अक्षर आकार:

श्रीरङ्गनाथस्तवः

Shri Ranganathastavah

श्रीरङ्गनाथस्तवः

(श्रीरङ्गक्षेत्रे) क्षीराम्भोधिलसत्फणीन्द्रफलके कामं सदा शायिनी किं चाम्भोजभवस्य भीतिहतये घ्नन्ती मधुं कैटभम् । लक्ष्म्युत्सङ्गलसत्पदाब्जयुगलीकारुण्यवारान्निधिः मुद्रा काचन मुक्तिदानकुशला निद्राति जागर्ति वा ॥ इति श्रीश‍ृङ्गेरी जगद्गुरु श्रीसदाशिवाभिनवनृसिंहभारती- श्रीपादैः कृतः श्रीरङ्गनाथस्तवः सम्पूर्णः ।