अक्षर आकार:

पुष्टिप्रवाहमर्यादाभेदः

puShTipravAhamaryAdAbhedaH

पुष्टिप्रवाहमर्यादाभेदः

पुष्टिप्रवाहमर्यादा विशेषेण पृथक्पृथक् । जीवदेहक्रियाभेदैः प्रवाहेण फलेन च ॥ १॥ वक्ष्यामि सर्वसन्देहा न भविष्यन्ति यच्छ्रुते । भक्तिमार्गस्य कथनात्पुष्टिरस्तीति निश्चयः ॥ २॥ द्वौ भूतसर्गावित्युक्तेः प्रवाहोऽपि व्यवस्थितः । द्वौ भूतसर्गावित्युक्तेः प्रवाहोऽपि व्यवस्थिता ॥ ३॥ कश्चिदेव हि भक्तो हि यो मद्भक्त इतीरणात् । सर्वत्रोत्कर्षकथनात्पुष्टिरस्तीति निश्चयः ॥ ४॥ न सर्वोऽतः प्रवाहाद्धि भिन्नो वेदाच्च भेदतः । यदा यस्येति वचनान्नाहं वेदैरितीरणात् ॥ ५॥ मार्गेकत्वेऽपि चेदन्त्यौ तनू भक्त्यागमौ मतौ । न तद्युक्तं सूत्रतो हि भिन्नो युक्त्या हि वैदिकः ॥ ६॥ जीवदेहकृतीनां च भिन्नत्त्वं नित्यता श्रुतेः । यथा तद्वत्पुष्टिमार्गे द्वयोरपि निषेधतः ॥ ७॥ प्रमाणभेदाद्भिन्नो हि पुष्टिमार्गो निरूपितः । सर्गभेदं प्रवक्ष्यामि स्वरूपाङ्गक्रियायुतम् ॥ ८॥ इच्छामात्रेण मनसा प्रवाहं सृष्टवान् हरिः । वचसा वेदमार्गे हि पुष्टिं कायेन निश्चयः ॥ ९॥ मूलेच्छातः फलं लोके वेदोक्तं वैदिकेऽपि च । कायेन तु फलं पुष्टौ भिन्नेच्छातोऽपि नैकता ॥ १०॥ तानहं द्विषतो वाक्याद्भिन्ना जीवाः प्रवाहिणः । अत एवेतरौ भिन्नौ सान्तौ मोक्षप्रवेशतः ॥ ११॥ तस्माज्जीवाः पुष्टिमार्गे भिन्ना एव न संशयः । भगवद्रूपसेवार्थं तत्सृष्टिर्नान्यथा भवेत् ॥ १२॥ स्वरूपेणावतारेण लिङ्गेन च गुणेन च । तारतम्यं न स्वरूपे देहे वा तत्क्रियासु वा ॥ १३॥ तथापि तावता कार्यं यावत्तस्य करोति हि । ते हि द्विधा शुद्धमिश्रभेदान्मिश्रास्त्रिधा पुनः ॥ १४॥ प्रवाहादिविभेदेन भगवत्कार्यसिद्धये । पुष्ट्या विमिश्राः सर्वज्ञाः प्रवाहेण क्रियारताः ॥ १५॥ मर्यादया गुणज्ञास्ते शुद्धाः प्रेम्णातिदुर्लभाः । एवं सर्गस्तु तेषां हि फलं त्वत्र निरूप्यते ॥ १६॥ भगवानेव हि फलं स यथाऽऽविर्भवेद्भुवि । गुणस्वरूपभेदेन तथा तेषां फलं भवेत् ॥ १७॥ आसक्तौ भगवानेव शापं दापयति क्वचित् । अहङ्कारेऽथवा लोके तन्मार्गस्थापनाय हि ॥ १८॥ न ते पाषण्डतां यान्ति न च रोगाद्युपद्रवाः । महानुभावाः प्रायेण शास्त्रं शुद्धत्वहेतवे ॥ १९॥ भगवत्तारतम्येन तारतम्यं भजन्ति हि । वैदिकत्वं लौकिकत्त्वं कापट्यात्तेषु नान्यथा ॥ २०॥ वैष्णवत्वं हि सहजं ततोऽन्यत्र विपर्ययः । सम्बन्धिनस्तु ये जीवाः प्रवाहस्थास्तथापरे ॥ २१॥ चर्षणीशब्दवाच्यास्ते ते सर्वे सर्ववर्त्मसु । क्षणात्सर्वत्वमायान्ति रुचिस्तेषां न कुत्रचित् ॥ २२॥ तेषां क्रियानुसारेण सर्वत्र सकलं फलम् । प्रवाहस्थान्प्रवक्ष्यामि स्वरूपाङ्गक्रियायुतान् ॥ २३॥ जीवास्ते ह्यासुरा सर्वे प्रवृत्तिं चेति वर्णिताः । ते च द्विधा प्रकीर्त्यन्ते ह्यज्ञदुर्ज्ञविभेदतः ॥ २४॥ दुर्ज्ञास्ते भगवत्प्रोक्ता ह्यज्ञास्ताननु ये पुनः । प्रवाहेऽपि समागत्य पुष्टिस्थस्तैर्न युज्यते । सोऽपि तैस्तत्कुले जातः कर्मणा जायते यतः ॥ २५॥ इति श्रीवल्लभाचार्यविरचितः पुष्टिप्रवाहमर्यादाभेदः समाप्तः ।