अक्षर आकार:

श्रीरङ्गनाथस्तोत्रम्

Shri Ranganathastotram

श्रीरङ्गनाथस्तोत्रम्

पराशरभट्टकृतम् । श्रीरङ्गक्षेत्रे सप्तप्राकारमध्ये सरसिजमुकुलोद्भासमाने विमाने कावेरीमध्यदेशे मृदुतरफणिराड्भोगिपर्यङ्कभागे । निद्रामुद्राभिरामं कटिनिकटशिरःपार्श्वविन्यस्तहस्तं पद्माधात्रीकराभ्यां परिचितचरणं रङ्गराजं भजेऽहम् ॥ १॥ कस्तूरीकलितोर्ध्वपुण्ड्रतिलकं कर्णान्तलोलेक्षणं मुग्धस्मेरमनोहराधरदलं मुक्ताकिरीटोज्ज्वलम् । पश्यन्मानसपश्यतोहररुचिं पर्यायपङ्केरुहं श्रीरङ्गाधिपतेः कदा नु वदनं सेवेय भूयोऽप्यहम् ॥ २॥ कदाऽहं कावेरीतटपरिसरे रङ्गनगरे शयानं भोगीन्द्रे शतमखमणिश्यामळरचिम् । उपासीनः क्रोशन्मधुमथन नारायण हरे मुरारे गोविन्देत्यनिशमनुनेष्यामि दिवसान् ॥ ३॥ कदाहं कावेरीविमलसलिले वीतकलुषो भवेयं तत्तीरे श्रममुषि वसेयं घनवने । कदा वा तत्पुण्ये महति पुळिने मङ्गलगुणं भजेयं रङ्गेशं कमलनयनं शेषशयनम् ॥ ४॥ पूगीकण्ठद्वयससरसस्निग्धनीरोपकण्ठां आविर्मोदस्तमितशकुनानूदितब्रह्मघोषाम् । मार्गे मार्गे पथिकनिवहैरुञ्च्यमानापवर्गां पश्येयं तां पुनरपि पुरीं श्रीमतीं रङ्गधाम्नः ॥ ५॥ स जातु पीतामृतमूर्छितानां नाकौकसां नन्दनवाटिकासु । रङ्गेश्वर त्वत्पुरमाश्रितानां रथ्याशुनामन्यतमो भवेयम् ॥ ६॥ श्रीरङ्गं करिशैलमञ्जनगिरिं तार्क्ष्याद्रिसिंहाचलौ श्रीकूर्मं पुरुषोत्तमं च बदरीनारायणं नैमिशम् । श्रीमद्वारवतीं प्रयागमधुरायोध्यागयाः पुष्करं सालग्रामगिरिं निषेव्य रमते रामानुजोऽयं मुनिः ॥ ७॥ असन्निकृष्टस्य निकृष्टजन्तोर्मिथ्यापवादेन करोषि शान्तिम् । ततो निकृष्टे मयि सन्निकृष्टे कां निष्कृतिं रङ्गपते करोषि ॥ ८॥ इति पराशरभट्टकृतं श्रीरङ्गनाथस्तोत्रं सम्पूर्णम् ।