अक्षर आकार:

श्रीरङ्गनाथाष्टोत्तरशतनामस्तोत्रम्

Shri Ranganathashtottarashatanamastotram

श्रीरङ्गनाथाष्टोत्तरशतनामस्तोत्रम्

अस्य श्रीरङ्गनाथाष्टोत्तरशतनामस्तोत्रमहामन्त्रस्य,वेदव्यासो भगवानृषिः, अनुष्टुप्छन्दः, भगवान् श्रीमहाविष्णुर्देवता । श्रीरङ्गशायीति बीजम्, श्रीकान्त इति शक्तिः, श्रीप्रद इति कीलकम्, मम समस्तपापनाशार्थे जपे विनियोगः । धौम्य उवाच - श्रीरङ्गशायी श्रीकान्तः श्रीप्रदः श्रितवत्सलः । अनन्तो माधवो जेता जगन्नाथो जगद्गुरुः ॥ १॥ सुरवर्यः सुराराध्यः सुरराजानुजः प्रभुः । हरिर्हतारिर्विश्वेशः शाश्वतः शम्भुरव्ययः ॥ २॥ भक्तार्तिभञ्जनो वाग्मी वीरो विख्यातकीर्तिमान् । भास्करः शास्त्रतत्त्वज्ञो दैत्यशास्ताऽमरेश्वरः ॥ ३॥ नारायणो नरहरिर्नीरजाक्षो नरप्रियः । ब्रह्मण्यो ब्रह्मकृद्ब्रह्मा ब्रह्माङ्गो ब्रह्मपूजितः ॥ ४॥ कृष्णः कृतज्ञो गोविन्दो हृषीकेशोऽघनाशनः । विष्णुर्जिष्णुर्जितारातिः सज्जनप्रिय ईश्वरः ॥ ५॥ त्रिविक्रमस्त्रिलोकेशस्त्रय्यर्थस्त्रिगुणात्मकः । काकुत्स्थः कमलाकान्तः कालियोरगमर्दनः ॥ ६॥ कालाम्बुदश्यामलाङ्गः केशवः क्लेशनाशनः । केशिप्रभञ्जनः कान्तो नन्दसूनुररिन्दमः ॥ ७॥ रुक्मिणीवल्लभः शौरिर्बलभद्रो बलानुजः । दामोदरो हृषीकेशो वामनो मधुसूदनः ॥ ८॥ पूतः पुण्यजनध्वंसी पुण्यश्लोकशिखामणिः । आदिमूर्तिर्दयामूर्तिः शान्तमूर्तिरमूर्तिमान् ॥ ९॥ परं ब्रह्म परं धाम पावनः पवनो विभुः । चन्द्रश्छन्दोमयो रामः संसाराम्बुधितारकः ॥ १०॥ आदितेयोऽच्युतो भानुः शङ्करः शिव ऊर्जितः । महेश्वरो महायोगी महाशक्तिर्महत्प्रियः ॥ ११॥ दुर्जनध्वंसकोऽशेषसज्जनोपास्तसत्फलम् । पक्षीन्द्रवाहनोऽक्षोभ्यः क्षीराब्धिशयनो विधुः ॥ १२॥ जनार्दनो जगद्धेतुर्जितमन्मथविग्रहः । चक्रपाणिः शङ्खधारी शार्ङ्गी खड्गी गदाधरः ॥ १३॥ एवं विष्णोः शतं नाम्नामष्टोत्तरमिहेरितम् । स्तोत्राणामुत्तमं गुह्यं नामरत्नस्तवाभिधम् ॥ १४॥ सर्वथा सर्वरोगघ्नं चिन्तितार्थफलप्रदम् । त्वं तु शीघ्रं महाराज गच्छ रङ्गस्थलं शुभम् ॥ १५॥ स्नात्वा तुलार्के कावेर्यां माहात्म्यश्रवणं कुरु । गवाश्ववस्त्रधान्यान्नभूमिकन्याप्रदो भव ॥ १६॥ द्वादश्यां पायसान्नेन सहस्रं दश भोजय । नामरत्नस्तवाख्येन विष्णोरष्टशतेन च । स्तुत्वा श्रीरङ्गनाथं त्वमभीष्टफलमाप्नुहि ॥ १७॥ इति श्रीरङ्गनाथाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् । अथवा श्रीरङ्गराजनामरत्नस्तोत्रम् श्रीतुलापुराणान्तर्गतम्