाद्याः प्रथमे पुमांसो निषेदिवांसो दश मां दयेरन् ॥ ४१॥ आधारशक्तिमुपरि प्रकृतिं परेण तां कूर्ममत्र फणिनं पृथिवीं फणासु । पृथ्व्यां पयोधिमधि तन्नलिनं निधाय श्रीरङ्गधाम सुनिविष्टमभिष्टवानि ॥ ४२॥ परेण नाकं पुरि हेममय्यां यो ब्रह्मकोशोऽस्त्यपराजिताख्यः । श्रीरङ्गनाम्ना तमपौरुषेयं विमानराजं भुवि भावयानि ॥ ४३॥ अनाद्याम्नातत्वात्पुरुषरचनादोषरहितं जने तांस्तान् कामाण् विदधदपि सायुज्यहृदयम् । असन्देहाध्यासं भगवदुपलम्भस्थलममी प्रतीमः श्रीरङ्गं श्रुतिशतसमानर्द्धि शरणम् ॥ ४४॥ अपि फणिपतिभावाच्छुभ्रमन्तः शयालोः मरकतसुकुमारैः रङ्गभर्तुर्मयूखैः । सकलजलधिपानश्यामजीमूतजैत्रं पुलकयति विमानं पावनं लोचने नः ॥ ४५॥ व्यापि रूपमपि गोष्पदयित्वा भक्तवत्सलतयोज्झितवेलम् । तद्विषन्तपनृकेसरिरूपं गोपुरोपरि विजृम्भितमीडे ॥ ४६॥ अहमलमवलम्बः सीदतामित्यजस्रं निवसदुपरिभागे गोपुरं रङ्गधाम्नः । क्वचन नृपरिपाटीवासितं क्वापि सिम्ह- क्रमसुरभितमेकं ज्योतिरग्रे चकास्ति ॥ ४७॥ संशोध्य पावनमनोहरदृष्टिपातैः देवाय मामपि निवेदयतां गुरूणाम् । सव्योत्तरे भगवतोऽस्य कटाक्षवीक्षा- पङ्क्तिं प्रपद्य परितः परितो भवेयम् ॥ ४८॥ श्रीरङ्गराजकरनम्रितशाखिकाभ्यो लक्ष्म्या स्वहस्तकलितश्रवणवतंसम् । पुन्नागतल्लजमजस्रसहस्रगीति- सेकोत्थदिव्यनिजसौरभमामनामः ॥ ४९॥ श्रीरङ्गचन्द्रमसमिन्दिरया विहर्तुं विन्यस्य विश्वचिदचिन्नयनाधिकारम् । यो निर्वहत्यनिशमङ्गुलिमुद्रयैव सेनान्यमन्यविमुखास्तमशिश्रियाम ॥ ५०॥ सैन्यधुरीणप्राणसहायां सूत्रवतीमाशिश्रियमम्बाम् । श्रीपदलाक्षालाञ्छितसेवाप्रोतलसद्दोर्वल्लिविलासाम् ॥ ५१॥ विदधतु सुखं विष्वक्सेनस्य ते प्रथमे भटाः करिमुखजयत्सेनौ कालाह्वसिंहमुखौ च नः । जगति भजतां तत्तत्प्रत्यूहतूलदवानलाः दिशि दिशि दिवारात्रं श्रीरङ्गपालनकर्मठाः ॥ ५२॥ श्रुतिमयमतिहर्षप्रश्रयस्मेरवक्त्रं मणिमुकुरमिवाग्रे मङ्गलं रङ्गधाम्नः । शरणमभिगताः स्मो यत्र रूपस्वरूप- स्वगुणमहिमदर्शी मोदते रङ्गशायी ॥ ५३॥ तार्क्ष्यपक्षतिवदस्य वल्लभां रुद्रया सह सुकीर्तिमर्चये । हर्षबाष्पमपि कीर्तिमर्थिनां यन्मुखेन कमला कटाक्षयेत् ॥ ५४॥ स्वास्त्ररूपस्फुरन्मौलि मा शब्द इति उद्धुनानां सुरास्तर्जनीमुद्रया । नाथनिद्रोचितोन्निद्रताम्रेक्षणां सञ्चरन्तीं स्तुमस्तां च पञ्चायुधीम् ॥ ५५॥ अस्त्रग्रामाग्रेसरं नाथवीक्षा- शीधुक्षीबोद्वेलनृत्ताभिरामम् । चक्रं दैत्यच्छेदकल्माषिताङ्गं भ्राम्यज्ज्वालामालभारि प्रपद्ये ॥ ५६॥ हनुभूषविभीषणयोः स्यां यतमाविह मोक्षमुपेक्ष्य । रघुनायकनिष्क्रयभूतं भुवि रङ्गधनं रमयेते ॥ ५७॥ इतो बहिः पञ्च पराञ्चि खानि प्रत्यञ्चि तानि स्युरितोऽन्तरित्थम् । औपाधिकेभ्यो निरुपाधिभोग्ये प्रत्याहरद्वेत्रधरं नमामि ॥ ५८॥ शेषशयलोचनामृतनदीरयाकुलितलोलमानानाम् । आलम्बमिवामोदस्तम्भद्वयमन्तरङ्गमभियामः ॥ ५९॥ श्रीरङ्गान्तर्मन्दिरं दीप्रशेषं श्रीभूमीतद्रम्यजामातृगर्भम् । पश्येम श्रीदिव्यमाणिक्यभूषामञ्जूषायास्तुल्यमुन्मीलितायाः ॥ ६०॥ लीलालताकृपाणीभृङ्गारपतद्ग्रहार्पितकराग्राः । प्रोतावतंसितकुचाः पदाब्जसम्वाहिनीर्वयं स्तुमहे ॥ ६१॥ मुकुलितनलिनाः सकौमुदीका इव सुनिशा विमलादिका नवापि । शिरसि कृतनमस्यदेकहस्ता इतरकरोच्चलचामराः श्रयेयम् ॥ ६२॥ उत्फुल्लपङ्कजतटाकमिवाभियानि श्रीरङ्गराजमिह दक्षिणसव्यसीम्नोः । लक्ष्मीं विहाररसिकामिव राजहम्सीं छायामिवाभ्युदयिनीमवनीं च तस्याः ॥ ६३॥ पिब नयन पुरस्ते रङ्गधुर्याभिधानं स्थितमिव परिफुल्लत्पुण्डरीकं तटाकम् । श्रियमपि विहरन्तीं राजहम्सीमिवास्मिन् प्रतिफलनमिवास्याः पश्य विश्वम्भरां च ॥ ६४॥ सौशील्यशीतलमवेलकृपातरङ्ग- सम्प्लाविताखिलमकृत्रिमभूम निम्नम् । लक्ष्म्या च वासितमभूम विगाहमानाः श्रीरङ्गराजमिषपद्मसरः प्रसन्नम् ॥ ६५॥ सिंहासने कमलया क्षमया च विश्वं एकातपत्रयितुमस्मदसून्निषण्णम् । लक्ष्मीस्वयम्वरसनाथितयौवनश्री- सौन्दर्य सम्पदवलिप्तमिवालिहीय ॥ ६६॥ आपादमूलमणिमौलिसमुल्लसन्त्या स्वातन्त्र्यसौहृदतरङ्गितयाऽङ्गभङ्ग्या । सख्यं समस्तजनचेतसि सन्दधानं श्रीरङ्गराजमनिमेषमनुस्रियास्म ॥ ६७॥ क्षितिकमलनिवासाकल्पवल्लीसलीलो- ल्लुठनदशदिशोद्यद्यौवनारम्भजृम्भः । श्रममपहरतां मे रङ्गधामेति तत्तद्- वरमयफलनम्रः पत्रलः पारिजातः ॥ ६८॥ सम्भाषमाणमिव सर्ववशंवदेन मन्दस्मितेन मधुरेण च वीक्षणेन । दिव्यास्त्रपुष्पितचतुर्भुजमत्युदारं रङ्गास्पदं मम शुभाश्रयमाश्रयाणि ॥ ६९॥ एते शङ्खगदासुदर्शनभृतः क्षेमाङ्करा बाहवः पादद्वन्द्वमिदं शरण्यमभयं भद्रं च वो हे जनाः । इत्यूचिष्यभयङ्करे करतले स्मेरेण वक्त्रेण तद्- व्याकुर्वन्निव निर्वहेन्मम धुरं श्रीरङ्गसर्वंसहः ॥ ७०॥ अङ्गैरहम्प्रथमिकाचरितात्मदानैः आमोदमाननवयौवनसावलेपैः । है पारिजातमिव नूतनतायमान- शाखाशतं हृदि दधीमहि रङ्गधुर्यम् ॥ ७१॥ वर्। कथमधीमहि आलोका हृदयालवो रसवशादीशानमीषत्स्मितं प्रच्छायानि वचांसि पद्मनिलया चेतः शरव्यं वपुः । चक्षुष्मन्ति गतागतानि त इमे श्रीरङ्गश‍ृङ्गार ते भावा यौवनगन्धिनः किमपरं सिञ्चन्ति चेतांसि नः ॥ ७२॥ आयत्किरीटमलिकोल्लसदूर्ध्वपुण्ड्रं आकर्णलोचनमनङ्कुशकर्णपाशम् । उत्फुल्लवक्षसमुदायुधबाहुमर्ह- न्नीविं च रङ्गपदमब्जपदं भजामः ॥ ७३॥ वर्। पति अब्जन्यस्तपदाब्जमञ्चितकटीसंवादिकौशेयकं किञ्चित्ताण्डवगन्धिसंहननकं निर्व्याजमन्दस्मितम् । चूडाचुम्बिमुखाम्बुजं निजभुजाविश्रान्तदिव्यायुधं श्रीरङ्गे शरदः शतं तत इतः पश्येम लक्ष्मीसखम् ॥ ७४॥ अग्रे तार्क्ष्येण पश्चादहिपतिशयनेनात्मना पार्श्वयोश्च श्रीभूमिभ्यामतृप्त्या नयनचुलकनैः सेव्यमानामृतौघम् । वक्त्रेणाविःस्मितेन स्फुरदभयगदाशङ्खचक्रैर्भुजाग्रैः विश्वस्मै तिष्ठमानं शरणमशरणा रङ्गराजं भजामः ॥ ७५॥ आर्तापाश्रयमार्थिकल्पकमसह्यागस्करक्ष्मातलं सद्यः सम्श्रितकामधेनुमभियत्सर्वस्वमस्मद्धनम् । श्रीरङ्गेश्वरमाश्रयेम कमलाचक्षुर्महीजीवितं श्रीरङ्गे स सुखाकरोतु सुचिरं दास्यं च धत्तां मयि ॥ ७६॥ स्वफणवितानदीप्रमणिमालिसुदामरुचि- म्रदिमसुगन्धिभोगसुखशायितरङ्गधनम् । मदभरमन्थरोच्छ्वसितनिःश्वसितोत्तरलं फणिपतिडोलिकातलिममाश्वसिमः प्रणताः ॥ ७७॥ वटदलदेवकीजठरवेदशिरः कमला- स्तनशठकोपवाग्वपुषि रङ्गगृहे शयितम् । वरदमुदारदीर्घभुजलोचनसंहननं पुरुषमुपासिषीय परमं प्रणतार्तिहरम् ॥ ७८॥ उदधिपरमव्योम्नोर्विस्मृत्य पद्मवनालया- विनिमयमयीं निद्रां श्रीरङ्गनामनि धामनि । फणिपरिवृढस्फारप्रश्वासनिःश्वसितक्रम- स्खलितनयनं तन्वन्मन्वीत नः परमः पुमान् ॥ ७९॥ जलधिमिव निपीतं नीरदेनाद्रिमब्धौ निहितमिव शयानं कुञ्जरं वाद्रिकुञ्जे । कमलपदकराक्षं मेचकं धाम्नि नीले फणिनमधिशयानं पूरुषं वन्दिषीय ॥ ८०॥ श्रीरङ्गेशय इह शर्म निर्मिमीतामाताम्राधरपदपाणिविद्रुमो नः । कावेरीलहरिकरोपलाल्यमानो गम्भीराद्भुत इव तर्णकोऽर्णवस्य ॥ ८१॥ सिञ्चेदिमं च जनमिन्दिरया तटित्वान् भूषामणिद्युतिभिरिन्द्रधनुर्दधानः । श्रीरङ्गधामनि दयारसनिर्भरत्वा- दाद्रौ शयालुरिव शीतलकालमेघः ॥ ८२॥ आमौलिरत्नमकरात्पुनरा च पद्भ्यां धामक्रमोन्नमदुदारमनोहराङ्गम् । श्रीरङ्गशेषशयनं नयनैः पिबामः पश्यन्मनःप्रवणमोघमिवामृतस्य ॥ ८३॥ अरविन्दितमङ्घ्रिपाणिपद्मै- रपि तापिञ्छितमञ्चिताङ्गकान्त्या । अधरेण स बन्धुजीवितं श्रीः नियतं नन्दनयेत रङ्गचन्द्रम् ॥ ८४॥ अन्योन्यरञ्जकरुचोऽनुपमानशोभाः दिव्यस्रगम्बरपरिष्करणाङ्गरागाः । संस्पर्शतः पुलकिता इव चिन्मयत्वात् रङ्गेन्दुकान्तिमधिकामुपबृम्हयन्ति ॥ ८५॥ द्रुतकनकजगिरिपरिमिलदुदधि- प्रचलितलहरिवदहमहमिकया । स्नपयति जनमिममपहरति तमः फणिशयमरकतमणिकिरणगणः ॥ ८६॥ भोगीन्द्रनिःश्वसित सौरभवर्धितं श्री नित्यानुषक्तपरमेश्वरभावगन्धि । सौरभ्यमाप्लुतदिशावधि रङ्गनेतुः आनन्दसम्पदि निमज्जयते मनांसि ॥ ८७॥ रङ्गभर्तुरपि लोचनचर्चां साहसावलिषु लेखयमानम् । पुष्पहास इति नाम दुहानं सौकुमार्यमतिवाङ्मनसं नः ॥ ८८॥ एकैकस्मिन्परमवयवेऽनन्तसौन्दर्यमग्नं सर्वं द्रक्ष्ये कथमिति मुधा मामथा मन्दचक्षुः । त्वां सौभ्रात्रव्यतिकरकरं रङ्गराजाङ्गकानां तल्लावण्यं परिणमयिता विश्वपारीणवृत्ति ॥ ८९॥ वपुर्मन्दारस्य प्रथमकुसुमोल्लाससमयः क्षमालक्ष्मीभृङ्गीसकलकरणोन्मादनमधु । विकासः सौन्दर्यस्रजि रसिकताशीधुचुलको युवत्वं रङ्गेन्दोः सुरभयति नित्यं सुभगताम् ॥ ९०॥ किरीटचूडरत्नराजिराधिराज्यजल्पिका । मुखेन्दुकान्तिरुन्मुखं तरङ्गितेव रङ्गिणः ॥ ९१॥ शिखारत्नोद्दीप्रं दिशि दिशि च माणिक्यमकरी- लसच्छृङ्गं रङ्गप्रभुमणिकिरीटं मनुमहे । समुत्तुङ्गस्फीतं चिदचिदधिराजश्रिय इव प्रियाक्रीडं चूडामणिमपि नितम्बं तमभितः ॥ ९२॥ विहरतु मयि रङ्गिनश्चूलिकाभ्रमरकतिलकोर्ध्वपुण्ड्रोज्ज्वलम् । मुखममृततटाकचन्द्राम्बुजस्मयहरशुचिमुग्धमन्दस्मितम् ॥ ९३॥ मुखपुण्डरीकमुपरि त्रिकण्टकं तिलकाश्च केसरसमाः समौक्तिकाः । इह रङ्गभर्तुरभियन्मधुव्रतप्रकरश्रियं भ्रमरकाणि बिभ्रति ॥ ९४॥ हृदयं प्रसादयति रङ्गपतेर्मधुरोर्ध्वपुण्ड्रतिलकं ललितम् । अलिकार्धचन्द्रदलसंवलिताममृतस्रुतिं यदभिशङ्कयते ॥ ९५॥ सरसीरुहे समवनाम्य मदादुपरि प्रनृत्यदलिपङ्क्तिनिभे । स्फुरतो भ्रुवावुपरि लोचनयोः सविलासलास्यगति रङ्गभृतः ॥ ९६॥ स्मरशरनलिनभ्रमान्नेत्रयोः परिसरनमदिक्षुचापच्छवि । युगमुदयति रङ्गभर्तुर्भ्रुवोः गुरुकुलमिव शार्ङ्गनृत्तश्रियः ॥ ९७॥ कृपया परया करिष्यमाणे सकलाङ्गं किल सर्वतोऽक्षि नेत्रे । प्रथमं श्रवसी समास्तृणाते इति दैर्घ्येण विदन्ति रङ्गनेतुः ॥ ९८॥ श्रवोनासारोधात्तदवधिकडोलायितगते विशालस्फीतायद्रुचिरशिशिराताम्रधवले । मिथो बद्धस्पर्धस्फुरितशफरद्वन्द्वललिते क्रियास्तां श्रीरङ्गप्रणयिनयनाब्जे मयि दयाम् ॥ ९९॥ करुणामृतकूलमुद्वहैष प्रणमत्स्वागतिकी प्रसन्नशीता । मयि रङ्गधनोपकर्णिकाऽक्ष्णोः सरितोर्वीक्षणवीचिसन्ततिः स्तात् ॥ १००॥ विलसति नासा कल्पकवल्ली मुग्धेव रङ्गनिलयस्य । स्मितमपि तन्नवकुसुमं चुबुककपोलं च पल्लवोल्लसितम् ॥ १०१॥ नयनशफरिविद्धौ कर्णपाशावरुद्धौ रुष इव लुठतोऽर्चिर्मञ्जरीरुद्गिरन्तौ । परिमिलदलकालीशैवलामंसवेलां अनुमणिमकरोद्धौ रङ्गधुर्यामृताब्धेः ॥ १०२॥ अधरमधुराम्भोजं तत्कर्णपाशमृणालिका- वलयमभि मामास्तां रङ्गेन्दुवक्त्रसरश्चिरम् । नयनशफरं नासाशैवालवल्लरि कर्णिका- मकरमलकश्रेणीपर्यन्तनीलवनावलि ॥ १०३॥ रमयतु स मां कण्ठः श्रीरङ्गनेतुरुदञ्चित- क्रमुकतरुणग्रीवाकम्बुप्रलम्बमलिम्लुचः । प्रणयविलगल्लक्ष्मीविश्वम्भराकरकन्दली- कनकवलयक्रीडासङ्क्रान्तरेख इवोल्लसन् ॥ १०४॥ अधिष्ठानस्तम्भौ भुवनपृथुयन्त्रस्य कमला- करेणोरालाने अरिकरिघटोन्माथमुसलौ । फणीन्द्रस्फीतस्रग्व्यतिकरितसन्दिग्धविभवौ भुजौ मे भूयास्तामभयमभि रङ्गप्रणयिनः ॥ १०५॥ प्रतिजलधितो वेलाशय्यां विभीषणकौतुकात् पुनरिव पुरस्कर्तुं श्रीरङ्गिणः फणिपुङ्गवे । समुपदधतः कञ्चित्कञ्चित्प्रसारयतो भुज- द्वयमपि सदा दानश्रद्धालु दीर्घमुपास्महे ॥ १०६॥ कुसुमभरालसौ स्फटिकवेदिशयौ विटपा- वमरतरोः परं परिहसत्पृथु रङ्गभुजः । बहुमणिमुद्रिकाकनककङ्कणदोर्वलयैः किसलयि दोर्द्वयं फणिनि निर्भरसुप्तमिमः ॥ १०७॥ मद्रक्षाव्रतकौतुके सुकटके विक्रान्तिकर्णेजपे शार्ङ्गज्याकिणकर्कशिम्नि सुमनस्स्रङ्मोहने मार्दवे । दोर्द्वन्द्वं बहुशः प्रलोभ्य कमलालीलोपधानं भवत् तच्चित्रालकमुद्रितं विजयते श्रीरङ्गसंसङ्गिनः ॥ १०८॥ भवार्तानां वक्त्रामृतसरसि मार्गं दिशदिव स्वयं वक्त्रेणेदं वरदमिति सन्दर्शितमिव । कराम्भोजं पङ्केरुहवनरुषा पाटलमिव श्रयामि श्रीरङ्गेशयितुरुपधानीकृतमहम् ॥ १०९॥ किरीटं श्रीरङ्गेशयितुरुपधानीकृतभुजः विधीशाधीशत्वाद्धटत इति संस्पृश्य वदति । निहीनानां मुख्यं शरणमिति बाहुस्तदितरः स्फुटं ब्रूते पादाम्बुजयुगलमाजानुनिहितः ॥ ११०॥ मलयजशशिलिप्तं मालतीदामतल्पं सुमणिसरवितानं कौस्तुभस्वस्तिदीपम् । दनुजवृषविषाणोल्लेखचित्रं च लक्ष्मी- ललितगृहमुपासे रङ्गसर्वंसहोरः ॥ १११॥ हारस्फारितफेनमंशुलहरीमालर्द्धि मुक्ताफल- श्रेणीशीकरदुर्दिनं तत इतो व्याकीर्णरत्नोत्करम् । आविःकौस्तुभलक्ष्मि रङ्गवसतेर्निस्सीमभूमाद्भुतं वक्षो मन्दरमथ्यमानजलधिश्लाघं विलोकेमहि ॥ ११२॥ वक्षःस्थल्यां तुलसिकमलाकौस्तुभैर्वैजयन्ती सर्वेशत्वं कथयतितरां रङ्गधाम्नस्तदास्ताम् । कूर्मव्याघ्रीनखपरिमिलत्पञ्चहेती यशोदा- नद्धा मौग्ध्याभरणमधिकं नः समाधिं धिनोति ॥ ११३॥ कियान्भरो मम जगदण्डमण्डली- त्यतृप्तितः कृशितमिवोदरं विभोः । रिरक्षिषोचितजगतीपरम्परां परामिव प्रथयति नाभिपङ्कजम् ॥ ११४॥ त्रिविधचिदचिद्वृन्दं तुन्दावलम्बिवलित्रयं विगणयदिवैश्वर्यं व्याख्याति रङ्गमहेशितुः । प्रणतवशतां ब्रूते दामोदरत्वकरः किणः तदुभयगुणाकृष्टं पट्टं किलोदरबन्धनम् ॥ ११५॥ त्रयो देवास्तुल्यास्त्रितयमिदमद्वैतमधिकं त्रिकादस्मात्तत्त्वं परमिति वितर्कान् विघटयन् । विभोर्नाभीपद्मो विधिशिवनिदानं भगवतः तदन्यद्भ्रूभङ्गीपरवदिति सिद्धान्तयति नः ॥ ११६॥ गर्भे कृत्वा गोप्तुमनन्तं जगदन्त- र्मज्जद्भ्रम्या वाञ्छति साम्यं ननु नाभिः । उत्क्षिप्यैतत्प्रेक्षितुमुद्यद्भ्रमिभूयं नाभीपद्मो रंहति रङ्गायतनाब्धेः ॥ ११७॥ मदमिव मधुकैटभस्य रम्भाकरभकरीन्द्रकराभिरूप्यदर्पम् । स्फुटमिव परिभूय गर्वगुर्वोः किमुपमिमीमहि रङ्गकुञ्जरोर्वोः ॥ ११८॥ कटीकान्तिसंवादिचातुर्यनीवीलसद्रत्नकाञ्चीकलापानुलेपम् । महाभ्रं लिहन्मेरुमाणिक्यसानूरिवाभाति पीताम्बरं रङ्गबन्धोः ॥ ११९॥ भर्मस्थलांशुपरिवेष इवाम्बुराशेः सन्ध्याम्बुवाहनिकुरुम्बमिवाम्बरस्य । शम्पाकदम्बकमिवाम्बुमुचो मना नः पीताम्बरं पिबति रङ्गधुरन्धरस्य ॥ १२०॥ वैभूषण्यां कान्तिराङ्गी निमग्ना विष्वद्रीची क्वापि सोन्मादवृत्तिः । जाने जानुद्वन्द्ववार्ताविवर्तो जातः श्रीमद्रङ्गतुङ्गालयस्य ॥ १२१॥ श्रीरङ्गेशयजङ्घे श्रीभूम्यामर्शहर्षकण्टकिते । तत्केलिनलिनमांसलनालद्वयललितमाचरतः ॥ १२२॥ वन्दारुवृन्दारकमौलिमालायुञ्जानचेतः कमलाकरेभ्यः । सङ्क्रन्तरागाविव पादपद्मौ श्रीरङ्गभर्तुर्मनवै नवै च ॥ १२३॥ यद्वृन्दावनपण्डितं दधिरवैर्यत्ताण्डवं शिक्षितं यल्लक्ष्मीकरसौख्यसाक्षि जलजप्रस्पर्धमानर्द्धि यत् । यद्भक्तेष्वजलस्थलज्ञमपि यद्दूत्यप्रसङ्गोत्सुकं तद्विष्णोः परमं पदं वहतु नः श्रीरङ्गिणो मङ्गलम् ॥ १२४॥ शिञ्जानश्रुतिशिञ्जिनीमणिरवैर्वज्रारविन्दध्वज- च्छत्रीकल्पकशङ्खचक्रमुकुरैस्स्तैस्तैश्च रेखामयैः । ऐश्वर्येण जयं त्रिविक्रममुखं घुष्यद्भिराम्रेडितं श्रीरङ्गेशयपादपङ्कजयुगं वन्दामहे सुन्दरम् ॥ १२५॥ पुनानि भुवनान्यहं बहुमुखीति सर्वाङ्गुली झलज्झलितजाह्नवीलहरिवृन्दसन्देहदाः । दिवा निशि च रङ्गिणश्चरणचारुकल्पद्रुम- प्रवालनवमञ्जरीः नखरुचीर्विगाहेमहि ॥ १२६॥ श्रीरङ्गेन्दोः पदकिसलये नीलमञ्जीरमैत्र्या वन्दे वृन्तप्रणयिमधुपव्रातराजीवजैत्रे । नित्याभ्यर्चानतविधिमुखस्तोमसंशय्यमानैः हेमाम्भोजैर्निबिडनिकटे रामसीतोपनीतैः ॥ १२७॥ इति श्रीरङ्गराजस्तवे पूर्वशतकं समाप्तम् । अथ श्रीरङ्गराजस्तवे उत्तरशतकम् । श्रीपराशरभट्टार्यः श्रीरङ्गेशपुरोहितः । श्रीवत्साङ्कसुतः श्रीमान् श्रेयसे मेऽस्तु भूयसे ॥ हर्तुं तमस्सदसती च विवेक्तुमीशो मानं प्रदीपमिव कारुणिको ददाति । तेनावलोक्य कृतिनः परिभुञ्जते तं तत्रैव केऽपि चपलाश्शलभीभवन्ति ॥ १॥ या वेदबाह्याः स्मृतयोऽर्हदादेर्वेदेषु याः काश्च कुदृष्टयः । var कुदृष्टयस्ताः? आगस्कृतां रङ्गनिधे त्वदध्वन्यन्धङ्करण्यः स्मृतवान् मनुस्तत् ॥ २॥ प्रत्यक्षप्रमथनपश्यतोहरत्वा- न्निर्दोषश्रुतिविमतेश्च बाह्यवर्त्म । दुस्तर्कप्रभवतया च वक्तृदोष- स्पृष्ट्या च प्रजहति रङ्गविन्द वृद्धाः ॥ ३॥ अवयवितयेदङ्कुर्वाणैर्बहिष्करणैर्वपु- र्निरवयवकोऽहङ्कारार्हः पुमान् करणातिगः । स्फुरति हि जनाः प्रत्यासत्तेरिमौ न विविञ्चते तदधिकुरुतां शास्त्रं रङ्गेश ते परलोकिनि ॥ ४॥ प्रत्यक्षा श्रुतिरर्थधीश्च न तथा दोषस्तदर्थः पुनर्धर्माधर्मपरावरेश्वरमुखः प्रत्यक्षबाध्यो न च । तच्चार्वाकमतेऽपि रङ्गरमण प्रत्यक्षवत् सा प्रमा योगोन्मीलितधीस्तदर्थमथवा प्रत्यक्षमीक्षेत सः ॥ ५॥ न सदसदुभयं वा नोभयस्माद्बहिर्वा जगदिति न किलैकां कोटिमाटीकते तत् । इति निरुपधि सर्वं सर्विकातो निषेधन् वरद सुगतपाशश्चोरलावं विलाव्यः ॥ ६॥ प्रतीतिश्चेदिष्टा न निखिलनिषेधो यदि न को निषेद्धाऽतो नेष्टो निरुपधिनिषेधस्सदुपधौ । निषेधेऽन्यत्सिध्येद्वरद घटभङ्गे शकलवत् प्रमाशून्ये पक्षे श्रुतिरपि मतेऽस्मिन्विजयताम् ॥ ७॥ योगाचारो जगदपलपत्यत्र सौत्रान्तिकस्त- द्धीवैचित्र्यादनुमितिपदं वक्ति वैभाषिकस्तु । प्रत्यक्षं तत्क्षणिकयति ते रङ्गनाथ त्रयोऽपि ज्ञानात्मत्वक्षणभिदुरते चक्षते तान् क्षिपामः ॥ ८॥ जगद्भङ्कुरं भङ्गुरा बुद्धिरात्मेत्यसद्वेत्त्रभावे तथा वेद्यवित्त्योः । क्षणध्वंसतश्च स्मृतिप्रत्यभिज्ञादरिद्रं जगत्स्यादिदं रङ्गचन्द्र ॥ ९॥ अहमिदमभिवेद्मीत्यात्मवित्त्योर्विभेदे स्फुरति यदि तदैक्यं बाह्यमप्येकमस्तु । प्रमितिरपि मृषा स्यान्मेयमिथ्यात्ववादे यदि तदपि सहेरन् दीर्घमस्मन्मतायुः ॥ १०॥ एतद्रामास्त्रं दलयतु कलिर्ब्रह्ममीमांसकांश्च ज्ञप्तिर्ब्रह्मैतज्ज्वलदपि निजाविद्यया बम्भ्रमीति । तस्य भ्रान्तिं तां श्लथयति जिताद्वैतविद्यस्तु जीवो यद्यद्दृश्यं तद्वितथमिति ये ज्ञापयाञ्चक्रुरज्ञाः ॥ ११॥ अङ्गीकृत्य तु सप्तभङ्गिकुसृतिं स्यादस्तिनास्त्यात्मिकां विश्वं त्वद्विभवं जगज्जिनमते नैकान्तमाचक्षते । भिन्नाभिन्नमिदं तथा जगदुषे वन्ध्या ममाम्बेतिव- न्नूत्नब्रह्मविदे रहः परमिदं रङ्गेन्द्र ते चक्षताम् ॥ १२॥ कणचरचरणाक्षौ भिक्षमाणौ कुतर्कैः श्रुतिशिरसि सुभिक्षं त्वज्जगत्कारणत्वम् । अणुषु विपरिणाम्य व्योमपूर्वं च कार्यं तव भवदनपेक्षं रङ्गभर्तर्ब्रुवाते ॥ १३॥ वेदे कर्त्राद्यभावाद्बलवति हि नयैस्त्वन्मुखे नीयमाने तन्मूलत्वेन मानं तदितरदखिलं जायते रङ्गधामन् तस्मात्साङ्ख्यं सयोगं सपशुपतिमतं कुत्रचित्पञ्चरात्रं सर्वत्रैव प्रमाणं तदिदमवगतं पञ्चमादेव वेदात् ॥ १४॥ सञ्चष्टे नेश्वरं त्वां पुरुषपरिषदि न्यस्य यद्वाऽऽन्यपर्यात् साङ्ख्यो योगी च काक्वा प्रतिफलनमिवैश्वर्यमूचे कयाचित् । भिक्षौ शैवस्सुराजम्भवमभिमनुते रङ्गराजातिरागात् त्वां त्वामेवाभ्यधास्त्वं ननु परविभवव्यूहनाढ्यम्भविष्णुम् ॥ १५॥ इति मोहनवर्त्मना/वर्ष्मणा त्वयाऽपि ग्रथितं बाह्यमतं तृणाय मन्ये । अथ वैदिकवर्मवर्मितानां मनिताहे कुदृशां किमीश वर्त्म ॥ १६॥ संस्कारं प्रतिसञ्चरेषु निदधत्सर्गेसु तत्स्मारितं रूपं नाम च तत्तदर्हनिवहे व्याकृत्य रङ्गास्पद । सुप्तोद्बुद्धविरिञ्चपूर्वजनतामध्याप्य तत्तद्धितं शासन्नस्मृतकर्तृकान् वहसि यद्वेदाः प्रमाणं ततः ॥ १७॥ शीक्षायां वर्णशिक्षा पदसमधिगमो व्याक्रियानिर्वचोभ्यां छन्दश्छन्दश्चितौ स्याद्गमयति समयं ज्यौतिषं रङ्गनाथ । कल्पेऽनुष्ठानमुक्तं ह्युचितगमितयोर्न्यायमीमांसयोस्स्यात् अर्थव्यक्तिः पुराणस्मृतिषु तदनुगास्त्वां विचिन्वन्ति वेदाः ॥ १८॥ आदौ वेदाः प्रमाणं स्मृतिरुपकुरुते सेतिहासैः पुराणैः न्यायैस्सार्धं त्वदर्चाविधिमुपरि परक्षीयते पूर्वभागः । ऊर्ध्वो भागत्स्वदीहागुणविभवपरिज्ञापनैस्त्वत्पदाप्तौ वेद्यो वेदैश्च सर्वैरहमिति भगवन् स्वेन च व्याचकर्थ ॥ १९॥ क्रिया तच्छक्तिर्वा किमपि तदपूर्वं पितृसुर- प्रसादो वा कर्तुः फलद इति रङ्गेश कुदृशः । त्वदर्चेष्टापूर्ते फलमपि भवत्प्रीतिजमिति त्रयीवृद्धास्तत्तद्विधिरपि भवत्प्रेरणमिति ॥ २०॥ आज्ञा ते सनिमित्तनित्यविधयः स्वर्गादिकाम्यद्विधिः सोऽनुज्ञा शठचित्तशास्त्रवशतोपायोऽभिचारश्रुतिः । सर्वीयस्य समस्तशासितुरहो श्रीरङ्गसर्वस्व ते रक्षाकूतनिवेदिनी श्रुतिरसौ त्वन्नित्यशास्तिस्ततः ॥ २१॥ अत्रास्ते निधिरितिवत्पुमर्थभूते सिद्धार्था अपि गुणरूपवृत्तवादाः । रङ्गेश त्वयि सकलास्समन्वयन्ते नोपासाफलविधिभिर्विशेष एषाम् ॥ २२॥ देहो देहिनि कारणे विकृतयो जातिर्गुणाः कर्म च द्रव्ये निष्ठितरूपबुद्धिवचनास्तात्स्थ्यात् तथेदं जगत् । विश्वं त्वय्यभिमन्यसे जगदिषे तेनाद्वितीयस्ततः मायोपाधिविकारसङ्करकथा का नाम रङ्गेश्वर ॥ २३॥ स्थित्युत्पत्तिप्रवृत्तिग्रसननियमनव्यापनैरात्मनस्ते शेषोऽशेषः प्रपञ्चो वपुरिति भवतस्तस्य चाभेदवादाः । सर्वं खल्वैतदात्म्यं सकलमिदमहं तत्त्वमस्येवमाद्याः व्याख्याता रङ्गधामप्रवण विजयिभिर्वैदिकैस्सार्वभौमैः ॥ २४॥ सराजकमराजकं पुनरनेकराजं तथा यथाभिमतराजकं जगदिदं जजल्पुर्जडाः । जगाववशचित्रतातरतमत्वतर्काङ्गिका श्रुतिश्चिदचिती त्वया वरद नित्यराजन्वती ॥ २५॥ ब्रह्माद्यास्सृज्यवर्गे भ्रुकुटिभटतयोद्घाटिता नावतार- प्रस्तावे तेन न त्वं न च तव सदृशा विश्वमेकातपत्रम् । लक्ष्मीनेत्रा त्वयेति श्रुतिमुनिवचनैस्त्वत्परैरर्पयामः श्रीरङ्गाम्भोधिचन्द्रोदय जलमुचितं वादिकौतस्कुतेभ्यः ॥ २६॥ दोषोपधावधिसमातिशयानसङ्ख्या निर्लेपमङ्गलगुणौघदुघाष्षडेताः । ज्ञानैश्वरीशकनवीर्यबलार्चिषस्त्वां रङ्गेश भास इव रत्नमनर्घयन्ति ॥ २७॥ युगपदनिशमक्षैः स्वैः स्वतो वाऽऽक्षकार्ये नियममनियमं वा प्राप्य रङ्गाधिराज । करतलवदशेषं पश्यसि स्वप्रकाशं तदवरणममोघं ज्ञानमाम्नासिषुस्ते ॥ २८॥ नयनश्रवणो दृशा श‍ृणोषि अथ ते रङ्गपते महेशितुः । करणैरपि कामकारिणः घटते सर्वपथीनमीक्षणम् ॥ २९॥ सार्वज्ञ्येनाज्ञमूलं जगदभिदधतो वारितास्साक्षिमात्रात् साङ्ख्योक्तात्कारणं त्वां परयति भगवन्नैश्वरी रङ्गशायिन् अप्रेर्योऽन्यैः स्वतन्त्रोऽप्रतिहति सदसत्कर्मचैत्र्या विचित्रं यत्रेच्छालेशतस्त्वं युगपदगणयन् विश्वमाविश्चकर्थ ॥ ३०॥ कार्येऽनन्ते स्वतनुमुखतस्त्वामुपादानमाहुः सा ते शक्तिस्सुकरमितरच्चेति वेलां विलङ्घ्य । इच्छा यावद्विहरति सदा रङ्गराजानपेक्षा सैवैशानादतिशयकरि सोर्णनाभौ विभाव्या ॥ ३१॥ स्वमहिमस्थितिरीश भृशक्रियोऽप्यकलितश्रम एव बिभर्षि यत् । वपुरिव स्वमशेषमिदं बलं तव पराश्रितकारणवारणम् ॥ ३२॥ मृगनाभिगन्ध इव यत्सकलार्थान् निजसन्निधेरविकृतो विकृणोषि । प्रियरङ्ग वीर्यमिति तत्तु वदन्ते सविकारकारणमितो विनिवार्यम् ॥ ३३॥ सहकार्यपेक्षमपि हातुमिह तदनपेक्षकर्तृता । रङ्गधन जयति तेज इति प्रणतार्तिजित् प्रतिभटाभिभावुकम् ॥ ३४॥ मर्त्यौत्थायं विरिञ्चावधिकमुपरि चोत्प्रेक्ष्य मीमांसमाना रङ्गेन्द्रानन्दवल्ली तव गुणनिवहं यौवनानन्दपूर्वम् । न स्वार्थं स्प्रष्टुमीष्टे स्खलति पथि परं मूकलायं निलिल्ये हन्तैवं त्वद्गुणानामवधिगणनयोः का कथा चित्तवाचोः ॥ ३५॥ न्यधायिषत ये गुणा निधिनिधायमारण्यकेष्वमी म्रदिमचातुरीप्रणतचापलक्षान्तयः । दयाविजयसौन्दरीप्रभृतयोऽपि रत्नौघवत् जगद्व्यवहृतिक्षमा वरद रङ्गरत्नापणे ॥ ३६॥ यमाश्रित्यैवात्मम्भरय इव ते सद्गुणगणाः प्रथन्ते सोऽनन्तस्ववशघनशान्तोदितदशः । त्वमेव त्वां वेत्थ स्तिमितवितरङ्गं वरद भोः स्वसंवेद्यस्वात्मद्वयसबहुलानन्दभरितम् ॥ ३७॥ आघ्रायेश्वरगन्धमीशसदृशं मन्यास्तवेन्द्रादयो मुह्यन्ति त्वमनाविलो निरवधेर्भूम्नः कणेहत्य यत् । चित्रीयेमहि नात्र रङ्गरसिक त्वं त्वन्महिम्नः परः वैपुल्यान्महितः स्वभाव इति वा किन्नाम सात्म्यं न ते ॥ ३८॥ षाड्गुण्याद्वासुदेवः पर इति स भवान् मुक्तभोग्यो बलाढ्यात् बोधात् सङ्कर्षणस्त्वं हरति वितनुषे शास्त्रमैश्वर्यवीर्यात् । प्रद्युम्नस्सर्गधर्मौ नयसि च भगवञ्च्छक्तितेजोऽनिरुद्धः बिभ्राणः पासि तत्त्वं गमयसि च तथा व्यूह्य रङ्गाधिराज ॥ ३९॥ जाग्रत्स्वप्नात्यलसतुरीयप्रायध्यातृक्रमवदुपास्यः । स्वामिंस्तत्तत्सहपरिबर्हः चातुर्व्यूहं वहसि चतुर्धा ॥ ४०॥ अचिदविशेषितान् प्रलयसीमनि संसरतः करणकळेबरैर्घटयितुं दयमानमनाः । वरद निजेच्छयैव परवानकरोः प्रकृतिं महदभिमानभूतकरणावलिकोरकिणीम् ॥ ४१॥ निम्नोन्नतं च करुणं च जगद्विचित्रं कर्म व्यपेक्ष्य स्र्जतस्तव रङ्गशेषिन् । वैषम्यनिर्घृणतयोर्न खलु प्रसक्तिः तद्ब्रह्मसूत्रसचिवाः श्रुतयो गृणन्ति ॥ ४२॥ स्वाधीने सहकारिकारणगणे कर्तुश्शरीरेऽथवा भोक्तुः स्वानुविधापराधविधयोः राज्ञो यथा शासितुः । दातुर्वाऽर्थिजने कटाक्षाणमिव श्रीरङ्गसर्वस्व ते स्रष्टुस्सृज्यदशाव्यपेक्षणमपि स्वातन्त्र्यमेवावहेत् ॥ ४३॥ प्रलयसमयसुप्तं स्वं शरीरैकदेशं वरद चिदचिदाख्यं स्वेच्छया विस्तृणानः । खचितमिव कलापं चित्रमातत्य धून्वन् अनुशिखिनि शिखीव क्रीडसि श्रीसमक्षम् ॥ ४४॥ भूयो भूयस्त्वयि हितपरेऽप्युत्पथानात्मनीन- स्रोतोमग्नानपि पथि नयंस्त्वं दुराशावशेन । रुग्णे तोके स्व इव जननि तत्कषायं पिबन्ती तत्तद्वर्णश्रमविधिवशः क्लिश्यसे रङ्गराज ॥ ४५॥ सार्व त्वत्कं सकलचरितं रङ्गधामन् दुराशा- पाशेभ्यस्स्यान्न यथि जगतां जातु मूर्खोत्तराणाम् । निस्तन्द्रालोस्तव नियमतो नर्तुलिङ्गप्रवाहा सर्गस्थेमप्रभृतिषु सदाजागरा जाघटीति ॥ ४६॥ सुहृदिव निगलाद्यैरुन्मदिष्णुं नृशंसं त्वमपि निरयपूर्वैर्दण्दयन् रङ्गनेतः । तदितरमपि बाधात्त्रायसे भोगमोक्ष- प्रदिरपि तव दण्डापूपिकातस्सुहृत्त्वम् ॥ ४७॥ धृतिनियमनरक्षावीक्षणैश्शास्त्रदान- प्रमृतिभिरचिकित्स्यान् प्राणिनः प्रेक्ष्य भूयः । सुरमनुजतिरश्चां सर्वथा तुल्यधर्मा त्वमवतरसि देवोऽजोऽपि सन्नव्ययात्मा ॥ ४८॥ अनुजनुरनुरूपरूपचेष्टा न यदि समागममिन्दिराऽकरिष्यत् । असरसमथवाऽप्रियम्भविष्णु ध्रुवमकरिष्यत रङ्गराजनर्म ॥ ४९॥ गरीयस्त्वं परिजानन्ति धीराः परं भावं मनुजत्वादिभूष्णुम् । अजानन्तस्त्ववजानन्ति मूढाः जनिघ्नं ते भगवञ्जन्म कर्म ॥ ५०॥ मध्येविरिञ्चगिरिशं प्रथमावतारः तत्साम्यतः स्थगयितुं तव चेत्स्वरूपम् । किं ते परत्वपिशुनैरिह रङ्गधामन् सत्त्वप्रवर्तनकृपापरिपालनाद्यैः ॥ ५१॥ मधुः कैटभश्चेति रोधं विधूय त्रयीदिव्यचक्षुर्विधातुर्विधाय । स्मरस्यङ्ग रङ्गिस्तुरङ्गावतारः समस्तं जगज्जीवयिष्यस्यकस्मात् ॥ ५२॥ रङ्गधे तिमिरघस्मरशीतस्वच्छहंसतनुरिन्दुरिवोद्यन् । वेदभाभिरनुजग्रहिथाऽऽर्तान् ज्ञानयज्ञसुधयैव समृद्ध्यन् ॥ ५३॥ वटदलमधिशय्य रङ्गधामन् शयित इवार्णवतर्णकः पदाब्जम् । अधिमुखमुदरे जगन्ति मातुं निदधिथ वैष्णवभोग्यलिप्सया वा ॥ ५४॥ उन्मूल्याहर मन्दराद्रिमहिना तं सम्बधानामुना दोर्भिश्चञ्चलमालिकैश्च दधिनिर्माथं मथानाम्बुधिम् । श्रीरङ्गेश्वर चन्द्रकौस्तुभसुधापूर्वं गृहाणेति ते कुर्वाणस्य फलेग्रहिर्हि कमलालाभेन सर्वः श्रमः ॥ ५५॥ देवीहस्ताम्बुजेभ्यश्चरणकिसलये संवहद्भ्योऽपहृत्य प्रत्यस्यानन्तभोगं झतिति चलपुटे चक्षुषि विस्तृणानः । आक्षिप्योरश्च लक्ष्म्याः स्तनकलशकनत्कुङ्कुमस्तोमपङ्का- द्देवः श्रीरङ्गधामा गजपतिघुषिते व्याकुलः स्तात् पुरो नः ॥ ५६॥ अतन्त्रितचमूपतिप्रहितहस्तमस्वीकृत प्रणीतमणिपादुकं किमिति चाकुलान्तः पुरम् । अवाहनपरिष्क्रियं पतगराजमारोहतः करिप्रवरबृम्हिते भगवतस्त्वरायै नमः ॥ ५७॥ यं पश्यन्विश्वधुर्यां धियमसकृदथो मन्थरां मन्यमानः हुङ्कारास्फालनाङ्घ्रिप्रहतिभिरपि तं तार्क्ष्यमध्यक्षिपस्त्वम् । किञ्चोदञ्चन्नुदस्थास्तमथ गजपतेर्बृम्हिते जृम्भमाणे देव श्रीरङ्गबन्धो प्रणमति हि जने कान्दिशीकी दशा ते ॥ ५८॥ श्रीरङ्गेशय शरणं ममासि वात्याव्यालोलत्कमलतटाकताण्डवेन । स्रग्भूषाम्बरमयथायथं दधानः धिङ्मामित्यनुगजगर्जमाजगन्थ ॥ ५९॥ मीनतनुस्त्वं नावि निधाय स्थिरचरपरिकरमनुमनु भगवन् वेदसनाभिस्वोक्तिविनौदैरकलितलयभयलवममुमवहः ॥ ६०॥ श्रीनयनाभोद्भासुरदीर्घप्रविपुलसुरुचिरशुचिशिशिरवपुः । पक्षनिगीर्णोद्गीर्णमहाब्धिस्थलजलविहरणरतगतिरचरः ॥ ६१॥ चकर्थ श्रीरङ्गिन्निखिलजगदाधारकमठो भवन् धर्मान् कूर्मः पुनरमृतमन्थाचलधरः । जगन्थ श्रेयस्त्वं मरकतशिलापीठललितं जलादुद्यल्लक्ष्मीपदकिसलयन्याससुलभम् ॥ ६२॥ हृदि सुररिपोर्दंष्ट्रोत्खाते क्षिपन् प्रलयार्णवं क्षितिकुचतटीमर्चन् दैत्यास्रकुङ्कुमचर्चया । स्फुटधुतसटाभ्राम्यद्ब्रह्मस्तवोन्मुखबृम्हितः शरणमसि मे रङ्गिस्त्वं मूलकोलतनुर्भवन् ॥ ६३॥ नृहरिदशयोः पश्यन्नौत्पत्तिकं घटनाद्भुतं नरमुत हरिं दृष्ट्वैकैकं समुद्विजते जनः । इति किल सिताक्षीरन्यायेन सङ्गमिताङ्गकं स्फुटसटमहादम्ष्ट्रं रङ्गेन्द्रसिम्हमुपास्महे ॥ ६४॥ द्विषाणद्वेषोद्यन्नयनवनवह्निप्रशमन भ्रमल्लक्ष्मीवक्त्रप्रहितमधुगण्डूषसुषमैः नखक्षुण्णारातिक्षतजपटलैराप्लुतसटा- च्छटास्कन्धो रुन्धे दुरितमिह पुंस्पञ्चवदनः ॥ ६५॥ नखाग्रग्रस्तेऽपि द्विषति निजभक्तद्रुहि रूषः प्रकर्षाद्विष्णुत्वद्विगुणपरिणाहोत्कटतनुः । विरुद्धे वैयग्रीसुघटितसमानाधिकरणे नृसिंहत्वे बिभ्रद्वरद बिभरामासिथ जगत् ॥ ६६॥ दैत्यौदार्येन्द्रयाच्ञाविहतिमपनयन् वामनोऽर्थी त्वमासीः विक्रान्ते पादपद्मे त्रिजगदणुसमं पांसुलीकृत्य लिल्ये । नाभीपद्मश्च मानक्षममिव भुवनग्राममन्यं सिसृक्षुः तस्थौ रङ्गेन्द्र वृत्ते तव जयमुखरो दिण्डिमस्तत्र वेदः ॥ ६७॥ भवान् रामो भूत्वा परशुपरिकर्मा भृगुकुला- दलावीद्भूपालान् पितृगणमतार्प्सीत्तदसृजा । भुवो भाराक्रान्तं लघु तलमुपाचीक्लृपदिति द्विषामुग्रम्पश्योऽप्यनघ मम मा जीगणदघम् ॥ ६८॥ मनुजसमयं कृत्वा नाथावतेरिथ पद्मया क्वचन विपिने सा चेदन्तर्धिनर्म विनिर्ममे । किमथ जलधिं बध्वा रक्षो विधीशवरोद्धतं बलिमुखकुलोच्छिष्टं कुर्वन् रिपुं निरपत्रयः ॥ ६९॥ ॥॥।त्रपः? यद्यूते विजयापदानगणना कालिङ्गदन्ताङ्कुरैः यद्विश्लेषलवोऽपि कालियभुवे कोलाहलायाभवत् । दूत्येनापि च यस्य गोपवनिताः कृष्णागसां व्यस्मरन् तं त्वां क्षेमकृषीबलं हलधरं रङ्गेश भक्तास्महे ॥ ७०॥ आकण्ठवारिभरमन्थरमेघदेश्यं पीताम्बरं कमललोचनपञ्चहेति । ब्रह्म स्तनन्धयमयाचत देवकी त्वां श्रीरङ्गकान्त सुतकाम्यति काऽपरैवम् ॥ ७१॥ शैलोऽग्निश्च जलाम्बभूव मुनयो मूढाम्बभूवुर्जडाः प्राज्ञामासुरगास्सगोपममृतामासुर्महाशीविषाः । गोव्याघ्रास्सहजाम्बभूवुरपरे त्वन्याम्बभूवुः प्रभो त्वं तेष्वन्यतमाम्बभूविथ भवद्वेणुक्वणोन्माथने ॥ ७२॥ कल्कितनुर्धरणीं लघयिष्यन् कलिकलुषान् विलुनासि पुरा त्वम् । रङ्गनिकेत लुनीहि लुनीहीत्यखिलमरुन्तुदमद्य लुनीहि ॥ ७३॥ आस्तां ते गुणराशिवद्गुणपरीवाहात्मनां जन्मनां सङ्ख्या भौमनिकेतनेष्वपि कुटीकुञ्जेशू रङ्गेश्वर । अर्च्यस्सर्वसहिष्णुरर्चकपराधीनाखिलात्मस्थितिः प्रीणीषे हृदयालुभिस्तव ततश्शीलाज्जडीभूयते ॥ ७४॥ श्रीमद्व्योम नसीम वाङ्मनसयोस्सर्वेऽवताराः क्वचित् काले विश्वजनीनमेतदितिधीः श्रीरङ्गधामन्यथ । आर्तस्वागतिकैः कृपाकलुषितैरालोकितैरार्द्रयन् विश्वत्राणविमर्शनस्खलितया निद्रासि जागर्यया ॥ ७५॥ सर्गाभ्यासविशालया निजधिया जानन्ननन्तेशयं भारत्या सहधर्मचाररतया स्वाधीनसङ्कीर्तनः । कल्पानेव बहून् कमण्डलुगलद्गङ्गाप्लुतोऽपूजय- द्ब्रह्मा त्वां मुखलोचनाञ्जलिपुटैः पद्मैरिवाऽवर्जितैः ॥ ७६॥ मनुकुलमहीपालव्यानम्रमौलिपरम्परा- मणिमकरिकारोचिर्नीराजिताङ्घ्रिसरोरुहः । स्वयमथ विभो स्वेन श्रीरङ्गधामनि मैथिली- रमणवपुषा स्वार्हाण्याराधनान्यसि लम्भितः ॥ ७७॥ मन्वन्ववाये द्रुहिणे च धन्ये विभीषणेनैव पुरस्कृतेन । गुणैर्दरिद्राणमिमं जनं त्वं मध्येसरिन्नाथ सुखाकरोषि ॥ ७८॥ तेजः परं तत्सवितुर्वरेण्यं धाम्ना परेणाप्रणखात्सुवर्णाम् । त्वां पुण्डरीकेक्षणमामनन्ति श्रीरङ्गनाथं तमुपासिषीय ॥ ७९॥ आत्माऽस्य गन्तुः परितस्थुषश्च मित्रस्य चक्षुर्वरुणस्य चाग्नेः । लक्ष्म्या सहौत्पत्तिकगाढबन्धं पश्येम रङ्गे शरदश्शतं त्वाम् ॥ ८०॥ यस्यास्मि पत्युर्न तमन्तरेमि श्रीरङ्गतुङ्गायतने शयानम् । स्वभावदास्येन च योऽहमस्मि स सन् यजे ज्ञानमयैर्मखैस्तम् ॥ ८१॥ आयुः प्रजानाममृतं सुराणां रङ्गेश्वरं त्वां शरणं प्रपद्ये । मां ब्रह्मणेऽस्मै महसे तदर्थं प्रत्यञ्चमेनं युनजै परस्मै ॥ ८२॥ आर्तिं तितीर्षुरथ रङ्गपते धनायन् आत्मम्भरिर्विविदिषुर्निजदास्यकाम्यन् । ज्ञानीत्यमून् सममथास्सममत्युदारान् गीतासु देव भवदाश्रयणोपकारान् ॥ ८३॥ नित्यं काम्यं परमपि कतिचित्त्वय्यध्यात्मस्वमतिभिरममाः । न्यस्यासङ्गा विदधति विहितं श्रीरङ्गेन्दो विदधति न च ते ॥ ८४॥ प्रत्यञ्चं स्वं पञ्चविंशं पराचस्सञ्चक्षाणास्तत्त्वराशेर्विविच्य । युञ्जानाश्चर्तम्भरायां स्वबुद्धौ स्वं वा त्वां वा रङ्गनाथाऽप्नुवन्ति ॥ ८५॥ अथ मृदितकषायाः केचिदाजानदास्य- त्वरितशिथिलचित्ताः कीर्तिचिन्तानमस्याः । विदधति ननु पारं भक्तिनिघ्ना लभन्ते त्वयि किल ततमे त्वं तेषु रङ्गेन्द्र किं तत् ॥ ८६॥ उपादत्ते सत्तास्थितिनियमनाद्यैश्चिदचितौ स्वमुद्दिश्य श्रीमानिति वदति वागौपनिषदी । उपायोपेयत्वे तदिह तव तत्त्वं न तु गुणा- वतस्त्वां श्रीरङ्गेशय शरणमव्याजमभजम् ॥ ८७॥ पटुनैकवराटिकेव क्लृप्ता स्थलयोः काकणिकासुवर्णकोट्योः । भवमोक्षणयोस्त्वयैव जन्तुः क्रियते रङ्गनिधे त्वमेव पाहि ॥ ८८॥ ज्ञानक्रियाभजनसम्पदकिञ्चनोऽह- मिच्छाधिकारशकनानुशयानभिज्ञः । रङ्गेश पूर्णवृनश्शरणं भवेति मौख्याद्ब्रवीमि मनसा विषयाकुलेन ॥ ८९॥ त्वयि सति पुरुसाहर्थे मत्परे चाहमात्म- क्षयकरकुहनार्थाञ्छ्रद्दधद्रङ्गचन्द्र । जनमखिलमहम्युर्वञ्चयामि त्वदात्म- प्रतिमभवदनन्यज्ञानिवद्देशिकस्सन् ॥ ९०॥ अतिक्रामन्नाज्ञां तव विधिनिषेधेषु भवतेऽपि अभिद्रुह्यन्वाग्धीकृतिभिरपि भक्ताय सततम् । अजानन् जानन् वा भवदसहनीयागसि रत- स्सहिष्णुत्वाद्रङ्गप्रवण तव माभूवमभरः ॥ ९१॥ प्रकुपितभुजगफणानामिव विषयाणमहं छायाम् । सति तव भुजसुरविटपिप्रच्छाये रङ्गजीवित भजामि ॥ ९२॥ त्वत्सर्वशक्तेरधिकाऽस्मदादेः कीटस्य शक्तिर्बत रङ्गबन्धो । यत्त्वत्कृपामप्यतिकोशकारन्यायादसौ नश्यति जीवनाशम् ॥ ९३॥ श्रीरङ्गेश त्वद्गुणानामिवास्मद्दोषाणां कः पारदृश्वा यतोऽहम् । ओघे मोघोदन्यवत्त्वद्गुणानां तृष्णापूरं वर्षतां नास्मि पात्रम् ॥ ९४॥ त्वं चेन्मनुष्यादिषु जायमानस्तत्कर्मपाकं कृपयोपभुङ्क्षे । श्रीरङ्गशायिन् कुशलेतराभ्यां भूयोऽभिभूयेमहि कस्य हेतोः ॥ ९५॥ क्षमा सापरधेऽनुतापिन्युपेया कथं सापराधेऽपि दृप्ते मयि स्यात् । तथाप्यत्र रङ्गाधिनाथानुतापव्यपायं क्षमेतातिवेला क्षमा ते ॥ ९६॥ बलिभुजि शिशुपाले तादृगागस्करे वा गुनलवसहवासात्त्वत्क्षमा सङ्कुचन्ती । मयि गुणपरमाणूदन्तचिन्तानभिज्ञे विहरतु वरदासौ सर्वदा सार्वभौमी ॥ ९७॥ दया परव्यसनहरा भवव्यथा सुखायते मम तदहं दयातिगः । तथाऽप्यसौ सुखयति दुःखमित्यतः दयस्व मां गुणमय रङ्गमन्दिर ॥ ९८॥ गर्भजन्मजरामृतिक्लेशकर्मषडूर्मिगः । श्वेव देववषट्कृतं त्वां श्रियोऽर्हमकामये ॥ ९९॥ अनुकृत्य पूर्वपुम्सः रङ्गनिधे विनयडम्भतोऽमुष्मात् । शुन इव मम वरमृद्धेः उपभोगस्त्वद्वितीर्णायाः ॥ १००॥ सकृत्प्रपन्नाय तवाहमस्मीत्यायाचते चाभयदीक्षमाणम् । त्वामप्यपास्याहमहम्भवामि रङ्गेश विस्रम्भविवेकरेकात् ॥ १०१॥ तव भरोऽहमकारिषि धार्मिकैश्शरणमित्यपि वाचमुदैरिरम् । इति ससाक्षिकयन्निदमद्य मां कुरु भरं तव रङ्गधुरन्धर ॥ १०२॥ दयाऽन्येषां दुःखाप्रसहनमनन्योऽसि सकलैः दयालुस्त्वं नातः प्रणमदपराधानविदुषः । क्षमा ते रङ्गेन्दो भवति न तरां नाथ न तमां तवौदार्यं यस्मात्तव विभवमर्थिस्वममथाः ॥ १०३॥ गुणतुङ्गतया तव रङ्गपते भृशनिम्नमिमं जनमुन्नमय । यदपेक्ष्यमपेक्षितुरस्य हि तत्परिपूरणमीशितुरीश्वरता ॥ १०४॥ त्वं मीनपानीयनयेन कर्मधीभक्तिवैराग्यजुषो विभर्षि । रङ्गेश मां पासि मितम्पचं यत्पानीयशालं मरुभूषु तत्स्यात् ॥ १०५॥ इति श्री रङ्गराजस्तवे उत्तरशतकं समाप्तम् । इति श्रीपराशरभट्टविरचितं श्रीरङ्गराजस्तवं सम्पूर्णम् ।