अक्षर आकार:

मोक्षप्रदश्रीपुण्डरीकाक्षस्तोत्रम्

mokShapradashrIpuNDarIkAkShastotram

मोक्षप्रदश्रीपुण्डरीकाक्षस्तोत्रम्

वराह उवाच । नमस्ते पुण्डरीकाक्ष नमस्ते मधुसूदन । नमस्ते सर्व लोकेश नमस्ते तिग्मचक्रिणे ॥ १॥ विश्वमूर्तिं महाबाहुं वरदं सर्वतेजसम् । नमामि पुण्डरीकाक्षं विद्याऽविद्यात्मकं विभुम् ॥ २॥ आदिदेवं महादेवं वेदवेदाङ्गपारगम् । गम्भीरं सर्वदेवानां नमस्ये वारिजेक्षणम् ॥ ३॥ सहस्रशीर्षणं देवं सहस्राक्षं महाभुजम् । जगत्संव्याप्य तिष्ठन्तं नमस्ये परमेश्वरम् ॥ ४॥ शरण्यं शरणं देवं विष्णुं जिष्णुं सनातनम् । नीलमेघप्रतीकाशं नमस्ये चक्रपाणिनम् ॥ ५॥ शुद्धं सर्वगतं नित्यं व्योमरूपं सनातनम् । भावाभावविनिर्मुक्तं नमस्ये सर्वगं हरिम् ॥ ६॥ नान्यत्किञ्चित्प्रपश्यामि व्यतिरिक्तं त्वयाच्युत । त्वन्मयं च प्रपश्यामि सर्वमेतच्चराचरम् ॥ ७॥ इति मोक्षप्रदश्रीपुण्डरीकाक्षस्तोत्रं सम्पूर्णम् ॥