अक्षर आकार:

श्रीरङ्गनाथपञ्चकं स्तोत्रम्

Shri Ranganatha Panchakam Stotram

श्रीरङ्गनाथपञ्चकं स्तोत्रम्

कदाहं कावेरीतटपरिसरे रङ्गनगरे शयानं भोगीन्द्रे शतमखमणिश्श्यामलरुचिम् । उपासीनः क्रोशन्मधुमथननारायण हरे मुरारे गोविन्देत्यनिशमनुनेष्यमि दिवसान् ॥ १॥ कदाहं कावेरीविमलसलिले वीतकलुषो भवेयं तत्तीरे श्रममुषि वसेयं घनवने । कदा वा तत्पुण्ये महति पुलिने मङ्गलगुणं भजेयं रङ्गेशं कमलनयनं शेषशयनम् ॥ २॥ पूगीकण्ठद्वयससरसस्निग्धनीरोपकण्ठा- माविर्मोदास्तिमितिशकुनानूदितब्रह्मघोषाम् । मार्गे मार्गे पथिकनिवहैरुध्यमानापवर्गां पश्येयं तां पुनरपि पुरीं श्रीमतीं रङ्गधाम्नः ॥ ३॥ कस्तूरीकलितोर्द्ध्वपुण्ड्रतिलकं कर्णान्तलोलेक्षणं मुग्धस्मेरमनोहराधरदलं मुक्ताकिरीटोज्ज्वलम् । पश्यन्मानस पश्यतोहरतरं पर्यायपङ्केरुहं श्रीरङ्गाधिपतेः कदानुवदनं सेवेय भूयोप्यहम् ॥ ४॥ न जातु पीतामृतमूर्च्छितानां नाकौकसां नन्दनवाटिकासु । रङ्गेश्वर त्वत्पुरमाश्रितानां रथ्यासुनामन्यतमो भवेयम् ॥ ५॥ इति श्रीरङ्गनाथपञ्चकं स्तोत्रं सम्पूर्णम् ॥ श्रीराधाकृष्णार्पणमस्तु ॥ From shrI sarasa stotrasangrahaH (Lucknow, 1909).