अक्षर आकार:

पुष्टिमार्गलक्षणानि

puShTimArgalakShaNAni

पुष्टिमार्गलक्षणानि

सर्वसाधनराहित्यं फलास्तौ यत्र साधनम् । फलं वा साधनं यत्र पुष्टिमार्गः स कथ्यते ॥ १॥ अनुग्रहेणैव सिद्धिलौकिकी यत्र वैदिकी । प्रयत्नादन्यथा विद्मः पुष्टिमार्गः सः कथ्यते ॥ २॥ स्वरूपमात्रपरता तात्पर्यज्ञानपूर्वकम् । धर्मनिष्ठा यत्र चैव पुष्टिमार्गः स कथ्यते ॥ ३॥ यत्राङ्गीकरणेनैव योग्यतादिविचारणम् । अविलम्बः प्रभुकृतः पुष्टिमार्गः स कथ्यते ॥ ४॥ यत्र प्रभुकृतं नैव गुणदोषविचारणम् । अविलम्बः प्रभुकृतः पुष्टिमार्गः स कथ्यते ॥ ५॥ न लोकवेदसापेक्षं सर्वथा यत्र वर्तते । सापेक्षता स्वामिमुखे पूष्टिमार्गः स कथ्यते ॥ ६॥ वरणे दृश्यते यत्र हेतुर्नाणुरपि स्वतः । वरणं च निजेच्छातः पुष्टिमार्गः स कथ्यते ॥ ७॥ यत्र स्वतन्त्रता भक्तेराविर्भावानपेक्षणात् । सानुभावस्वरूपत्वं पुष्टिमार्गः स कथ्यते ॥ ८॥ लोकवेदभयाभावो यत्र भावातिरेकतः । सर्वबाधकतास्फूर्तिः पुष्टिमार्गः स कथ्यते ॥ ९॥ सम्बन्धः साधनं यत्र फलं सम्बन्ध एव हि । सोऽपि कृष्णेच्छया जातः पुष्टिमार्गः सकथ्यते ॥ १०॥ तत्सम्बधिषु तद्भावस्तद्भिन्नेषु विरोधिता । उदासीनेषु समता पुष्टिमार्गः स कथ्यते ॥ ११॥ विद्यमानस्य देहादेर्न स्वीयत्वेन भावनम् । परोक्षेऽपि तदर्थित्वं पुष्टिमार्गः स कथ्यते ॥ १२॥ भजने यत्र सेव्यस्य नोपकारकृतिः क्वचित् । पोषणं भावमात्रस्य पुष्टिमार्गः स कथ्यते ॥ १३॥ भजनस्यापवादो न क्रियते फलदानतः । प्रभुणा यत्र तद्भावात्पुष्टिमार्गः स कथ्यते ॥ १४॥ यत्र वा सुखसम्बधो वियोगे सङ्गमादपि । सर्वलीलानुभावेन पुष्टिमार्ग सः कथ्यते ॥ १५॥ फले च साधने चैव सर्वत्र विपरीतता । फलाभावः साधनस्य पुष्टिमार्गः स कथ्यते ॥ १६॥ पश्चात्तापः सदा यत्र तत्सम्बन्धिकृतावपि । वैन्योद्भावाय सततं पुष्टिमार्गः स कथ्यते ॥ १७॥ आविर्भावाय सापेक्षं दैन्यं यत्र हि साधनम् । फलं वियोगजं दैन्यं पुष्टिमार्गः स कथ्यते ॥ १८॥ विषयत्वेन तत्त्यागः स्वस्मिन् विषयातास्मृतेः । यत्र वै सर्वभावेन पुष्टिमार्गः स कथ्यते ॥ १९॥ एवंविधैर्विशेषेण प्रकारैस्तु सदाश्रितैः । हृदि धृत्वा निजाचार्यान्पुष्टिमार्गो हि बुध्यताम् ॥ २०॥ इति श्रीहरिदासनिरूपितपुष्टिमार्गलक्षणानि सम्पूर्णानि ।