अक्षर आकार:

श्रीराजगोपालपञ्चरत्नस्तुतिः

Shri Rajagopalapancharatnastutih

श्रीराजगोपालपञ्चरत्नस्तुतिः

स्वर्णपाण्ड्यपुरभ्राजद्राजगोपालमादरात् । भक्तकल्पद्रुमं नित्यं नमामोऽभीष्टसिद्धये ॥ १॥ सुन्दरपाण्ड्यपुरे विलसन्तं सुन्दरमूर्तिमुदारचरित्रम् । इन्दिरया परिसेवितपादं तं दरहासमुखाम्बुजमीडे ॥ २॥ रागादिरोगविनिवारणदीक्षितस्य राजाधिराजकमनीयपदाम्बुजस्य । राकासुधांशुरमणीयमुखाम्बुजस्य श्रीराजगोपसुविभोश्चरणौ प्रपद्ये ॥ ३॥ श्रीराजगोपाल यशोविशाल श्रीदेवकीपाल सुरारिकाल । वशीकृतव्याल विशालफाल स्वभक्तजालं परिपाहि नित्यम् ॥ ४॥ प्रभू राजगोपाल आर्तार्तिहन्ता दयासागरो देवराजादिवन्द्यः । सतामाश्रयः सामगेयः सुरूपः सदाऽयं प्रदद्याज्जगन्मङ्गलानि ॥ ५॥ इति श‍ृङ्गेरीजगद्गुरु श्रीभारतीतीर्थश्रीचरणकृतस्तोत्रयुग्मं चित्रानदीतीरगतसुन्दरपाण्ड्यपुरग्रामविराजमान श्रीराजगोपालपञ्चरत्नस्तुतिः समाप्ता ।