अक्षर आकार:

पुरुषोत्तमसहस्राधिकनामावलिः

Purushottamasahasradhikanamavalih

पुरुषोत्तमसहस्राधिकनामावलिः

(भागवतकथाऽनुसारिणी) प्रथमस्कन्धतः । श्रीकृष्णाय नमः । सच्चिदानन्दाय । नित्यलीलाविनोदकृते । सर्वागमविनोदिने । लक्ष्मीशाय । पुरुषोत्तमाय । आदिकालाय । सर्वकालाय । कालात्मने । माययाऽऽवृताय । भक्तोद्धारप्रयत्नात्मने । जगत्कर्त्रे । जगन्मयाय । नामलीलापराय । विष्णवे । व्यासात्मने । शुकमोक्षदाय । व्यापिवैकुण्ठदात्रे । श्रीमद्भागवतागमाय । शुकवागमृताब्धीन्दवे नमः । २० शौनकाद्यखिलेष्टदाय नमः । भक्तिप्रवर्तकाय । त्रात्रे । व्यासचिन्ताविनाशकाय । सर्वसिद्धान्तवागात्मने । नारदाद्यखिलेष्टदाय । अन्तरात्मने । ध्यानगम्याय । भक्तिरत्नप्रदायकाय । मुक्तोपसृप्टाय । पूर्णात्मने । मुक्तानां रतिवर्धनाय । भक्तकार्यैकनिरताय । द्रौण्यस्त्रविनिवारकाय । भक्तस्मयप्रणेत्रे । भक्तवाक्परिपालकाय । ब्रह्मण्यदेवाय । धर्मात्मने । भक्तानां परीक्षकाय । आसन्निहितकर्त्रे नमः । ४० मायाहितकराय नमः । प्रभवे । उत्तराप्राणदात्रे । ब्रह्मास्त्रविनिवारकाय । सर्वतः पाण्डवपतये । परीक्षिच्छुद्धिकारणाय । सर्ववेदेषु गूढात्मने । भक्तैकहृदयङ्गमाय । कुन्तीस्तुत्याय । प्रसन्नात्मने । परमाद्भुतकार्यकृते । भीष्ममुक्तिप्रदाय । स्वामिने । भक्तमोह निवारकाय । सर्वावस्थासु संसेव्याय । समाय । सुखहितप्रदाय । कृतकृत्याय । सर्वसाक्षिणे । भक्तस्त्रीरतिवर्धनाय नमः । ६० सर्वसौभाग्यनिलयाय नमः । परमाश्चर्यरूपधृषे । अनन्यपुरुषस्वामिने । द्वारकाभाग्यभाजनाय । बीजसंस्कारकर्त्रे । परीक्षिज्ज्ञानपोषकाय । सर्वत्र पूर्णगुणकाय । सर्वभूषणभूषिताय । सर्वलक्षणदात्रे । धृतराष्ट्रविमुक्तिदाय । नित्यं सन्मार्गरक्षकाय । विदुरप्रीतिपूरकाय । लीलाव्यामोहकर्त्रे । कालधर्मप्रवर्तकाय । पाण्डवानां मोक्षदात्रे । परीक्षिद्भाग्यवर्धनाय । कलिनिग्रहकर्त्रे । धर्मादीनां पोषकाय । सत्सङ्गज्ञानहेतवे । श्रीभागवतकारणाय नमः । ८० द्वितीय स्कन्धतः - प्राकृतादृष्टमार्गाय नमः । सकलागमैः श्रोतव्याय । शुद्धभावैः कीर्तितव्याय । आत्मवित्तमैः स्मर्तव्याय । अनेकमार्गकर्त्रे । नानाविधगतिप्रदाय । पुरुषाय । सकलाधाराय । सत्वैकनिलयात्मभुवे । सर्वध्येयाय । योगगम्याय । भक्त्या ग्राह्याय । सुरप्रियाय । जन्मादिसार्थककृतये । लीलाकर्त्रे । सतां पतये । आदिकर्त्रे । तत्त्वकर्त्रे । सर्वकर्त्रे । विशारदाय नमः । १०० नानावतारकर्त्रे नमः । ब्रह्माविर्भावकारणाय । दशलीलाविनोदिने । नानासृष्टिप्रवर्तकाय । अनेककल्पकर्त्रे । सर्वदोषविवर्जिताय ॥ तृतीयस्कन्धतः - वैराग्यहेतवे । तीर्थात्मने । सर्वतीर्थफलप्रदाय । तीर्थशुद्धैकनिलयाय । स्वमार्गपरिपोषकाय । तीर्थकीर्तये । भक्तगम्याय । भक्तानुशयकार्यकृते । भक्ततुल्याय । सर्वतुल्याय । स्वेच्छासर्वप्रवर्तकाय । गुणातीताय । अनवद्यात्मने । सर्गलीलाप्रवर्तकाय नमः । १२० साक्षात्सर्वजगत्कर्त्रे नमः । महदादिप्रवर्तकाय । मायाप्रवर्तकाय । साक्षिणे । मायारतिविवर्धनाय । आकाशात्मने । चतुर्मूर्तये । चतुर्धा भूतभावनाय । रजःप्रवर्तकाय । ब्रह्मणे । मरीच्यादिपितामहाय । वेदकर्त्रे । यज्ञकर्त्रे । सर्वकर्त्रे । अमितात्मकाय । अनेकसृष्टिकर्त्रे । दशधासृष्टिकारकाय । यज्ञाङ्गाय । यज्ञवाराहाय । भूधराय नमः । १४० भूमिपालकाय नमः । सेतवे । विधरणाय । जैत्राय । हिरण्याक्षान्तकाय । सुराय । दितिकश्यपकामैकहेतुसृष्टिप्रवर्तकाय । देवाभयप्रदात्रे । वैकुण्ठाधिपतये । महते । सर्वगर्वप्रहारिणे । सनकाद्यखिलार्थदाय । सर्वाश्वासनकर्त्रे । भक्ततुल्याहवप्रदाय । काललक्षणहेतवे । सर्वार्थज्ञापकाय । पराय । भक्तोन्नतिकराय । सर्वप्रकारसुखदायकाय । नानायुद्धप्रहरणाय नमः । १६० ब्रह्मशापविमोचकाय नमः । पुष्टिसर्गप्रणेत्रे । गुणसृष्टिप्रवर्तकाय । कर्दमेष्टप्रदात्रे । देवहूत्यखिलार्थदाय । शुक्लनारायणाय । सत्यकालधर्मप्रवर्तकाय । ज्ञानावताराय । शान्तात्मने । कपिलाय । कालनाशकाय । त्रिगुणाधिपतये । साङ्ख्यशास्त्रकर्त्रे । विशारदाय । सर्गदूषणहारिणे । पुष्टिमोक्षप्रवर्तकाय । लौकिकानन्ददात्रे । ब्रह्मानन्दप्रवर्तकाय । भक्तिसिद्धान्तवक्त्रे । सगुणज्ञानदीपकाय नमः । १८० आत्मप्रदाय नमः । पूर्णकामाय । योगात्मने । योगभाविताय । जीवन्मुक्तिप्रदाय । श्रीमते । अनन्यभक्तिप्रवर्तकाय । कालसामर्थ्यदात्रे । कालदोषनिवारकाय । गर्भोत्तमज्ञानदात्रे । कर्ममार्गनियामकाय । सर्वमार्गनिराकर्त्रे । भक्तिमार्गैकपोषकाय । सिद्धिहेतवे । सर्वहेतवे । सर्वाश्चर्यैककारणाय । चेतनाचेतनपतये । समुद्रपरिपूजिताय । साङ्ख्याचार्यस्तुताय । सिद्धपूजिताय नमः । २००॥ सर्वपूजिताय नमः । २०१ चतुर्थस्कन्धतः - विसर्गकर्त्रे । सर्वेशाय । कोटिसूर्यसमप्रभाय । अनन्तगुणगम्भीराय । महापुरुषपूजिताय । अनन्तसुखदात्रे । ब्रह्मकोटिप्रजापतये । सुधाकोटिस्वास्थ्यहेतवे । कामधुक्कोटिकामदाय । समुद्रकोटिगम्भीराय । तीर्थकोटिसमाह्वयाय । सुमेरुकोटिनिष्कम्पाय । कोटिब्रह्माण्डविग्रहाय । कोट्यश्वमेधपापघ्नाय । वायुकोटिमहाबलाय । कोटीन्दुजगदानन्दिने । शिवकोटिप्रसादकृते । सर्वसद्गुणमाहात्म्याय । सर्वसद्गुणभाजनाय नमः । २२० मन्वादिप्रेरकाय नमः । धर्माय । यज्ञनारायणाय । पराय । आकृतिसूनवे । देवेन्द्राय । रुचिजन्मने । अभयप्रदाय । दक्षिणापतये । ओजस्विने । क्रियाशक्तये । परायणाय । दत्तात्रेयाय । योगपतये । योगमार्गप्रवर्तकाय । अनसूयागर्भरत्नाय । ऋषिवंशविवर्धनाय । गुणत्रयविभागज्ञाय । चतुर्वर्गविशारदाय । नारायणाय नमः । २४० धर्मसूनवे नमः । मूर्तिपुण्ययशस्कराय । सहस्रकवचच्छेदिने । तपःसाराय । नरप्रियाय । विश्वानन्दप्रदाय । कर्मसाक्षिणे । भारतपूजिताय । अनन्ताद्भुतमाहात्म्याय । बदरीस्थानभूषणाय । जितकामाय । जितक्रोधाय । जितसङ्गाय । जितेन्द्रियाय । उर्वशीप्रभवाय । स्वर्गसुखदायिने । स्थितिप्रदाय । अमानिने । मानदाय । गोप्त्रे नमः । २६० भगवच्छास्त्रबोधकाय नमः । ब्रह्मादिवन्द्याय । हंसाय । श्रियै । मायावैभवकारणाय । विविधानन्दसर्गात्मने । विश्वपूरणतत्पराय । यज्ञजीवनहेतवे । यज्ञस्वामिने । इष्टबोधकाय । नानासिद्धान्तगम्याय । सप्ततन्तवे । षड्गुणाय । प्रतिसर्गजगत्कर्त्रे । नानालीलाविशारदाय । ध्रुवप्रियाय । ध्रुवस्वामिने । चिन्तिताधिकदायकाय । दुर्लभानन्तफलदाय । दयानिधये नमः । २८० ओं अमित्रघ्ने नमः । अङ्गस्वामिने । कृपासाराय । वैन्याय । भूमिनियामकाय । भूविदोग्ध्रे । प्रजाप्राणपालनैकपरायणाय । यशोदात्रे । ज्ञानदात्रे । सर्वधर्मप्रदर्शकाय । पुरञ्जनाय । जगन्मित्राय । विसर्गान्तप्रदर्शनाय । प्रचेतसां पतये । चित्रभक्तिहेतवे । जनार्दनाय । स्मृतिहेतुब्रह्मभावसायुज्यादिप्रदाय । शुभाय ॥ पञ्चमस्कन्धतः - विजयिने । स्थितिलीलाब्धये नमः । ३०० ओं अच्युताय नमः । विजयप्रदाय । स्वसामर्थ्यप्रदाय । भक्तकीर्तिहेतवे । अधोक्षजाय । प्रियव्रतप्रियस्वामिने । स्वेच्छावादविशारदाय । सङ्ग्यगम्याय । स्वप्रकाशाय । सर्वसङ्गविवर्जिताय । इच्छायां समर्यादाय । त्यागमात्रोपलम्भनाय । अचिन्त्यकार्यकर्त्रे । तर्कागोचरकार्यकृते । श‍ृङ्गाररसमर्यादायै । आग्नीध्ररसभाजनाय । नाभीष्टपूरकाय । कर्ममर्यादादर्शनोत्सुकाय । सर्वरूपाय । अद्भुततमाय नमः । ३२० मर्यादापुरुषोत्तमाय नमः । सर्वरूपेषु सत्यात्मने । कालसाक्षिणे । शशिप्रभाय । मेरुदेवीव्रतफलाय । ऋषभाय । भगलक्षणाय । जगत्सन्तर्पकाय । मेघरूपिणे । देवेन्द्रदर्पघ्ने । जयन्तीपतये । अत्यन्तप्रमाणाशेषलौकिकाय । शतधान्यस्तभूतात्मने । शतानन्दाय । गुणप्रसुवे । वैष्णवोत्पादनपराय । सर्वधर्मोपदेशकाय । परहंसक्रियागोप्त्रे । योगचर्याप्रवर्तकाय । चतुर्थाश्रमनिर्णेत्रे नमः । ३४० सदानन्दशरीरवते नमः । प्रदर्शितान्यधर्माय । भरतस्वामिने । अपारकृते । यथावत्कर्मकर्त्रे । सङ्गानिष्टप्रदर्शकाय । आवश्यकपुनर्जन्मकर्ममार्गप्रदर्शकाय । यज्ञरूपमृगाय । शान्ताय । सहिष्णवे । सत्पराक्रमाय । रहूगणगतिज्ञाय । रहूगणविमोचकाय । भवाटवीतत्त्ववक्त्रे । बहिर्मुखहिते रताय । गयस्वामिने । स्थानवंशकर्त्रे । स्थानविभागकृते । पुरुषावयवाय । भूमिविशेषविनिरूपकाय नमः । ३६० जम्बूद्वीपपतये नमः । मेरुनाभिपद्मरुहाश्रयाय । नानाविभूतिलीलाढ्याय । गङ्गोत्पत्तिनिदानकृते । गङ्गामाहात्म्यहेतवे । गङ्गारूपाय । अतिगूढकृते । वैकुण्ठदेहहेत्वम्बुजन्मकृते । सर्वपावनाय । शिवस्वामिने । शिवोपास्याय । गूढाय । सङ्कर्षणात्मकाय । स्थानरक्षार्थमत्स्यादिरूपाय । सर्वैकपूजिताय । उपास्यनानारूपात्मने । ज्योतीरूपाय । गतिप्रदाय । सूर्यनारायणाय । वेदकान्तये नमः । ३८० उज्ज्वलवेषधृशे नमः । हंसाय । अन्तरिक्षगमनाय । सर्वप्रसवकारणाय । आनन्दकर्त्रे । वसुदाय । बुधाय । वाक्पतये । उज्ज्वलाय । कालात्मने । कालकालाय । कालच्छेदकृते । उत्तमाय । शिशुमाराय । सर्वमूर्तये । आधिदैविकरूपधृशे । अनन्तसुखभोगाढ्याय । विवरैश्वर्यभाजनाय । सङ्कर्षणाय । दैत्यपतये नमः । ४०० सर्वाधाराय नमः । बृहद्वपुषे । अनन्तनरकच्छेदिने । स्मृतिमात्रार्तिनाशनाय । सर्वानुग्रहकर्त्रे । मर्यादाभिन्नशास्त्रकृते ॥ षष्ठस्कन्धतः - कालान्तकभयच्छेदिने । नामसामर्थ्यरूपधृशे । उद्धारानर्हगोप्त्रात्मने । नामादिप्रेरकोत्तमाय । अजामिलमहादुष्टमोचकाय । अघविमोचकाय । धर्मवक्त्रे । अक्लिष्टवक्त्रे । विष्णुधर्मस्वरूपधृशे । सन्मार्गप्रेरकाय । धर्त्रे । त्यागहेतवे । अधोक्षजाय । वैकुण्ठपुरनेत्रे नमः । ४२० दाससंवृद्धिकारकाय नमः । दक्षप्रसादकृते । हंसगुह्यस्तुतिविभावनाय । स्वाभिप्रायप्रवक्त्रे । मुक्तजीवप्रसूतिकृते । नारदप्रेरणात्मने । हर्यश्वब्रह्मभावनाय । शबलाश्वहिताय । गूढवाक्यार्थज्ञापनक्षमाय । गूढार्थज्ञापनाय । सर्वमोक्षानन्दप्रतिष्ठिताय । पुष्टिप्ररोहहेतवे । दासैकज्ञातहृद्गताय । शान्तिकर्त्रे । सुहितकृते । स्त्रीप्रसुवे । सर्वकामदुहे । पुष्टिवंशप्रणेत्रे । विश्वरूपेष्टदेवतायै । कवचात्मने नमः । ४४० ओं पालनात्मने नमः । वर्मोपचितिकारणाय । विश्वरूपशिरच्छेदिने । त्वाष्ट्रयज्ञविनाशकाय । वृत्रस्वामिने । वृत्रगम्याय । वृत्रव्रतपरायणाय । वृत्रकीर्तये । वृत्रमोक्षाय । मघवत्प्राणरक्षकाय । अश्वमेधहविर्भोक्त्रे । देवेन्द्रामीवनाशकाय । संसारमोचकाय । चित्रकेतुबोधनतत्पराय । मन्त्रसिद्धये । सिद्धिहेतवे । सुसिद्धिफलदायकाय । महादेवतिरस्कर्त्रे । भक्त्यै पूर्वार्थनाशकाय । देवब्राह्मणविद्वेषवैमुख्यज्ञापकाय नमः । ४६० शिवाय नमः । आदित्याय । दैत्यराजाय । महत्पतये । अचिन्त्यकृते । मरुतां भेदकाय । त्रात्रे । व्रतात्मने । पुम्प्रसूतिकृते ॥ सप्तमस्कन्धतः - कर्मात्मने । वासनात्मने । ऊतिलीलापरायणाय । समदैत्यसुराय । स्वात्मने । वैषम्यज्ञानसंश्रयाय । देहाद्युपाधिरहिताय । सर्वज्ञाय । सर्वहेतुविदे । ब्रह्मवाक्स्थापनपराय । स्वजन्मावधिकार्यकृते नमः । ४८० ओं सदसद्वासनाहेतवे नमः । त्रिसत्याय । भक्तमोचकाय । हिरण्यकशिपुद्वेषिणे । प्रविष्टात्मने । अतिभीषणाय । शान्तिज्ञानादिहेतवे । प्रह्लादोत्पत्तिकारणाय । दैत्यसिद्धान्तसद्वक्त्रे । तपःसाराय । उदारधिये । दैत्यहेतुप्रकटनाय । भक्तिचिह्नप्रकाशकाय । सद्वेषहेतवे । सद्वेषवासनात्मने । निरन्तराय । नैष्ठुर्यसीम्ने । प्रह्लादवत्सलाय । सङ्गदोषघ्ने । महानुभावाय नमः । ५०० ओं साकाराय नमः । सर्वाकाराय । प्रमाणभुवे । स्तम्भप्रसूतये । नृहरये । नृसिंहाय । भीमविक्रमाय । विकटास्याय । ललज्जिह्वाय । नखशस्त्राय । जवोत्कटाय । हिरण्यकशिपुच्छेदिने । क्रूरदैत्यनिवारकाय । सिंहासनस्थाय । क्रोधात्मने । लक्ष्मीभयविवर्धनाय । ब्रह्माद्यत्यन्तभयभुवे । अपूर्वाचिन्त्यरूपधृशे । भक्तैकशान्तहृदयाय । भक्तस्तुत्याय नमः । ५२० ओं स्तुतिप्रियाय नमः । भक्ताङ्गलेहनोद्धूतक्रोधपुञ्जाय । प्रशान्तधिये । स्मृतिमात्रभयत्रात्रे । ब्रह्मबुद्धिप्रदायकाय । गोरूपधारिणे । अमृतपाय । शिवकीर्तिविवर्धनाय । धर्मात्मने । सर्वकर्मात्मने । विशेषात्मने । आश्रमप्रभवे । संसारमग्नस्योद्धर्त्रे । सन्मार्गाखिलतत्त्ववाचे । अष्टमस्कन्धतः - आचारात्मने । सदाचाराय । मन्वन्तरविभावनाय । स्मृत्याशेषाशुभहराय । गजेन्द्रस्मृतिकारणाय । जातिस्मरणहेत्वेकपूजाभक्तिस्वरूपदाय नमः । ५४० ओं यज्ञाय नमः । भयान्मनुत्रात्रे । विभवे । ब्रह्मव्रताश्रयाय । सत्यसेनाय । दुष्टघातिने । हरये । गजविमोचकाय । वैकुण्ठाय । लोककर्त्रे । अजिताय । अमृतकारणाय । उरुक्रमाय । भूमिहर्त्रे । सार्वभौमाय । बलिप्रियाय । विभवे । सर्वहितैकात्मने । विष्वक्सेनाय । शिवप्रियाय नमः । ५६० धर्मसेतवे नमः । लोकधृतये । सुधामान्तरपालकाय । उपहर्त्रे । योगपतये । बृहद्भानवे । क्रियापतये । चतुर्दशप्रमाणात्मने । धर्माय । मन्वादिबोधकाय । लक्ष्मीभोगैकनिलयाय । देवमन्त्रप्रदायकाय । दैत्यव्यामोहकाय । साक्षाद्गरुडस्कन्धसंश्रयाय । लीलामन्दरधारिणे । दैत्यवासुकिपूजिताय । समुद्रोन्मथनायत्ताय । अविघ्नकर्त्रे । स्ववाक्यकृते । आदिकूर्माय नमः । ५८० ओं पवित्रात्मने नमः । मन्दराघर्षणोत्सुकाय । श्वासैजदब्धिवार्वीचये । कल्पान्तावधिकार्यकृते । चतुर्दशमहारत्नाय । लक्ष्मीसौभाग्यवर्धनाय । धन्वन्तरये । सुधाहस्ताय । यज्ञभोक्त्रे । आर्तिनाशनाय । आयुर्वेदप्रणेत्रे । देवदैत्याखिलार्चिताय । बुद्धिव्यामोहकाय । देवकार्यसाधनतत्पराय । मायया स्त्रीरूपाय । वक्त्रे । दैत्यान्तःकरणप्रियाय । पायितामृतदेवांशाय । युद्धहेतुस्मृतिप्रदाय । सुमालिमालिवधकृते नमः । ६०० माल्यवत्प्राणहारकाय नमः । कालनेमिशिरश्छेदिने । दैत्ययज्ञविनाशकाय । इन्द्रसामर्थ्यदात्रे । दैत्यशेषस्थितिप्रियाय । शिवव्यामोहकाय । मायिने । भृगुमन्त्रस्वशक्तिदाय । बलिजीवनकर्त्रे । स्वर्गहेतवे । ब्रह्मार्चिताय । अदित्यानन्दकर्त्रे । कश्यपादितिसम्भवाय । उपेन्द्राय । इन्द्रावरजाय । वामनब्रह्मरूपधृशे । ब्रह्मादिसेवितवपुषे । यज्ञपावनतत्पराय । याज्ञोपदेशकर्त्रे । ज्ञापिताशेषसंस्थिताय नमः । ६२० सत्यार्थप्रेरकाय नमः । सर्वहर्त्रे । गर्वविनाशकाय । त्रिविक्रमाय । त्रिलोकात्मने । विश्वमूर्तये । पृथुश्रवसे । पाशबद्धबलये । सर्वदैत्यपक्षोपमर्दकाय । सुतलस्थापितबलये । स्वर्गाधिकसुखप्रदाय । कर्मसम्पूर्तिकर्त्रे । स्वर्गसंस्थापितामराय । ज्ञातत्रिविधधर्मात्मने । महामीनाय । अब्धिसंश्रयाय । सत्यव्रतप्रियाय । गोप्त्रे । मत्स्यमूर्तिधृतश्रुतये । श‍ृङ्गबद्धधृतक्षोणये नमः । ६४०॥ ओं सर्वार्थज्ञापकाय नमः । गुरवे । नवमस्कन्धतः - ईशसेवकलीलात्मने । सूर्यवंशप्रवर्तकाय । सोमवंशोद्भवकराय । मनुपुत्रगतिप्रदाय । अम्बरीषप्रियाय । साधवे । दुर्वासोगर्वनाशकाय । ब्रह्मशापोपसंहर्त्रे । भक्तकीर्तिविवर्धनाय । इक्ष्वाकुवंशजनकाय । सगराद्यखिलार्थदाय । भगीरथमहायत्नाय । गङ्गाधौताङ्घ्रिपङ्कजाय । ब्रह्मस्वामिने । शिवस्वामिने । सगरात्मजमुक्तिदाय । खट्वाङ्गमोक्षहेतवे । रघुवंशविवर्धनाय नमः । ६६० ओं रघुनाथाय नमः । रामचन्द्राय । रामभद्राय । रघुप्रियाय । अनन्तकीर्तये । पुण्यात्मने । पुण्यश्लोकैकभास्कराय । कोशलेन्द्राय । प्रमाणात्मने । सेव्याय । दशरथात्मजाय । लक्ष्मणाय । भरताय । शत्रुघ्नाय । व्यूहविग्रहाय । विश्वामित्रप्रियाय । दान्ताय । ताडकावधमोक्षदाय । वायव्यास्त्राब्धिनिक्षिप्तमारीचाय । सुबाहुघ्ने नमः । ६८० वृषध्वजधनुर्भङ्गप्राप्तसीतामहोत्सवाय । सीतापतये । भृगुपतिगर्व पर्वतनाशकाय । अयोध्यास्थमहाभोगयुक्तलक्ष्मीविनोदवते । कैकयीवाक्यकर्त्रे । पितृवाक्परिपालकाय । वैराग्यबोधकाय । अनन्यसात्त्विकस्थानबोधकाय । अहल्यादुःखहारिणे । गुहस्वामिने । सलक्ष्मणाय । चित्रकूटप्रियस्थानाय । दण्डकारण्यपावनाय । शरभङ्गसुतीक्ष्णादिपूजिताय । अगस्त्यभाग्यभुवे । ऋषिसम्प्रार्थितकृतये । विराधवधपण्डिताय । छिन्नशूर्पणखानासाय । खरदूषणघातकाय । एकबाणहतानेकसहस्रबलराक्षसाय नमः । ७०० मारीचघातिने नमः । नियतसत्तासम्बन्धशोभिताय । सीतावियोगनाट्याय । जटायुवधमोक्षदाय । शबरीपूजिताय । भक्तहनुमत्प्रमुखावृताय । दुन्दुभ्यस्थिप्रहरणाय । सप्ततालविभेदनाय । सुग्रीवराज्यदाय । वालिघातिने । सागरशोषिणे । सेतुबन्धकर्त्रे । विभीषणहितप्रदाय । रावणादिशिरश्छेदिने । राक्षसाघौघनाशकाय । सीताऽभयप्रदात्रे । पुष्पकागमनोत्सुकाय । अयोध्यापतये । अत्यन्तसर्वलोकसुखप्रदाय । मथुरापुरनिर्मात्रे नमः । ७२० सुकृतज्ञस्वरूपदाय नमः । जनकज्ञानगम्याय । ऐलान्तप्रकटश्रुतये । हैहयान्तकराय । रामाय । दुष्टक्षत्रविनाशकाय । सोमवंशहितैकात्मने । यदुवंशविवर्धनाय । दशमस्कन्धतः - परब्रह्मावतरणाय । केशवाय । क्लेशनाशनाय । भूमिभारावतरणाय । भक्तार्थाखिलमानसाय । सर्वभक्तनिरोधात्मने । लीलानन्तनिरोधकृते । भूमिष्ठपरमानन्दाय । देवकीशुद्धिकारणाय । वसुदेवज्ञाननिष्ठसमजीवनवारकाय । सर्ववैराग्यकरणस्वलीलाधारशोधकाय । मायाज्ञापनकर्त्रे नमः । ७४० शेषसम्भारसम्भृतये नमः । भक्तक्लेशपरिज्ञात्रे । तन्निवारणत त्पराय । आविष्टवसुदेवांशाय । देवकीगर्भभूषणाय । पूर्णतेजोमयाय । पूर्णाय । कंसाधृष्यप्रतापवते । विवेकज्ञानदात्रे । ब्रह्माद्यखिलसंस्तुताय । सत्याय । जगत्कल्पतरवे । नानारूपविमोहनाय । भक्तिमार्गप्रतिष्ठात्रे । विद्वन्मोहप्रवर्तकाय । मूलकालगुणद्रष्ट्रे । नयनानन्दभाजनाय । वसुदेवसुखाब्धये । देवकीनयनामृताय । पितृमातृस्तुताय नमः । ७६० पूर्वसर्ववृत्तान्तबोधकाय नमः । गोकुलागतिलीलाप्तवसुदेवकरस्थितये । सर्वेशत्वप्रकटनाय । मायाव्यत्ययकारकाय । ज्ञानमोहितदुष्टेशाय । प्रपञ्चास्मृतिकारणाय । यशोदानन्दनाय । नन्दभाग्यभूगोकुलोत्सवाय । नन्दप्रियाय । नन्दसूनवे । यशोदायाः स्तनन्धयाय । पूतनासुपयःपात्रे । मुग्धभावातिसुन्दराय । सुन्दरीहृदयानन्दाय । गोपीमन्त्राभिमन्त्रिताय । गोपालाश्चर्यरसकृते । शकटासुरखण्डनाय । नन्दव्रजजनानन्दिने । नन्दभाग्यमहोदयाय । तृणावर्तवधोत्साहाय नमः । ७८० यशोदाज्ञानविग्रहाय नमः । बलभद्रप्रियाय । कृष्णाय । सङ्कर्षणसहायवते । रामानुजाय । वासुदेवाय । गोष्ठाङ्गणगतिप्रियाय । किङ्किणीरवभावज्ञाय । वत्सपुच्छावलम्बनाय । नवनीतप्रियाय । गोपीमोहसंसारनाशकाय । गोपबालकभावज्ञाय । चौर्यविद्याविशारदाय । मृत्स्नाभक्षणलीलास्यमाहात्म्यज्ञानदायकाय । धराद्रोणप्रीतिकर्त्रे । दधिभाण्डविभेदनाय । दामोदराय । भक्तवश्याय । यमलार्जुनभञ्जनाय । बृहद्वनमहाश्चर्याय नमः । ८०० वृन्दावनगतिप्रियाय नमः । वत्सघातिने । बालकेलये । बकासुरनिषूदनाय । अरण्यभोक्त्रे । बाललीलापरायणाय । प्रोत्साहजनकाय । अघासुरनिषूदनाय । व्यालमोक्षप्रदाय । पुष्टाय । ब्रह्ममोहप्रवर्धनाय । अनन्तमूर्तये । सर्वात्मने । जङ्गमस्थावराकृतये । ब्रह्ममोहनकर्त्रे । स्तुत्याय । आत्मने । सदाप्रियाय । पौगण्डलीलाभिरतये । गोचारणपरायणाय नमः । ८२० वृन्दावनलतागुल्मवृक्षरूपनिरूपकाय नमः । नादब्रह्मप्रकटनाय । वयःप्रतिकृतिनिःस्वनाय । बर्हिनृत्यानुकरणाय । गोपालानुकृतिस्वनाय । सदाचारप्रतिष्ठात्रे । बलश्रमनिराकृतये । तरुमूलकृताशेषतल्पशायिने । सखिस्तुताय । गोपालसेवितपदाय । श्रीलालितपदाम्बुजाय । गोपसम्प्रार्थितफलदाननाशितधेनुकाय । कालीयफणिमाणिक्यरञ्जितश्रीपदाम्बुजाय । दृष्टिसञ्जीविताशेषगोपगोगोपिकाप्रियाय । लीलासम्पीतदावाग्नये । प्रलम्बवधपण्डिताय । दावाग्न्यावृतगोपालदृष्ट्याच्छादनवह्निपाय । वर्षाशरद्विभूतिश्रिये । गोपीकामप्रबोधकाय । गोपीरत्नस्तुताशेषवेणुवाद्यविशारदाय नमः । ८४० कात्यायनीव्रतव्याजसर्वभावाश्रिताङ्गनाय नमः । सत्सङ्गतिस्तुतिव्याजस्तुतवृन्दावनाङ्घ्रिपाय । गोपक्षुच्छान्ति संव्याज विप्रभार्याप्रसादकृते । हेतुप्राप्तेन्द्रयागस्वकार्यगोसवबोधकाय नमः । शैलरूपकृताशेषरसभोगसुखावहाय । लीलागोवर्धनोद्धारपालितस्वव्रजप्रियाय । गोपस्वच्छन्दलीलार्थगर्गवाक्यार्थबोधकाय । इन्द्रधेनुस्तुतिप्राप्तगोविन्देन्द्राभिधानवते । व्रतादिधर्मसंसक्तनन्दक्लेशविनाशकाय । नन्दादिगोपमात्रेष्टवैकुण्ठगतिदायकाय । वेणुवादस्मरक्षोभमत्तगोपीविमुक्तिदाय । सर्वभावप्राप्तगोपीसुखसंवर्धनक्षमाय । गोपीगर्वप्रणाशार्थतिरोधानसुखप्रदाय । कृष्णभावव्याप्तविश्वगोपी भावितवेशधृषे । राधाविशेषसम्भोगप्राप्तदोषनिवारकाय । परमप्रीतिसङ्गीतसर्वाद्भुतमहागुणाय । मानापनोदनाक्रन्दगोपीदृष्टिमहोत्सवाय । गोपिकाव्याप्तसर्वाङ्गाय । स्त्रीसम्भाषविशारदाय । रासोत्सवमहासौख्यगोपीसम्भोगसागराय नमः । ८६० जलस्थलरतिव्याप्तगोपीदृष्ट्यभिपूजिताय नमः । शास्त्रानपेक्षकामैकमुक्तिद्वारविवर्धनाय । सुदर्शनमहासर्पग्रस्तनन्दविमोचकाय । गीतमोहितगोपीधृक्शङ्खचूडविनाशकाय । गुणसङ्गीतसन्तुष्टये । गोपीसंसारविस्मृतये । अरिष्टमथनाय । दैत्यबुद्धिव्यामोहकारकाय । केशिघातिने । नारदेष्टाय । व्योमासुरविनाशकाय । अक्रूरभक्तिसंराद्धपादरेणुमहानिधये । रथावरोहशुद्धात्मने । गोपीमानसहारकाय । ह्रदसन्दर्शिताशेषवैकुण्ठाक्रूरसंस्तुताय । मथुरागमनोत्साहाय । मथुराभाग्यभाजनाय । मथुरानगरीशोभादर्शनोत्सुकमानसाय । दुष्टरञ्जकघातिने । वायकार्चितविग्रहाय नमः । ८८० ओं वस्त्रमालासुशोभाङ्गाय नमः । कुब्जालेपनभूषिताय । कुब्जासुरूपकर्त्रे । कुब्जारतिवरप्रदाय । प्रसादरूपसन्तुष्टहरकोदण्डखण्डनाय । शकलाहतकंसाप्तधनूरक्षकसैनिकाय । जाग्रत्स्वप्नभयव्याप्तमृत्युलक्षणबोधकाय । मथुरामल्लाय । ओजस्विने । मल्लयुद्धविशारदाय । सद्यः कुवलयापीडघातिने । चाणूरमर्दनाय । लीलाहतमहामल्लाय । शलतोशलघातकाय । कंसान्तकाय । जितामित्राय । वसुदेवविमोचकाय । ज्ञातततेत्त्वपितृज्ञानमोहनामृतवाङ्मयाय । उग्रसेन प्रतिष्ठात्रे । यादवाधिविनाशकाय नमः । ९०० ओं नन्दादिसान्त्वनकराय नमः । ब्रह्मचर्यव्रते स्थिताय । गुरुशुश्रूषणपराय । विद्यापारमितेश्वराय । सान्दीपनिमृतापत्यदात्रे । कालान्तकादिजिते । गोकुलाश्वासनपराय । यशोदानन्दपोषकाय । गोपिकाविरहव्याजमनोगतिरतिप्रदाय । समोद्भवभ्रमरवाचे । गोपिकामोहनाशकाय । कुब्जारतिप्रदाय । अक्रूरपवित्रीकृतभूगृहाय । पृथादुःखप्रणेत्रे । पाण्डवानां सुखप्रदाय । उत्तरार्धतः - जरासन्धसमानीतसैन्यघातिने । विचारकाय । यवनव्याप्तमथुराजनदत्तकुशस्थलिने । द्वारकाद्भुतनिर्माणविस्मापितसुरासुराय । मनुष्यमात्रभोगार्थभूम्यानीतेन्द्रवैभवाय नमः । ९२० यवनव्याप्तमथुरानिर्गमानन्दविग्रहाय नमः । मुचुकुन्दमहाबोधयवनप्राणदर्पघ्ने । मुचुकुन्दस्तुताशेषगुणकर्ममहोदयाय । फलप्रदानसन्तुष्टये । जन्मान्तरितमोक्षदाय । शिवब्राह्मणवाक्याप्तजयभीतिविभावनाय । प्रवर्षणप्रार्थिताग्निदानपुण्यमहोत्सवाय । रुक्मिणीरमणाय । कामपित्रे । प्रद्युम्नभावनाय । स्यमन्तकमणिव्याजप्राप्तजाम्बवतीपतये । सत्यभामाप्राणपतये ।कालिन्दीरतिवर्धनाय । मित्रविन्दापतये । सत्यापतये । वृषनिषूदनाय । भद्रावाञ्छितभर्त्रे । लक्ष्मणावरणक्षमाय । इन्द्रादिप्रार्थितवधनरकासुरसूदनाय । मुरारये नमः । ९४० पीठहन्त्रे नमः । ताम्रादिप्राणहारकाय । षोडशस्त्रीसहस्रेशाय । छत्रकुण्डलदानकृते । पारिजातापहरणाय । देवेन्द्रमदनाशकाय । रुक्मिणीसमसर्वस्त्रीसाध्यभोगरतिप्रदाय । रुक्मिणीपरिहासोक्तिवाक्तिरोधानकारकाय । पुत्रपौत्रमहाभाग्यगृहधर्मप्रवर्तकाय । शम्बरान्तकसत्पुत्रविवाहहतरुक्मिकाय । उषापहृतपौत्रश्रिये । बाणबाहुनिवारकाय । शीतज्वरभयव्याप्तज्वरसंस्तुतषड्गुणाय । शङ्करप्रतियोद्ध्रे । द्वन्द्वयुद्धविशारदाय । नृगपापप्रभेत्त्रे । ब्रह्मस्वगुणदोषदृशे । विष्णुभक्तिविरोधैकब्रह्मस्वविनिवारकाय । बलभद्राहितगुणाय । गोकुलप्रीतिदायकाय नमः । ९६० गोपीस्नेहैकनिलयाय नमः । गोपीप्राणस्थितिप्रदाय । वाक्यातिगामियमुनाहलाकर्षणवैभवाय । पौण्ड्रकत्याजितस्पर्धाय । काशीराजविभेदनाय । काशीनिदाहकरणाय । शिवभस्मप्रदायकाय । द्विविदप्राणघातिने । कौरवाखर्वगर्वनुदे । लाङ्गलाकृष्टनगरीसंविग्नाखिलनागराय । प्रपन्नाभयदाय । साम्बप्राप्तसन्मानभाजनाय । नारदान्विष्टचरणाय । भक्तविक्षेपनाशकाय । सदाचारैकनिलयाय । सुधर्माध्यासिताननाय । जरासन्धावरुद्धेन विज्ञापितनिजक्लमाय । मन्त्र्युद्धवादिवाक्योक्तप्रकारैकपरायणाय । राजसूयादिमखकृते । सम्प्रार्थितसहायकृते नमः । ९८० इन्द्रप्रस्थप्रयाणार्थमहत्सम्भारसम्भृतये नमः । जरासन्धवधव्याजमोचिताशेषभूमिपाय । सन्मार्गबोधकाय । यज्ञक्षितिवारणतत्पराय । शिशुपालहतिव्याजजयशापविमोचकाय । दुर्योधनाभिमानाब्धिशोषबाणवृकोदराय । महादेववरप्राप्तपुरशाल्वविनाशकाय । दन्तवक्त्रवधव्याजविजयाघौघनाशकाय । विदूरथप्राणहर्त्रे । न्यस्तशस्त्रास्त्रविग्रहाय । उपधर्मविलिप्ताङ्गसूतघातिने । वरप्रदाय । बल्वलप्राणहरणपालितर्षिनुतिक्रियाय । सर्वतीर्थाघनाशार्थतीर्थयात्राविशारदाय । ज्ञानक्रियाविभेदेष्टफलसाधनतत्पराय । सारथ्यादिक्रियाकर्त्रे । भक्तवश्यत्वबोधकाय । सुदामरङ्कभार्यार्थभूम्यानीतेन्द्रवैभवाय । रविग्रहनिमित्ताप्तकुरुक्षेत्रैकपावनाय । नृपगोपीसमस्तस्त्रीपावनार्थाखिलक्रियाय नमः । १००० ओं ऋषिमार्गप्रतिष्ठात्रे नमः । वसुदेवमखक्रियाय । वसुदेवज्ञानदात्रे । देवकीपुत्रदायकाय । अर्जुनस्त्रीप्रदात्रे । बहुलाश्वस्वरूपदाय । श्रुतदेवेष्टदात्रे । सर्वश्रुतिनिरूपिताय । महादेवाद्यतिश्रेष्ठाय । भक्तिलक्षणनिर्णयाय । वृकग्रस्तशिवत्रात्रे । नानावाक्यविशारदाय । नरगर्वविनाशार्थ-हृतब्राह्मणबालकाय । लोकालोकपरस्थानस्थितबालकदायकाय । द्वारकास्थमहाभोगनानास्त्रीरतिवर्धनाय । मनस्तिरोधानकृतव्यग्रस्त्रीचित्तभाविताय ॥ एकादशस्कन्धतः - मुक्तिलीलाविहरणाय । मौशलव्याजसंहृतये । श्रीभागवतधर्मादिबोधकाय । भक्तिनीतिकृते नमः । १०२० ओं उद्धवज्ञानदात्रे नमः । पञ्चविंशतिधा गुरवे । आचारभक्तिमुक्त्यादिवक्त्रे । शब्दोद्भवस्थितये । हंसाय । धर्मप्रवक्त्रे । सनकाद्युपदेशकृते । भक्तिसाधनवक्त्रे । योगसिद्धिप्रदायकाय । नानाविभूतिवक्त्रे । शुद्धधर्मावबोधकाय । मार्गत्रयविभेदात्मने । नानाशङ्कानिवारकाय । भिक्षुगीताप्रवक्त्रे । शुद्धसाङ्ख्यप्रवर्तकाय । मनोगुणविशेषात्मने । ज्ञापकोक्तपुरूरवसे । पूजाविधिप्रवक्त्रे । सर्वसिद्धान्तबोधकाय । लघुस्वमार्गवक्त्रे नमः । १०४० ओं स्वस्थानगतिबोधकाय नमः । यादवाङ्गोपसंहर्त्रे । सर्वाश्चर्यगतिक्रियाय । द्वादशस्कन्धतः - कालधर्मविभेदार्थवर्णनाशनतत्पराय । बुद्धाय । गुप्तार्थवक्त्रे । नानाशास्त्रविधायकाय । नष्टधर्ममनुष्यादिलक्षणज्ञापनोत्सुकाय । आश्रयैकगतिज्ञात्रे । कल्किने । कलिमलापहाय । शास्त्रवैराग्यसम्बोधाय ंआनाप्रलयबोधकाय । विशेषतः शुकव्याजपरीक्षिज्ज्ञानबोधकाय । शुकेष्टगतिरूपात्मने । परीक्षिद्देहमोक्षदाय । शब्दरूपाय । नादरूपाय । वेदरूपाय । विभेदनाय नमः । १०६० ओं व्यासाय नमः । शाखाप्रवक्त्रे । पुराणार्थप्रवर्तकाय । मार्कण्डेयप्रसन्नात्मने । वटपत्रपुटेशयाय । मायाव्याप्तमहामोहदुःखशान्तिप्रवर्तकाय । महादेवस्वरूपाय । भक्तिदात्रे । कृपानिधये । आदित्यान्तर्गताय । कालाय । द्वादशात्मने । सुपूजिताय । श्रीभागवतरूपाय । सर्वार्थफलदायकाय नमः । १०७५ इति भागवतकथाऽनुसारिणी पुरुषोत्तमसहस्रनामावलिः समाप्ता ।