अक्षर आकार:

श्रीराधावराष्टकं

Shri Radhavarashtakam

श्रीराधावराष्टकं

चतुर्मुखादिसंस्तुतं समस्तसात्वतानुतम् । हलायुधादिसंयुतं नमामि राधिकाधिपम् ॥ १॥ बकादिदैत्यकालकं सगोपगोपिपालकम् । मनोहरासितालकं नमामि राधिकाधिपम् ॥ २॥ सुरेन्द्रगर्वभञ्जनं विरञ्चिमोहभञ्जनम् । व्रजाङ्गनानुरञ्जनं नमामि राधिकाधिपम् ॥ ३॥ मयूरपिच्छमण्डनं गजेन्द्रदन्तखण्डनम् । नृशंसकंसदण्डनं नमामि राधिकाधिपम् ॥ ४॥ प्रदत्तविप्रदारकं सुदामधामकारकम् । सुरद्रुमापहारकं नमामि राधिकाधिपम् ॥ ५॥ धनञ्जयाजयावहं महाचमूक्षया वहम् । पितमहव्यथापहं नमामि राधिकाधिपम् ॥ ६॥ मुनीन्द्रशापकारणं यदुप्रजापहारणम् । धराभरावतारणं नमामि राधिकाधिपम् ॥ ७॥ सुवृक्षमूलशायिनं मृगारिमोक्षदायिनम् । स्वकीयधाममायिनं नमामि राधिकाधिपम् ॥ ८॥ इदं समाहितो हितं वराष्टकं सदा मुदा । जपञ्जनो जनुर्जरादितो द्रुतं प्रमुच्यते ॥ ९॥ इति श्रीनिम्बार्काचार्यविरचितं श्रीराधावराष्टकं सम्पूर्णम् ।