अक्षर आकार:

रमापतिस्मरणम् अथवा कमलेशमाला

ramApatismaraNam

रमापतिस्मरणम् अथवा कमलेशमाला

श्रीगणेशाय नमः । मुकुन्दमिन्दीवरपत्रनेत्रं नदात्मजं योगिमनोनिकेतम् । वृन्दारकाभिष्टुतपादपद्मं पार्थस्य मित्रं मनसा स्मरामि ॥ १॥ ब्रह्मेन्द्रगङ्गाधरवन्दिताय मुकुन्ददेवाय परात्पराय । नमः समस्तासुरनाशकाय पक्षीशयानाय रमेश्वराय ॥ २॥ आश्लिष्टराधाकुचकुड्मलाय गोपालकृष्णाय नमोऽस्तु तस्मै । गोवर्धनं यो गिरिमुच्चश‍ृङ्गं लोकोपकाराय किलोद्दधार ॥ ३॥ कृपानिधे दीनशरण्य शौरे दैत्याटवीदाव रमेश देव । त्वत्पादपङ्केरुहयुग्मस्वेवां नक्तन्दिवं प्राप्तुमहं समीहे ॥ ४॥ तदा मम स्यादभिलाषसिद्धिस्तदैव जायेत ममातिमोदः । यदा यतीद्रेडितसच्चरित्रो मयि प्रसन्नो भगवान्मुरारिः ॥ ५॥ कुशाग्रसूक्ष्मापि मतिर्गतीनां ज्ञातुं न शक्नोति तव स्वरूपम् । अहं कथं वा मुसलाग्रबुद्धिर्ज्ञातुं क्षमः स्यां खलु तं भवन्तम् ॥ ६॥ नाहं नदीष्णो निखिलागमेषु न च प्रवीणः कविताकलायाम् । तस्मादशेषान् गदितुं गुणांस्ते शौरे न शक्तो बत मन्दभाग्यः-॥ ७॥ इति रमापतिस्मरणं (अथवा कमलेशमाला) सम्पूर्णम् ॥