अक्षर आकार:

प्रपन्नमकरन्दस्तोत्रम्

Prapannamakarandastotram

प्रपन्नमकरन्दस्तोत्रम्

कलयतु कुशलानि कालमेघद्युतिमदधूननधीरदिव्यकान्ति । किमपि रघुकुलाम्बुराशिरत्नं सकलशुभावहनाम तच्चिरत्नम् ॥ १॥ घनतरकरुणामृताम्बुराशिप्रसरदुदारतरङ्गकैरपाङ्गैः । प्रशमितविनताळिचित्ततापं किमपि महो हृदि मेऽस्तु दिव्यरूपम् ॥ २॥ विविधमणिमरीचिजाललीलाशबलितहेमकिरीटलोलमालं । मृगमदतिलकस्फुरन्निटालं हृदय सदा भज कोसलेन्द्रबालम् ॥ ३॥ विमलकिरणब्राललीलफालप्रतिलुलितालकजाललालनीयम् । नवनलिनदलामलायताक्षं कमपि वशे कलयानि दीनरक्षम् ॥ ४॥ सुललितचलितातिविभ्रमभ्रूकलनविलोलितभूसुरान्तरङ्गे । मुकुरतललसत्कपोलभावे लगतु चिरं मम चित्तमादिदेवे ॥ ५॥ मणिगणरुचिराङ्गकुण्डलश्रीकवचितकर्णयुगे मनोज्ञनासे । विहरतु मम चित्तवृत्तिरेषा धरणिसुतावशगे चिराय धाम्नि ॥ ६॥ रसभरपरिपाकराजमानस्फुटतरदाडिमबीजदन्तपङ्क्तिम् । अधरमणिसुधाविधूतसीताहृदयजतापमुपास्महे पुमांसम् ॥ ७॥ शरदुदितसुधाकरांशुशैलीमदहरशीतलवाचि सुप्रसन्ने । अरुणकिरणभिन्नपद्मलक्ष्मीविजयिनि राममुखेऽस्तु मानसं मे ॥ ८॥ दरदळदरविन्दमन्दमन्दप्रसरदमन्दमरन्दसुन्दराङ्गाः । विवशितधरणीसुतान्तरङ्गा रघुनृपतेः प्रसरन्तु मय्यपाङ्गाः ॥ ९॥ अमृतरुचिसहोदरस्मितश्रीजुषि घनकम्बुविडम्बिकन्धरेऽस्मिन् । सितकरकिरणात्युदारहारे मम हृदयं भवताद्विहारि वीरे ॥ १०॥ करकमलगळन्मरन्दधाराविशयवदावददिव्यचापदण्डम् । अशिशिरकरवंशजाग्रगण्यं विशतु मनो मम धन्विनां वरेण्यम् ॥ ११॥ निशिचरकुलकल्पितोग्रदण्डं मनसि महो मम भासतामखण्डम् । अरिसरसिजधूनुनातिशौण्डद्विरदकरायितदीर्घबाहुदण्डम् ॥ १२॥ मरकतहरिनीलपद्मरागस्फुरितमहाङ्गदकङ्कणादिसेव्यम् । मम नयनपथेऽस्तु वस्तु दिव्यं शुभहरिचन्दनचर्चनातिभव्यम् ॥ १३॥ नवतरुणिमजानकीमनोज्ञस्तनयुगकर्कशतारसज्ञवक्षः । किमपि सकललोकभागधेयं मयि विशताच्छुभदायि नामधेयम् ॥ १४॥ नवजलधरवृन्दतुन्ददीव्यत्तटिदुपमानसुवर्णचारुचेलम् । त्रिवळिसुललितोदरं सुशीलं रघुकुलरत्नमुपास्महेऽतिनीलम् ॥ १५॥ कमलजजनिगेहनाभिपद्मस्फुटरसलोलुपरोमभृङ्गराजि । हृदि परिकलयामि कोसलेन्द्रक्षितिरमणीमृगनाभिचित्रकं तत् ॥ १६॥ मृगपतितनुमध्यमुन्नतांसं सुविपुलपीवरदिव्यबाहुमध्यम् । विधुकररुचिरान्तरीयमीडे कमपि युवानमुदारचारुमूर्तिम् ॥ १७॥ तरुणिममदनेभयुग्मलीलाप्रसृतकरद्वयसन्निभोरुयुग्मम् । सुमशरजयकाहळायमानस्फुटतरजङ्घमहं भजामि देवम् ॥ १८॥ शरणगजनचित्तभक्तिपूरहृदकमलाद्वितयं तदङ्घ्रियुग्मम् । मृदुलशुभतरांङ्गुळीमनोज्ञं रुचिरनखं परिचुम्बतान्मनो मे ॥ १९॥ रघुकुलमणिदिव्यसौधदीपं सुरुचिररूपविधूतपुष्पचापम् । घनतरमदताटकास्वरूपज्वलनशिखाजलदं भजेऽभिरूपम् ॥ २०॥ चरणनखपरागजातकन्यावितरणमोदितगौतमातिमान्ये । विलगतु हृदयं महावदान्ये नवतरुणे मम भूसुताप्तिधन्ये ॥ २१॥ जनकवचनपालनात्तदीक्षे भरतमनोरथदायिदिव्यवीक्षे । विपिनभुवि विराधदत्तशिक्षे सततमियं मतिरस्तु दीनरक्षे ॥ २२॥ जरठतमजटायुमुक्तिदानप्रकटितनैजमहावदान्यभावे । कपिकुलपतिक्लृप्तमित्रभावे विहरतु मे हृदयं चिराय देवे ॥ २३॥ सरिदधिपतिमध्यबद्धसेतुच्छलपरिदर्शितवैरिधूमकेतुः । दशवदनविधूननैकहेतुर्हृदि नटताद्रघुवंशदिव्यकेतुः ॥ २४॥ रघुकुलधरणीशराज्यसिंहासनलसितं धरणीसुतात्तभावम् । शुभतमकरुणानिधिं भजामस्सकलगुणाकरमेनमादिदेवम् ॥ २५॥ वितरतु जगतां शुभानि कृष्णाभिधपरकालयतीश्वरेण क्लृप्ता । स्तुतिरिह महिशूरराजधानीनृपमणिकृष्णमहेन्द्रदेशिकेन ॥ २६॥ इति प्रपन्नमकरन्दस्तुतिस्सम्पूर्णा ।