अक्षर आकार:

प्रपन्नानन्दस्तोत्रम्

Prapannanandastotram

प्रपन्नानन्दस्तोत्रम्

श्रीवेङ्कटधरणीधरपतिवक्षस्स्थलविशालकेलिगृहम् । जगदुज्जीवनसुस्मितललितमुखं तन्ममास्तु वस्तु हृदि ॥ १॥ निबरीसभ्रमरीरुचिकबरीसङ्गतमनोज्ञसुमहारान् । कलयामहेऽत्युदारान्मुररिपुदारान्कृतार्तिपरिहारान् ॥ २॥ नववज्रकलितदिनकरसितकिरणाभरणरुचिरकचभारान् । करुणाभरसुस्मेरात्रुचिरविहारान्भजे हरेर्दारान् ॥ ३॥ कुङ्कुमतिलकितफाल विलुलितसुस्निग्धमुग्धकुन्तलजालम् । कलये वदान्यशीलं कलशाम्बुनिधेरपत्यमच्युतलोलम् ॥ ४॥ निटिलविजितेन्दुबालं भ्रूवल्लिस्फुरणवशितयदुबालम् । लक्ष्मीवदान्यलीलं वस्तु मदियेऽस्तु हृदि विनतपालम् ॥ ५॥ चम्पकसुमसमनासां सम्पन्निधिमाश्रयेंऽबुधिं भासाम् । अमरीणां सर्वासां शरण्यचरणां सरोरुहनिवासाम् ॥ ६॥ कुवलयरुचिमदविघटनपटुनयनयुगं तवार्थिकल्पनगम् । स्वान्ते करोमि मुररिपुकान्ते शान्ते नितान्तमेकान्ते ॥ ७॥ कलिताश्रितार्तिभङ्गान् वशितमहापुरुषविभ्रमविभङ्गान् । सञ्चिन्तयाम्यपाङ्गान्मङ्गल्देव्यास्सदा महोत्तुङ्गान् ॥ ८॥ वदनरुचिह्वदविहरन्नयनमहामीनराजनिष्ठथूतम् । नासाविवरविलग्नं नूनं ध्यायामि मौक्तिकं देव्याः ॥ ९॥ मुखविजितचन्द्रबिम्बं मुग्धाधरकान्तिधूतनवबिम्बम् । पङ्कजनयनकुटुम्बं सङ्कलये सर्वसुरजनालम्बम् ॥ १०॥ सकलजगदग्रगण्यं सरसिजनयनस्य परिणतं पुण्यम् । अस्मादृशां शरण्यं विभावये मनसि किमपि लावण्यम् ॥ ११॥ जगदीश्वरत्वयोग्य जगदीश्वरविहरणैकतमभोग्यम् । तत्किमपि महाभाग्यं मम नृत्यतु मनसि कल्पितारोग्यम् ॥ १२॥ शुभदायिनामधेयं सकलसुरस्तोमयुवतिजनगेयम् । गोविन्दभागधेयं गोपायतु मा नतावलिविधेयम् ॥ १३॥ मलयानिलकेलिसखं सुधासहाध्यायिदिव्यतररचनम् । वचनं सुधाब्धिपुत्र्या रचयतु सकलां श्रियं ममाविकलाम् ॥ १४॥ निजदयितवदनविधुरुचिविलोकनायात्तमुकुरयुगलमिव । विमलं कपोलयुगलं कमलायाश्चिन्तयान्तरङ्ग मम ॥ १५॥ लक्ष्म्या वदनशशाङ्कं श्रुतियुगसङ्कलितवज्रताटङ्कम् । ध्यायामि धुतातङ्कं मुक्तामणिभूषितं गताशङ्कम् ॥ १६॥ धृतदिव्यकनकचेलाः कैरवबन्धुस्तनन्धयनिटालाः । दिव्याः काश्चन लीला अव्यासुर्विकचपद्मवनलोला ॥ १७॥ चञ्चलकटाक्षरेखान्कांश्चिदुदञ्चितविभूषणमयूखान् । किलिकिञ्चितपरिवञ्चितबलिवञ्चकमानसान्भजामि रसान् ॥ १८॥ कनकसरोरुहकुट्मलदायादस्तनभरान्गभीरतरान् । कलयामि रूपविभवान्कांश्वन लीलातरङ्गितात्मभवान् ॥ १९॥ अमृतसखव्याहारानाश्रयविधुकिरणमदहरणहारान् । विभवान्काञ्चिदपरान्विश्वजगज्जीवनस्तनक्षीरान् ॥ २०॥ नलिनालङ्कृतहस्ता नलिनाक्षस्य प्रियां सुगुणशस्ताम् । प्रणमामश्शतशस्तां शरणागतरक्षणेष्वविस्रस्ताम् ॥ २१॥ मणिमयकङ्कणवलयं कलितसुराधीशखेदभरविलयम् । काञ्चनकाञ्चिकलापानञ्चितविद्युल्लतासदृशरूपान् ॥ २२॥ शरणागतभरणानघचरणामरुणाधरां जगज्जननीम् । करुणाभरवरुणालयपरिणाहिविलोचनां भजे शरणम् ॥ २३॥ किं बहुभिर्देवैरिह शम्बरडम्बरहरस्य तामम्बाम् । अश्रुजनयनसखीं विधुबिम्बमुखीं संश्रयानिशं हृदय ॥ २४॥ ललितपदं कलितमुदं जननिपदं श्रेयसां पठन्विशदम् । स्तवमिह तव प्रपन्नानन्दं विन्दत्यमन्दमानन्दम् ॥ २५॥ स्तुतिमिति महिशूरपुरीचाममहीपालकुलसमृद्धिकृते । तत्कुलगुरुर्व्यतानीच्छ्रीकृष्णब्रह्मतन्त्रपरकालः ॥ २६॥ इति श्रीकृष्ण ब्रह्मतन्त्र परकाल महादेशिकानां कृतिषु श्रीप्रपन्नानन्दस्तोत्रं सम्पूर्णम् ।