अक्षर आकार:

पुरुषोत्तममालास्तोत्रम्

Purushottamamalastotram

पुरुषोत्तममालास्तोत्रम्

नीलाद्रौ मालां मुकुन्दशिरसोऽनुपमप्रमोदलाभाधरीकृतसुरद्रुमकान्तगन्धाम् । अन्धीकृतालिनिचयां पवनप्रसारिगन्धप्रणाशितजगत्कलुषां नमामि ॥ १॥ यत्पादपङ्कजगलद्रजसोनुषङ्गा ब्रह्मादयः परमसम्पदमापुरस्य । विष्णोः कलेवरसमुज्ज्वलिताङ्गरागसंसक्तपुष्पनिलयां प्रणतोऽस्मि मालाम् ॥ २॥ पद्मां हृत्पद्मवसतिं सपत्नीं या हसत्यसौ । विकस्वरैः सुकुसुमैर्विष्ण्वङ्कस्थितिगर्विताम् ॥ ३॥ कुत्र स्थितेयमाहार्षीन्महिमानं स्रगुज्ज्वला । या श्रीनिधेः शरीरेऽभूत्सर्वाङ्गव्यापिनी चिरम् ॥ ४॥ जय नीलाद्रिशिखरभूषणाघप्रदूषण । प्रणतार्तिहर श्रीमंस्त्राहि मां शरणागतम् ॥ ५॥ इति श्रीस्कन्दपुराणे वैष्णवखण्डे पुरुषोत्तममाहात्म्ये मालास्तोत्रं सम्पूर्णम् ।