अक्षर आकार:

प्रेमामृतरसायनस्तोत्रम्

Premamritarasayanastotram

प्रेमामृतरसायनस्तोत्रम्

प्रेमावतारश्रीमन्महाप्रभुकृष्णचैतन्यदेव मुखपद्मविनिर्गतम् एकदा कृष्णविरहाद्ध्यायन्ती प्रियसङ्गमम् । मनोबाष्पनिरासाय जल्पतीदं मुहुर्मुहुः ॥ १॥ कृष्णः कृष्णेन्दुरानन्दो गोविन्दो गोकुलोत्सवः । गोपालो गोपगोपीशो वल्लवेन्द्रो व्रजेश्वरः ॥ २॥ प्रत्यहं नूतनतरस्तरुणानन्दविग्रहः । आनन्दैकसुखस्वामी सन्तोषाक्षयकोषभूः ॥ ३॥ आभीराभिनवानन्दः परमानन्दकन्दलः । वृन्दावनकलानाथो व्रजानङ्गनवाङ्कुरः ॥ ४॥ व्रजानन्द नयनानन्दकुसुमो व्रजभाग्यफलोदयः । प्रतिक्षणातिसुखदो मोहनो मधुरद्युतिः ॥ ५॥ सुधानिर्यासनिचयः सुन्दरः शीतलाकृतिः । श्यामलाकृतिः नवयौवनसम्भिन्नश्यामामृतरसार्णवः ॥ ६॥ इन्द्रनीलमणिस्वच्छो दलिताञ्जनचिक्कणः । इन्दीवरसुखस्पर्शो नीरदस्निग्धसुन्दरः ॥ ७॥ कर्पूरागरुकस्तूरीकुङ्कुमाक्ताङ्गधूसरः । सुकुञ्चितकचग्रस्तोल्लसच्चारुशिखण्डकः ॥ ८॥ मत्तालिविभ्रमत्पारिजातपुष्पावतंसकः । मत्तालिविलसत् आननेन्दुजितानन्तपूर्णशारदचन्द्रमाः ॥ ९॥ श्रीमल्ललाटपाटीरतिलकालकरञ्जितः । लीलोन्नतभ्रूविलासो मदालसविलोचनः ॥ १०॥ आकर्णारक्तसौन्दर्यलहरीदृष्टिमन्थरः । घूर्णायमाननयनः साचीक्षणविचक्षणः ॥ ११॥ अपाङ्गेङ्गितसौभाग्यतरलीकृतचेतनः । ईषन्मुद्रितलोलाक्षः सुनासापुटसुन्दरः ॥ १२॥ गण्डप्रान्तोल्लसत्कर्णमकराकृतिकुण्डलः । प्रसन्नानन्दवदनो जगदाह्लादकाननः ॥ १३॥ जगदाह्लादकारकः सुस्मेराधृतलावण्यप्रकाशीकृतदिङ्मुखः । धृतसौन्दर्य सिन्दूरारुणसुस्निग्धमाणिक्यदशनच्छदः ॥ १४॥ पीयूषाधिकमाध्वीकसूक्तः श्रुतिरसायनः । सूक्ति त्रिभङ्गललितस्तिर्यग्ग्रीवस्त्रैलोक्यमोहनः ॥ १५॥ कुञ्चिताधरसंसिक्तकूजद्वेणुविनोदवान् । सासक्तकूज कङ्कणाङ्गदकेयूरमुद्रिकादिलसद्भुजः ॥ १६॥ मुद्रिकाविलसद् स्वर्णसूत्रसुविन्यस्तकौस्तुभामुक्तकन्धरः । मुक्ताहारोल्लसद्वक्षः स्फुरच्छ्रीवत्सलाञ्छनः ॥ १७॥ आपीनहृदयो नीपमाल्यवान् बन्धुरोदरः । संवीतपीतवसनो रशनाविलसत्कटिः ॥ १८॥ अन्तरीयघटीबन्धप्रपदान्दोलिताञ्चलः । अरविन्दपदद्वन्द्वकलक्वणितनूपुरः ॥ १९॥ क्वणत्कारितनूपुरः बन्धूकारुणमाधुर्यसुकुमारपदाम्बुजः । पल्लवारुण नखचन्द्रजिताशेषदर्पणेन्दुमणिप्रभः ॥ २०॥ ध्वजवज्राङ्कुशाम्भोजराजच्चरणपल्लवः । त्रैलोक्याद्भुतसौन्दर्यपरिपाकमनोहरः ॥ २१॥ साक्षात्केलिकलामूर्तिः परिहासरसार्णवः । यमुनोपवनश्रेणीविहारी व्रजनागरः ॥ २२॥ श्रेणीविलासे गोपाङ्गनाजनासक्तो वृन्दारण्यपुरन्दरः । आभीरनागरीप्राणनायकः कामशेखरः ॥ २३॥ यमुनानाविको गोपीपारावारकृतोद्यमः । राधावरुन्धनरतः कदम्बवनमन्दिरः ॥ २४॥ राधावरोधन व्रजयोषित्सदाहृद्यो गोपीलोचनतारकः । जीवनानन्दरसिकः पूर्णानन्दकुतूहलः ॥ २५॥ यमुनानन्द गोपिकाकुचकस्तूरीपङ्किलः केलिलालसः । अलक्षितकुटीरस्थो राधासर्वस्वसम्पुटः ॥ २६॥ वल्लवीवदनाम्भोजमधुमत्तमधुव्रतः । निगूढरसविद्गोपीचित्ताह्लादककाननः ॥ २७॥ चित्ताह्लादकलानिधिः कालिन्दीपुलिनानन्दी क्रीडाताण्डवपण्डितः । आभीरिकानवानङ्गरङ्गभूमिसुधाकरः ॥ २८॥ जनानङ्ग विदग्धगोपवनिताचित्ताकूतविनोदकृत् । नानोपायनपाणिस्थगोपनारीगणावृतः ॥ २९॥ वाञ्छाकल्पतरुः कामकलारसशिरोमणिः । कन्दर्पकोटिलावण्यः कोटीन्दुललितद्युतिः ॥ ३०॥ जगत्त्रयमनोमोहकरो मन्मथमन्मथः । गोपसीमन्तिनीशश्वद्भावापेक्षापरायणः ॥ ३१॥ नवीनमधुरस्नेहः प्रेयसीप्रेमसञ्चयः । गोपीमनोरथाक्रान्तो नाट्यलीलाविशारदः ॥ ३२॥ प्रत्यङ्गरभसावेशप्रमदाप्राणवल्लभः । रासोल्लासमदोन्मत्तो राधिकारतिलम्पटः ॥ ३३॥ खेलालीलापरिश्रान्तः स्वेदाङ्कुरचिताननः । हेलालीला गोपिकाङ्कालसः श्रीमान् मलयानिलसेवितः ॥ ३४॥ (सकृत्प्रपन्नजनतासंरक्षणधुरन्धरः । सुप्रसन्ने वासुदेवो गोपिकाजनवल्लभः ॥) इत्येवं प्राणनाथस्य प्रेमामृतरसायनम् । यः पठेच्छरावयेद् वापि स प्रेम्णि प्रमिलेद् ध्रुवम् ॥ ३५॥ इति श्रीवल्लभाचार्यविरचितं कृष्णप्रेमामृतरसायनस्तोत्रम् सम्पूर्णम् । There are variations from Vishnustutimanjari 1 Also, some attribute this to chaitanyamahApravhu as well.