अक्षर आकार:

प्रातरनुसन्धेयश्लोकाः

Prataranusandheyashlokah

प्रातरनुसन्धेयश्लोकाः

श्रीरस्तु । श्रीमते हयग्रीवायनमः । श्रीमते रामानुजाय नमः ॥ ग्राहग्रस्ते गजेन्द्रे रुवति सरभसं तार्क्ष्यमारुह्य धावन् व्याघूर्णन्माल्यभूषावसनपरिकरो मेघगम्भीरघोषः । आबिभ्राणो रथाङ्गं शरमसिमभयं शङ्खचापौ सखेटौ हस्तैः कौमोदकीमप्यवतु हरिरसांवहसां संहतेर्नः ॥ १॥ नक्राक्रान्ते करीन्द्रे मुकुलितनयने मूलमूलेति खिन्ने नाहं नाहं नचाहं न च भवति पुनस्तादृशो मादृशेषु । इत्येवं त्यक्तहस्ते सपदि सुरगणे भावशून्ये समस्ते मूलं यः प्रादुरासीत्स दिशतु भगवान् मङ्गलं सन्ततं नः ॥ २॥ प्रातःस्मरामि भवभीतिमहार्तिशान्त्यै नारायणं गरुडवाहनमञ्जनाभम् । ग्राहाभिभूतमदवारणमुक्तिहेतुं चक्रायुधं तरुणवारिजपत्रनेत्रम् ॥ ३॥ प्रातर्नमामि मनसा वचसा च मूर्ध्ना पादारविन्दयुगलं परमस्य पुंसः । नारायणस्य नरकार्णवतारणस्य पारायणप्रवणविप्रपरायणस्य ॥ ४॥ प्रातर्भजामि भजतामभयङ्करं तं प्राक्सर्वजन्मकृतपापभयापनुत्त्यै । यो ग्राहवक्त्रपतिताङ्घ्रिगजेन्द्रघोर- शोकप्रणाशनकरो धृतशङ्खचक्रः ॥ ५॥ इति प्रातरनुसन्धेयश्लोकाः समाप्ताः ।