अक्षर आकार:

प्रपन्नामृतस्तोत्रम्

Prapannamritastotram

प्रपन्नामृतस्तोत्रम्

कलयतु कल्याणगुणं कमलाकुचकुङ्कुमाङ्कितोरस्कम् । यदुवंशमौक्तिकं तत्किमपि महस्सर्वदाऽपि मम हृदयम् ॥ १॥ वन्दे तं देवसुतं वसुदेववधूस्तनन्धयं कमपि । वरदं वरेण्यशीलं वल्लवभवनात्तलीलमिह बालम् ॥ २॥ व्रजरचितकेळिसुदतीव्रजहृदयानन्दकन्दळं किमपि । व्रज हृदय दिव्यतेजो वृजिनतमोमूलभेदनपटिष्ठम् ॥ ३॥ लीलामुदितयशोदं ललितप्रस्निग्धमुग्धतरवादम् । आकुञ्चितैकपादं भज तेजः किमपि विरचिताह्लादम् ॥ ४॥ हृदयनवनीतचोरं पारदतरलाङ्घ्रिकमलसञ्चारम् । परिलुलितगोपदारं गृहाण यत्नेन कमपि सुकुमारम् ॥ ५॥ गोपवधूभोगार्हं शेखरितानर्घबर्हिवरबर्हम् । घनविभवपारिबर्हं कलये हृदये चिराय दाशार्हम् ॥ ६॥ गोखुरविदारितावनिधूळीधूसरितकुन्तलमुदारम् । सञ्चिन्तयेऽन्तरङ्गे सकुमारं कमपि वल्लवकुमारम् ॥ ७॥ कमपि घनाघननीलं गोपवधूटीकुचग्रहविलोलम् । कलयामि गोपबालं लोलालकजालमधुकरितफालम् ॥ ८॥ कुन्दविनिन्दनरदनान्मन्दितपूर्णेन्दुबिम्बरुचिवदनान् । मुनिहृदयकेळिसदनान्व्रजविभवांस्तान्भजे विधुतमदनान् ॥ ९॥ नन्दानन्दनचन्दन मुचुकुन्दानन्दकन्द गोविन्द । मम विन्द हृदरविन्दं मिळिन्दसुन्दर मुकुन्द ननु मन्दम् ॥ १०॥ किमपि यशोदाभाग्यं व्रजललनापृथुलकुचयुगीभोग्यम् । क्षामि नीलरत्नं रमणीयं हृदयसम्पुटे नूत्नम् ॥ ११॥ मुरळीनिनादरसभरतरळीकृततर्णकव्रजो भजताम् । कोपि घनाघनशावः कोमलरूपोऽद्य दहरगहनं मे ॥ १२॥ कालिन्दीपुळिनान्तरककलितविहारं मनोज्ञमणिहारम् । तेजः किमपि विलीनं जागर्तु मदीयहृदि रुचिरलीलम् ॥ १३॥ कानपि भजे विलासान्कस्तिव्रजसुन्दरीरुचिररासान् । राधाकटाक्षदासान् राकासितकिरणसखहासान् ॥ १४॥ अतिमुग्धं दधि लब्धुं सुस्निग्धं वस्तु किमपि मम सिद्धम् । चारुमुखं तारसखस्मेरनखं तच्चिरादपारसुखम् ॥ १५॥ विकटातिदर्पदुर्मदशकटासुरधूतिधुर्यचरणतलम् । प्रकटानुरागरुचिरं सुकटाक्षान्मयि तनोतु ततेजः ॥ १६॥ यमुनाकूलविहारं यमिनामधुनाऽपि हन्त बहुदूरम् । महदच्युतकैशोरं मम हृदि वितनोतु नित्यसञ्चारम् ॥ १७॥ बहुतरतरङ्गघद्दितयमुनाशुक्तयुदरगळितमिव नीलम् । मुक्ताफलं प्रविचलत्तत्र विचित्रं विभावये हदये ॥ १८॥ सोमाननगोपीजनकौमारहरं प्रवाळलसदधरम् । तरुणं कमपि मनोहरचरणं शरणं भजे धृताभरणम् ॥ १९॥ खञ्जितगोपीहृदयं रञ्जितभुवनं श्रयामि गोपशिशोः । सञ्जीवितगोसन्तति मञ्जुळमञ्जीरशिञ्जितं नृत्तम् ॥ २०॥ कालीयफणमणिमध्ये नीलतरं नूत्नजातमिवरत्नम् । तन्मूर्धन्यस्तपदं चूडालङ्करणमस्तु धाम मम ॥ २१॥ सितकरकिरणत्रस्यद्गोपीरतिकेळिरचिततिमिरभरम् । तत्किमपि धाम हृदये नीलतरं नस्तमो निराकुरुताम् ॥ २२॥ निर्मलतरमतिशिशिरं निरुपममवगाहतां मनोरुचिरम् । नन्दकिशोरमनोहरशरीरतेजः कळिन्दजापूरम् ॥ २३॥ मह इह मनसि विलग्नं मणिमयकाञ्चीमनोहरवलग्नम् । गोपीकटाक्षमग्नं गोप्तुं क्षममेवमां भवविव्रिग्नम् ॥ २४॥ विन्दे पदारविन्दे मन्देतरविभवदे कृतानन्दे । नन्दकुलामन्दकला वृन्दविलासस्य कस्यचिद्धाम्नः ॥ २५॥ इतिमहिशूरपुरोत्तमनरपतिचामेन्द्रभूपकुलगुरुणा । कलिता स्तुतिर्विजयतां श्रीकृष्णब्रह्मतन्त्रकलिरिपुणा ॥ २६॥ इति श्रीकृष्ण ब्रह्मतन्त्र परकाल महादेशिकानां कृतिषु प्रपन्नामृतस्तोत्रं सम्पूर्णम् ।