अक्षर आकार:

प्रातःस्मरणमङ्गलस्तोत्रम्

Pratahsmaranamangalastotram

प्रातःस्मरणमङ्गलस्तोत्रम्

उत्तिष्ठोत्तिष्ठ गोविन्द उत्तिष्ठ गरुडध्वज । उत्तिष्ठ कमलाकान्त त्रैलोक्यं मङ्गलं कुरु ॥ १॥ मङ्गलं भगवान् विष्णुः मङ्गलं गरुडध्वजः । मङ्गलं पुण्डरीकाक्षः मङ्गलायतनं हरिः ॥ २॥ मूकं करोति वाचालं पङ्गुं लङ्घयते गिरिम् । यत्कृपा तमहं वन्दे परमानन्दमाधवम् ॥ ३॥ नमो ब्रह्मण्यदेवाय गो -ब्राह्मण -हिताय च । जगद्धिताय कृष्णाय गोविन्दाय नमो नमः ॥ ४॥ कृष्णाय वासुदेवाय देवकीनन्दनाय च । नन्दगोपकुमाराय गोविन्दाय नमो नमः ॥ ५॥ त्वमेव माता च पिता त्वमेव त्वमेव बन्धुश्च सखा त्वमेव । त्वमेव विद्या द्रविणं त्वमेव त्वमेव सर्वं मम देवदेव ॥ ६॥ इति प्रातःस्मरणमङ्गलस्तोत्रं समाप्तम् ।