अक्षर आकार:

रकारादि श्रीरामाष्टोत्तरशतनामावलिः

rakArAdi shrI rAmAShTottarashatanAmAvaliH

रकारादि श्रीरामाष्टोत्तरशतनामावलिः

श्री हयग्रीवाय नमः । हरिः ॐ ॐ रामाय नमः । ॐ राजीवपत्राक्षाय नमः । ॐ राकाचन्द्रनिभाननाय नमः । ॐ रात्रिञ्चरार्दितक्षोणि परितापविनाशनाय नमः । ॐ राजीवनाभाय नमः । ॐ राजेन्द्राय नमः । ॐ राजीवासनसंस्तुताय नमः । ॐ राजराजादिदिक्पालमौलि माणिक्यदीपिताय नमः । ॐ राघवान्वयपाथोधिचन्द्राय नमः । ॐ राकेन्दुसद्यशसे नमः । १० ॐ रामचन्द्राय नमः । ॐ राघवेन्द्राय नमः । ॐ राजीवरुचिराननाय नमः । ॐ राजानुजामन्दिरोरसे नमः । ॐ राजीवविलसत्पदाय नमः । ॐ राजीवहस्ताय नमः । ॐ राजीवप्रियवंशकृतोदयाय नमः । ॐ रात्रिनव्याम्बुभृन्मूर्तये नमः । ॐ राजांशुरुचिरस्मिताय नमः । ॐ राजीवकराय नमः । २० ॐ राजीवधारिणे नमः । ॐ राजीवजाप्रियाय नमः । ॐ राघवोत्सङ्गविद्योताय नमः । ॐ राकेन्द्वयुतभास्वराय नमः । ॐ राजिलेखानभाङ्कुराय नमः । ॐ राजीवप्रियभूषणाय नमः । ॐ राजराजन्मणीभूषणाय नमः । ॐ राराजद्भ्रमरालकाय नमः । ॐ राजलेखाभसीमन्ताय नमः । ॐ राजन्मृगमदाङ्कनाय नमः । ३० ॐ राजहीरलसच्छ्रोत्राय नमः । ॐ राजीवकरगामृताय नमः । ॐ रत्नकाञ्चीधराय नमः । ॐ रम्याय नमः । ॐ रत्नकाञ्चनकङ्कणाय नमः । ॐ रणत्काञ्चनमञ्जीराय नमः । ॐ रञ्जिताखिलभूतलाय नमः । ॐ राराजत्कुन्दरदनाय नमः । ॐ रम्यकण्ठाय नमः । ॐ रतव्रजाय नमः । ४० ॐ रञ्जिताद्भुतगाधेयाय नमः । ॐ रात्रिञ्चरसतीहराय नमः । ॐ रात्रिञ्चरभयत्त्रातगाधेय सवनोत्तमाय नमः । ॐ राराजच्चरणाम्भोजरजःपूरमुनिप्रियाय नमः । ॐ राजराजसुहृच्चापभेदनाय नमः । ॐ राजपूजिताय नमः । ॐ रमारामाकराम्भोज मालोन्मीलितकण्ठमाय नमः । ॐ रमाकराब्जमारन्दबिन्दुमुक्ताफलावृताय नमः । ॐ रत्नकङ्कणनिध्वानमिषल्लक्ष्मीस्तुतिश्रुतये नमः । ॐ रमावामदृगन्तालि व्याप्तदुर्लक्ष्यविग्रहाय नमः । ५० ॐ रामतेजस्समाहर्त्रे नमः । ॐ रामसोपानभञ्जनाय नमः । ॐ राघवाज्ञाकृतारण्यवासाय नमः । ॐ रामानुजार्चिताय नमः । ॐ रक्तकञ्जातचरणाय नमः । ॐ रम्यवल्कलवेष्टिताय नमः । ॐ रात्र्यम्बुदजटाभाराय नमः । ॐ रम्याङ्गश्रीविभूषणाय नमः । ॐ रणच्चापगुणाय नमः । ॐ रक्तमुनित्राणपरायणाय नमः । ६० ॐ रात्रिञ्चरगणप्राणहर्त्रे नमः । ॐ रम्यफलादनाय नमः । ॐ रात्रिञ्चरेन्द्रभगिनीकर्णनासोष्ट्रभेदनाय नमः । ॐ रातमायामृगप्राणाय नमः । ॐ रावणाहृतसत्प्रियाय नमः । ॐ राजीवबन्धुपुत्राप्ताय नमः । ॐ राजदेवसुतार्धनाय नमः । ॐ रक्तश्रीहनुमद्वाहाय नमः । ॐ रत्नाकरनिबन्धनाय नमः । ॐ रुद्धरात्रिञ्चरावासाय नमः । ७० ॐ रावणादिविमर्दनाय नमः । ॐ रामासमालिङ्गिताङ्काय नमः । ॐ रावणानुजपूजिताय नमः । ॐ रत्नसिंहासनासीनाय नमः । ॐ राज्यपट्टाभिषेचनाय नमः । ॐ राजनक्षत्रवलयवृतराकेन्दुसुन्दराय नमः । ॐ राकेन्दुकुण्डलच्चत्राय नमः । ॐ राजांशूत्करचामराय नमः । ॐ राजर्षिगणसंवीताय नमः । ॐ रञ्जितप्लवगाधिपाय नमः । ८० ॐ रमादृङ्मालिकालीला नीराजित पदाम्बुजाय नमः । ॐ रामतत्त्वप्रवचनाय नमः । ॐ राजराजसखोदयाय नमः । ॐ राजबिम्बाननागाननर्तनामोदितान्तराय नमः । ॐ राज्यलक्ष्मीपरीरम्भसम्भृताद्भुतकण्टकाय नमः । ॐ रामायणकथामालानायकाय नमः । ॐ राष्ट्रशोभनाय नमः । ॐ राजमालामौलिमालामकरन्दप्लुताङ्घ्रिकाय नमः । ॐ राजताद्रिमहाधीराय नमः । ॐ राद्धदेवगुरुद्विजाय नमः । ९० ॐ राद्धभक्ताशयारामाय नमः । ॐ रमिताखिलदैवताय नमः । ॐ रागिणे नमः । ॐ रागविहीनात्मभक्तप्राप्याय नमः । ॐ रसात्मकाय नमः । ॐ रसप्रदाय नमः । ॐ रसास्वादाय नमः । ॐ रसाधीशाय नमः । ॐ रसातिगाय नमः । ॐ रसनापावनाभिख्याय नमः । १०० ॐ रामनामामृतोदधये नमः । ॐ राजराजीवमित्राक्षाय नमः । ॐ राजीवभवकारणाय नमः । ॐ रामभद्राय नमः । ॐ राजमानाय नमः । ॐ राजीवप्रियबिम्बगाय नमः । ॐ रमारामाभुजलता कण्ठालिङ्गनमङ्गलाय नमः । ॐ रामसूरिहृदम्भोधिवृत्तिवीचीविहारवते नमः । १०८ ॥ इति विश्वावसु चैत्रशुद्ध चतुर्दश्यां रामेण लिखितं रकारादि श्री रामनामाष्टोत्तरशतं सम्पूर्णम् श्री हयग्रीवार्पणम् ॥ Source Book: shrI dashAvatArAShTottarashatanAmAvaliH savyAkhyA language: Telugu