अक्षर आकार:

रकारादि श्रीपरशुरामाष्टोत्तरशतनामावलिः

rakArAdi shrI parashurAmAShTottarashatanAmAvaliH

रकारादि श्रीपरशुरामाष्टोत्तरशतनामावलिः

श्री हयग्रीवाय नमः । हरिः ॐ ॐ रामाय नमः । ॐ राजाटवीवह्नये नमः । ॐ रामचन्द्रप्रसादकाय नमः । ॐ राजरक्तारुणस्नाताय नमः । ॐ राजीवायतलोचनाय नमः । ॐ रैणुकेयाय नमः । ॐ रुद्रशिष्याय नमः । ॐ रेणुकाच्छेदनाय नमः । ॐ रयिणे नमः । ॐ रणधूतमहासेनाय नमः । १० ॐ रुद्राणीधर्मपुत्रकाय नमः । ॐ राजत्परशुविच्छिन्नकार्तवीर्यार्जुनद्रुमाय नमः । ॐ राताखिलरसाय नमः । ॐ रक्तकृतपैतृक तर्पणाय नमः । ॐ रत्नाकरकृतावासाय नमः । ॐ रतीशकृतविस्मयाय नमः । ॐ रागहीनाय नमः । ॐ रागदूराय नमः । ॐ रक्षितब्रह्मचर्यकाय नमः । ॐ राज्यमत्तक्षत्त्रबीज भर्जनाग्निप्रतापवते नमः । २० ॐ राजद्भृगुकुलाम्बोधिचन्द्रमसे नमः । ॐ रञ्जितद्विजाय नमः । ॐ रक्तोपवीताय नमः । ॐ रक्ताक्षाय नमः । ॐ रक्तलिप्ताय नमः । ॐ रणोद्धताय नमः । ॐ रणत्कुठाराय नमः । ॐ रविभूदण्डायित महाभुजाय नमः । ॐ रमानाधधनुर्धारिणे नमः । ॐ रमापतिकलामयाय नमः । ३० ॐ रमालयमहावक्षसे नमः । ॐ रमानुजलसन्मुखाय नमः । ॐ रणैकमल्लाय नमः । ॐ रसनाऽविषयोद्दण्ड पौरुषाय नमः । ॐ रामनामश्रुतिस्रस्तक्षत्रियागर्भसञ्चयाय नमः । ॐ रोषानलमयाकाराय नमः । ॐ रेणुकापुनराननाय नमः । ॐ रधेयचातकाम्भोदाय नमः । ॐ रुद्धचापकलापगाय नमः । ॐ राजीवचरणद्वन्द्वचिह्नपूतमहेन्द्रकाय नमः । ४० ॐ रामचन्द्रन्यस्ततेजसे नमः । ॐ राजशब्दार्धनाशनाय नमः । ॐ राद्धदेवद्विजव्राताय नमः । ॐ रोहिताश्वाननार्चिताय नमः । ॐ रोहिताश्वदुराधर्षाय नमः । ॐ रोहिताश्वप्रपावनाय नमः । ॐ रामनामप्रधानार्धाय नमः । ॐ रत्नाकरगभीरधिये नमः । ॐ राजन्मौञ्जीसमाबद्ध सिंहमध्याय नमः । ॐ रविद्युतये नमः । ५० ॐ रजताद्रिगुरुस्थानाय नमः । ॐ रुद्राणीप्रेमभाजनाय नमः । ॐ रुद्रभक्ताय नमः । ॐ रौद्रमूर्तये नमः । ॐ रुद्राधिकपराक्रमाय नमः । ॐ रविताराचिरस्थायिने नमः । ॐ रक्तदेवर्षिभावनाय नमः । ॐ रम्याय नमः । ॐ रम्यगुणाय नमः । ॐ रक्ताय नमः । ६० ॐ रातभक्ताखिलेप्सिताय नमः । ॐ रचितस्वर्गगोपाय नमः । ॐ रन्धिताशयवासनाय नमः । ॐ रुद्धप्राणादिसञ्चाराय नमः । ॐ राजद्ब्रह्मपदस्थिताय नमः । ॐ रत्नसानुमहाधीराय नमः । ॐ रसासुरशिखामणये नमः । ॐ रक्तसिद्धये नमः । ॐ रम्यतपसे नमः । ॐ राततीर्थाटनाय नमः । ७० ॐ रसिने नमः । ॐ रचितभ्रातृहननाय नमः । ॐ रक्षितभातृकाय नमः । ॐ राणिने नमः । ॐ राजापहृततातेष्टिधेन्वाहर्त्रे नमः । ॐ रसाप्रभवे नमः । ॐ रक्षितब्राह्म्यसाम्राज्याय नमः । ॐ रौद्राणेयजयध्वजाय नमः । ॐ राजकीर्तिमयच्छत्राय नमः । ॐ रोमहर्षणविक्रमाय नमः । ८० ॐ राजसौर्यरसाम्भोधिकुम्भसम्भूतिसायकाय नमः । ॐ रात्रिन्दिवसमाजाग्रत्प्रतापग्रीष्मभास्कराय नमः । ॐ राजबीजोदरक्षोणीपरित्यागिने नमः । ॐ रसात्पतये नमः । ॐ रसाभारहराय नमः । ॐ रस्याय नमः । ॐ राजीवजकृतक्षमाय नमः । ॐ रुद्रमेरुधनुर्भङ्ग कृद्धात्मने नमः । ॐ रौद्रभूषणाय नमः । ॐ रामचन्द्रमुखज्योत्स्नामृतक्षालितहृन्मलाय नमः । ९० ॐ रामाभिन्नाय नमः । ॐ रुद्रमयाय नमः । ॐ रामरुद्रो भयात्मकाय नमः । ॐ रामपूजितपादाब्जाय नमः । ॐ रामविद्वेषिकैतवाय नमः । ॐ रामानन्दाय नमः । ॐ रामनामाय नमः । ॐ रामाय नमः । ॐ रामात्मनिर्भिदाय नमः । ॐ रामप्रियाय नमः । १०० ॐ रामतृप्ताय नमः । ॐ रामगाय नमः । ॐ रामविश्रमाय नमः । ॐ रामज्ञानकुठारात्तराजलोकमहातमसे नमः । ॐ रामात्ममुक्तिदाय नमः । ॐ रामाय नमः । ॐ रामदाय नमः । ॐ राममङ्गलाय नमः । १०८ ॥ इति रामेणकृतं पराभवाब्दे वैशाखशुद्ध त्रितीयां परशुराम जयन्त्यां रकारादि श्री परशुरामाष्टोत्तरशतम् श्री हयग्रीवाय समर्पितम् ॥ Source Book: shrI dashAvatArAShTottarashatanAmAvaliH savyAkhyA language: Telugu