अक्षर आकार:

रकारादि श्रीरामाष्टोत्तरशतनामस्तोत्रम्

rakArAdi shrI rAmAShTottarashatanAmastotram

रकारादि श्रीरामाष्टोत्तरशतनामस्तोत्रम्

श्री हयग्रीवाय नमः । हरिः ॐ रामो राजीवपत्राक्षो राकाचन्द्रनिभाननः । रात्रिञ्चरार्दितक्षोणी परितापविनाशनः ॥ १॥ राजीवनाभो राजेन्द्रो राजीवासनसंस्तुतः । राजराजादिदिक्पालमौलि माणिक्यदीपितः ॥ २॥ राघवान्वयपाथोधिचन्द्रो राकेन्दुसद्यशाः । रामचन्द्रो राघवेन्द्रो राजीवरुचिराननः ॥ ३॥ राजानुजामन्दिरोरा राजीवविलसत्पदः । राजीवहस्तो राजीवप्रियवंशकृतोदयः ॥ ४॥ रात्रिनव्याम्बुभृन्मूर्ती राजांशुरुचिरस्मितः । राजीवहारो राजीवधारी राजीवजाप्रियः ॥ ५॥ राघवोत्सङ्गविद्योतो राकेन्द्वयुतभास्वरः । राजलेखानखाङ्कूरो राजीवप्रियभूषणः ॥ ६॥ राजराजन्मणीभूषो राराजद्भ्रमरालकः । राजलेखाभसीमन्तो राजन्मृगमदाङ्कनः ॥ ७॥ राजहीरलसच्छ्रोत्रो राजीवकरगामृतः । रत्नकाञ्चीधरो रम्यो रत्नकाञ्चनकङ्कणः ॥ ८॥ रणत्काञ्चनमञ्जीरो रञ्जिताखिलभूतलः । राराजत्कुन्दरदनो रम्यकण्ठो रतव्रजः ॥ ९॥ रञ्जिताद्भुतगाधेयो रात्रिञ्चरसतीहरः । रात्रिञ्चरभयत्त्रातगाधेय सवनोत्तमः ॥ १०॥ राराजच्चरणाम्भोजरजःपूतमुनिप्रियः । राजराजसुहृच्चापभेदनो राजपूजितः ॥ ११॥ रमारामाकराम्भोज मालोन्मीलितकण्ठमः । रमाकराब्जमारन्दबिन्दुमुक्ताफलावृतः ॥ १२॥ रत्नकङ्कणनिध्वानमिषल्लक्ष्मीस्तुतिश्रुतिः । रमावामदृगन्तालि व्याप्तदुर्लक्ष्यविग्रहः ॥ १३॥ रामतेजस्समाहर्ता रामसोपानभञ्जनः । राघवाज्ञाकृतारण्यवासो रामानुजार्चितः ॥ १४॥ रक्तकञ्जातचरणो रम्यवल्कलवेष्टितः । रात्र्यम्बुदजटाभारो रम्याङ्गश्रीविभूषणः ॥ १५॥ रणच्चापगुणोरक्तमुनित्राणपरायणः । रात्रिञ्चरगणप्राणहर्ता रम्यफलादनः ॥ १६॥ रात्रिञ्चरेन्द्रभगिनीकर्णनासोष्टभेदनः । रातमायामृगप्राणो रावणाहृतसत्प्रियः ॥ १७॥ राजीवबन्धुपुत्राप्तो राजदेवसुतार्धनः । रक्तश्रीहनुमद्वाहो रत्नाकरनिबन्धनः ॥ १८॥ रुद्धरात्रिञ्चरावासो रावणादिविमर्दनः । रामासमालिङ्गिताङ्को रावणानुजपूजितः ॥ १९॥ रत्नसिंहासनासीनो राज्यपट्टाभिषेचनः । राजनक्षत्रवलयवृत राकेन्दुसुन्दरः ॥ २०॥ राकेन्दुमण्डलच्चत्रो राजांशूत्करचामरः । राजर्षिगणसंवीतो रञ्जितप्लवगाधिपः ॥ २१॥ रमादृङ्मालिकानीला नीराजितपदाम्बुजः । रामतत्त्वप्रवचनो राजराजसखोदयः ॥ २२॥ राजबिम्बाननागाननर्तनामोदितान्तरः । राज्यलक्ष्मीपरीरम्भसम्भृताद्भुतकण्टकः ॥ २३॥ रामायणकथामालानायको राष्ट्रशोभनः । राजमालामौलिमालामकरन्दप्लुताङ्घ्रिकः ॥ २४॥ राजताद्रिमहाधीरो राद्धदेवगुरुद्विजः । राद्धभक्ताशयारामो रमिताखिलदैवतः ॥ २५॥ रागी रागविहीनात्मभक्तप्राप्यो रसात्मकः । रसप्रदो रसास्वादो रसाधीशो रसातिगः ॥ २६॥ रसनापावनाभिख्यो रामनामामृतोदधिः । राजराजीवमित्राक्षो राजीवभवकारणम् ॥ २७॥ रमारामाशयानन्द दुग्धसागरचन्द्रमाः । रामभद्रो राजमानो राजीवप्रियबिम्बगः ॥ २८॥ रमारामाभुजलता कण्ठालिङ्गनमङ्गलः । रामसूरिहृदम्भोधिवृत्तिवीचीविहारवान् ॥ २९॥ ॥ इति विश्वावसु चैत्रशुद्ध नवमी दिने रामेण लिखितं समर्पितं च रामभद्राय सद्विजयते तराम् रकारादि श्री रामनामाष्टोत्तरशतं ॥ Source Book: shrI dashAvatArAShTottarashatanAmAvaliH savyAkhyA language: Telugu