अक्षर आकार:

रमेश प्रातःस्मरणस्तोत्रम्

Rameshastotram

रमेश प्रातःस्मरणस्तोत्रम्

प्रातः स्मरामि वरकुण्डलशोभिगण्डं शीतांशु-मण्डलमुखंसितवारिजाक्षम् । आताम्र-कम्र-मुदिताधरबिम्बजृम्भं ध्यातृप्रहर्षकरहासरसं रमेशम् ॥ १॥ प्रातर्भजामि धृतकौस्तुभकम्बुकण्ठं स्फीतात्मवक्षसि विराजितभूरिहारम् । भीत-स्वभक्त-भयभञ्जनपाणिपद्मं शातोदरार्पित-जगद्भरमब्जनाभम् ॥ २॥ प्रातर्नमामि शुभकिङ्किणि मेखलाङ्गं पीताम्बरं करिकरोरुमुदारजानुम् । ध्याताङ्घ्रियुग्मरुचिरं जितकञ्जजात- वातादिदेव-वरमौलिमणिं मुकुन्दम् ॥ ३॥ वादिराजयतिप्रोक्तं श्लोकत्रयमिदं सदा । प्रातःकाले पठेन्मर्त्यः सर्वपापैः प्रमुच्यते ॥ ४॥ मन्त्रविदो विष्णुभक्तास्तैर्याः प्रोक्तास्तथाऽऽशिषः । ता निष्फला भविष्यन्ति न कदाचिदिति स्फुटम् ॥ ५॥ इति श्रीमत्पञ्चरात्रागमे पूजाकाण्डे प्रातःस्मरणविधिः समाप्ता ।