अक्षर आकार:

श्रीरङ्गनाथाष्टोत्तरशतनामावलिः २

Shri Ranganathashtottarashatanamavali (2) 108 Names

श्रीरङ्गनाथाष्टोत्तरशतनामावलिः २

ॐ श्रीरङ्गनाथाय नमः । देवेशाय । श्रीरङ्गब्रह्मसंज्ञकाय । शेषपर्यङ्कशयनाय । श्रीनिवासभुजान्तराय । इन्द्रनीलोत्पलश्यामाय । पुण्डरीकनिभेक्षणाय । श्रीवत्सलाञ्छिताय । हारिणे । वनमालिने । हलायुधाय । पीताम्बरधराय । देवाय । नराय । नारायणाय । हरये । श्रीभूसहिताय । पुरुषाय । महाविष्णवे । सनातनाय नमः ॥ २०॥ ॐ सिंहासनस्थाय नमः । भगवते । वासुदेवाय । प्रभावृताय । कन्दर्पकोटिलावण्याय । कस्तूरीतिलकाय । अच्युताय । शङ्खचक्रगदापद्मसुलक्षितचतुर्भुजाय । श्रीमत्सुन्दरजामात्रे । नाथाय । देवशिखामणये । श्रीरङ्गनायकाय । लक्ष्मिवल्लभाय । तेजसान्निधये । सर्वशर्मप्रदाय । अहीशाय । सामगानप्रियोत्सवाय । अमृतत्त्वप्रदाय । नित्याय । सर्वप्रभवे नमः ॥ ४०॥ ॐ अरिन्दमाय नमः । श्रीभद्रकुङ्कुमालिप्ताय । श्रीमूर्तये । चित्तरञ्जिताय । सर्वलक्षणसम्पन्नाय । शान्तात्मने । तीर्थनायकाय । श्रीरङ्गनायकीशाय । यज्ञमूर्तये । हिरण्मयाय । प्रणवाकारसदनाय । प्रणतार्थप्रदायकाय । गोदाप्राणेश्वराय । कृष्णाय । जगन्नाथाय । जयद्रथाय । निचुलापुरवल्लीशाय । नित्यमङ्गलदायकाय । गन्धस्तम्भद्वयोल्लासगायत्रीरूपमण्डपाय । भृत्यवर्गशरण्याय नमः ॥ ६०॥ ॐ बलभद्रप्रसादकाय नमः । वेदश‍ृङ्गविमानस्थाय । व्याघ्रासुरनिषूदकाय । गरुडानन्तसेनेशगजवक्त्रादिसेविताय । शङ्करप्रियमाहात्म्याय । श्यामाय । शन्तनुवन्दिताय । पाञ्चरात्रार्चिताय । नेत्रे । भक्तनेत्रोत्सवप्रदाय । कलशाम्भोधिनिलयाय । कमलासनपूजिताय । सनन्दनन्दसनकसुत्रामामरसेविताय । सत्यलोकपुरावासाय । चक्षुषे । अष्टाक्षराय । अव्ययाय । इक्ष्वाकुपूजिताय । वसिष्ठादिस्तुताय । अनघाय नमः ॥ ८०॥ ॐ राघवाराधिताय नमः । स्वामिने । रामाय । राजेन्द्रवन्दिताय । विभीषणार्चितपदाय । लङ्काराज्यवरप्रदाय । कावेरीमध्यनिलयाय । कल्याणपुरवास्तुकाय । धर्मवर्मादिचोलेन्द्रपूजिताय । पुण्यकीर्तनाय । पुरुषोत्तमकृतस्थानाय । भूलोकजनभाग्यदाय । अज्ञानदमनज्योतिषे । अर्जुनप्रियसारथये । चन्द्रपुष्करिणीनाथाय । चण्डादिद्वारपालकाय । कुमुदादिपरिवाराय । पाण्ड्यसारूप्यदायकाय । सप्तावरणसंवीतसदनाय । सुरपोषकाय नमः ॥ १००॥ ॐ नवनीतशुभाहाराय नमः । विहारिणे । नारदस्तुताय । रोहिणीजन्मताराय । कार्तिकेयवरप्रदाय । श्रीरङ्गाधिपतये । श्रीमते । श्रीमद्रङ्गमहानिधये नमः ॥ १०८॥ इति श्रीरङ्गनाथाष्टोत्तरशतनामावलिः समाप्ता ।