अक्षर आकार:

रकारादि श्रीपरशुरामाष्टोत्तरशतनामस्तोत्रम्

rakArAdi shrI parashurAmAShTottarashatanAmastotram

रकारादि श्रीपरशुरामाष्टोत्तरशतनामस्तोत्रम्

श्री हयग्रीवाय नमः । हरिः ॐ रामो राजाटवीवह्नि रामचन्द्रप्रसादकः । राजरक्तारुणस्नातो राजीवायतलोचनः ॥ १॥ रैणुकेयो रुद्रशिष्यो रेणुकाच्छेदनो रयी । रणधूतमहासेनो रुद्राणीधर्मपुत्रकः ॥ २॥ राजत्परशुविच्छिन्नकार्तवीर्यार्जुनद्रुमः । राताखिलरसो रक्तकृतपैतृकतर्पणः ॥ ३॥ रत्नाकरकृतावासो रतीशकृतविस्मयः । रागहीनो रागदूरो रक्षितब्रह्मचर्यकः ॥ ४॥ राज्यमत्तक्षत्त्रबीज भर्जनाग्निप्रतापवान् । राजद्भृगुकुलाम्बोधिचन्द्रमा रञ्जितद्विजः ॥ ५॥ रक्तोपवीतो रक्ताक्षो रक्तलिप्तो रणोद्धतः । रणत्कुठारो रविभूदण्डायित महाभुजः ॥ ६॥ रमानाधधनुर्धारी रमापतिकलामयः । रमालयमहावक्षा रमानुजलसन्मुखः ॥ ७॥ रसैकमल्लो रसनाऽविषयोद्दण्ड पौरुषः । रामनामश्रुतिस्रस्तक्षत्रियागर्भसञ्चयः ॥ ८॥ रोषानलमयाकारो रेणुकापुनराननः । राधेयचातकाम्भोदो रुद्धचापकलापगः ॥ ९॥ राजीवचरणद्वन्द्वचिह्नपूतमहेन्द्रकः । रामचन्द्रन्यस्ततेजा राजशब्दार्धनाशनः ॥ १०॥ राद्धदेवद्विजव्रातो रोहिताश्वाननार्चितः । रोहिताश्वदुराधर्षो रोहिताश्वप्रपावनः ॥ ११॥ रामनामप्रधानार्धो रत्नाकरगभीरधीः । राजन्मौञ्जीसमाबद्ध सिंहमध्यो रविद्युतिः ॥ १२॥ रजताद्रिगुरुस्थानो रुद्राणीप्रेमभाजनम् । रुद्रभक्तो रौद्रमूर्ती रुद्राधिकपराक्रमः ॥ १३॥ रविताराचिरस्थायी रक्तदेवर्षिभावनः । रम्यो रम्यगुणो रक्तो रातभक्ताखिलेप्सितः ॥ १४॥ रचितस्वर्णसोपानो रन्धिताशयवासनः । रुद्धप्राणादिसञ्चारो राजद्ब्रह्मपदस्थितः ॥ १५॥ रत्नसूनुमहाधीरो रसासुरशिखामणिः । रक्तसिद्धी रम्यतपा राततीर्थाटनो रसी ॥ १६॥ रचितभ्रातृहननो रक्षितभातृको रणी । राजापहृततातेष्टिधेन्वाहर्ता रसाप्रभुः ॥ १७॥ रक्षितब्राह्म्यसाम्राज्यो रौद्राणेयजयध्वजः । राजकीर्तिमयच्छत्रो रोमहर्षणविक्रमः ॥ १८॥ राजशौर्यरसाम्भोधिकुम्भसम्भूतिसायकः । रात्रिन्दिवसमाजाग्र त्प्रतापग्रीष्मभास्करः ॥ १९॥ राजबीजोदरक्षोणीपरित्यागी रसात्पतिः । रसाभारहरो रस्यो राजीवजकृतक्षमः ॥ २०॥ रुद्रमेरुधनुर्भङ्ग कृद्धात्मा रौद्रभूषणः । रामचन्द्रमुखज्योत्स्नामृतक्षालितहृन्मलः ॥ २१॥ रामाभिन्नो रुद्रमयो रामरुद्रो भयात्मकः । रामपूजितपादाब्जो रामविद्वेषिकैतवः ॥ २२॥ रामानन्दो रामनामो रामो रामात्मनिर्भिदः । रामप्रियो रामतृप्तो रामगो रामविश्रमः ॥ २३॥ रामज्ञानकुठारात्त राजलोकमहातमाः । रामात्ममुक्तिदो रामो रामदो राममङ्गलः ॥ २४॥ मङ्गलं जामदग्न्याय कार्तवीर्यार्जुनच्छिदे । मङ्गलं परमोदार सदा परशुराम ते ॥ २५॥ मङ्गलं राजकालाय दुराधर्षाय मङ्गलं । मङ्गलं महनीयाय जामदग्न्याय मङ्गलम् ॥ २६॥ जमदग्नि तनूजाय जिताखिलमहीभृते । जाज्वल्यमानायुधाय जामदग्न्याय मङ्गलम् ॥ २७॥ ॥ इति रामेणकृतं पराभवाब्दे वैशाखशुद्ध त्रितीयायां परशुराम जयन्त्यां रकारादि श्री परशुरामाष्टोत्तरशतम् श्री हयग्रीवाय समर्पितम् ॥ Source Book: shrI dashAvatArAShTottarashatanAmAvaliH savyAkhyA language: Telugu