अक्षर आकार:

प्रबोधनस्तोत्रम् अथवा दशावतार सुप्रभातम्

prabodhanastotram dashAvatAra suprabhAtam

प्रबोधनस्तोत्रम् अथवा दशावतार सुप्रभातम्

वृन्दावने हरिप्रबोधनविधिः । व्रतचूडामणिः (अत्रैव हि प्रकर्तव्यः प्रबोधस्तु हरेः खग । हतः शङ्खासुरो दैत्यो नभंसः शुक्लपक्षके । एकादश्यां ततो विष्णुः चातुर्मास्येषु सुप्तवान् । क्षीरोदधौ जाग्रतोऽसावेकादश्यां तु कार्तिके । अतः प्रबोधनं कार्यमेकादश्यां तु वैष्णवैः ॥) प्रबोधनस्तोत्रम् उत्तिष्टोत्तिष्ठ शङ्खघ्न उत्तिष्ठ श्रुतिसाधक । उत्तिष्ठ जगदाधार त्रैलोक्यं मङ्गलं कुरु ॥ १॥ उत्तिष्ठ धरणीधार मन्थानगिरिधारक । कूर्मरूपधरोत्तिष्ठ त्रैलोक्यं मङ्गलं कुरु ॥ २॥ उत्तिष्टोत्तिष्ठ वाराह दंष्ट्रोद्भृतवसुन्धर । हिरण्याक्षप्राणधातिन् त्रैलोक्यं मङ्गलं कुरु ॥। ३॥ हिरण्यकशिपुघ्न त्वं प्रह्लादानन्ददायक । लक्ष्मीपते समुत्तिष्ठ त्रैलोक्यं मङ्गलं कुरु ॥ ४॥ उत्तिष्ठ बलिदर्पघ्न देवेन्द्रपददायक । उत्तिष्ठादितिपुत्र त्वं त्रैलोक्यं मङ्गलं कुरु ॥ ५॥ उत्तिष्ठ हैहयाधीशसमस्तकुलनाशन । रेणुकाघ्न त्वमुत्तिष्ठ त्रैलोक्यं मङ्गलं कुरु ॥ ६॥ उत्तिष्ठ रक्षोदमन अयोध्यास्वर्गदायक । समुद्रसेतुकर्तस्त्वं त्रैलोक्यं मङ्गलं कुरु ॥। ७॥ उत्तिष्ठ कंसहरण मदघूर्णित लोचन । उत्तिष्ठ हलपाणे त्वं त्रैलोक्यं मङ्गलं कुरु ॥ ८॥ उत्तिष्ठ त्चं गयावासिन् त्यक्तलौकिकवृत्तिक । उत्तिष्ट पद्मासनग त्रैलोक्यं मङ्गलं कुरु ॥ ९॥ उत्तिष्ठ म्लेच्छनिवह खड्गसंहारकारक । अश्ववाह युगान्त त्वं त्रैलोक्यं मङ्गलं कुरु ॥। १०॥ उत्तिष्ठोत्तिष्ठ गोविन्द उत्तिष्ठ गरुडध्वज । उत्तिष्ठ कमलाकान्त त्रैलोक्यं मङ्गलं कुरु ॥ ११॥ इत्युक्त्वा शङ्खभेर्यादि प्रातः काले तु वादयेत् वीणावेणु मृदङ्गादि नृत्तगीतादि कारयेत् ॥ उत्थापयित्वा देवेशं पूजां तस्य विधाय च । सायं काले प्रकर्तव्यः तुलस्युद्वाहको विधिः ॥