अक्षर आकार:

फणीन्द्रक्ष्माभृत्स्तोत्रम्

PhanindrakShmabhritstotram

फणीन्द्रक्ष्माभृत्स्तोत्रम्

अस्ति श्रीमानवनितिलको वेङ्कटो नाम शैलो भूयानेको भुवि परिणतः पुण्यराशिः प्रजानाम् । सारोद्धारस्सकलजगतां स्थापितः क्वापि धात्रा यस्मिन् साक्षात्परमपुरुषो दीव्यति श्रीसहायः ॥ १॥ सौवर्णात्मा मरतकमयैर्वज्रवैढूर्यरूपैः नीलोत्की ?णैः? स्फटिकघटितैः पद्मरागप्रणीतैः । नानारत्नाकृतिभिरखिलैस्सानुभिस्सम्भृतश्रीः सर्वैस्सोऽयं सुरगिरिरिति प्रत्यभिज्ञायते यः ॥ २॥ उर्वी ?गुर्वी? मुदधिवसनामुद्वहन् भूललग्नाम् उत्तुङ्गाग्रैरुपरिशिखरैरुल्लिखन्नूर्ध्वसीमाम् । तिर्यग्दिव्याकृतिमहिमतश्छादयन् यो दिगन्तान् विष्णुस्साक्षाद ?यमिति? जनैस्तर्क्यते भूवराहः ॥ ३॥ मन्दस्पन्दानिलविवलिताताम्रबालप्रवाल- स्वैरास्वादप्रमदविहरत्कोकिलालापगर्भैः । सान्द्रच्छायैस्सरसकुसुमैस्सौरभाकृष्टभृङ्गैः सर्वैर्वृक्षैस्सततफलितैर्यः सदा सम्भृतश्रीः ॥ ४॥ स्वैः पाद्यार्ध्यप्रभृति ददतः स्यन्दमानैर्मरन्दैः भव्यामोदैः पवनगलितैरर्चयन्तः प्रसूनैः । वृन्तोद्वान्तैः परिणतफलैर्नित्यक्लृप्तोपहाराः धन्या वृक्षा ?यदुपरि? रमावा समाराधयन्ति ॥ ५॥ पुण्यामोदप्रसवलहरीवासिताशावकाशैः दूरेदूरे दुरितशमनैः पश्यतां प्राणभाजाम् । श्रीमन्नारायणवरशिरोभूषणीभाव ?भव्यैः? स्निग्धैः कृष्णैस्तरुणतुलसीकाननैः पावनो यः ॥ ६॥ नित्याशुष्यत्सलिलसरसीस्यन्दसन्धुक्षितानां श्रावंश्रावं श्रवणसुभगं निस्वन्ं निर्झराणाम् । ?धत्ते? धाराधररवधिया नृत्यतो नीलकण्ठान् केकाकण्ठान्निजसहचरीनित्यनेत्रोत्सवान् यः ॥ ७॥ दंशं दंशं कुशनवदलैर्दभदूर्वाप्रवालान् खादङ्खादं पृथुमृदुफलं भूरुहां भूविकीर्णम् । पायम्पायं यदुपरि पयः पावनं दिर्धिकाणां मादम्मादं विहरति मृगीयूथपः कृष्णासारः ॥ ८॥ घो ?धी? राः सिंहाः कुपितशरभाः कुञ्जरेन्द्रा मदान्धाः घोरा व्याघ्रा कटुअककिटयो भीमभल्लूकसङ्घाः । सर्वे चान्ये सहजरिपवो जन्तवो यत्रवा ?साः? ?सं? गाहन्ते प्रशमितरुषः स्वैरमेकोदपाने ॥ ९॥ श्रीमद्वादिप्रवरभयकृद्देशिकोक्तं फणिन्द्र- क्ष्माभृत्स्तोत्रं भुवनमहितं शब्दतोऽर्थाच्च साधु । श‍ृत्वा प्री ?ता भव? तु जनता काव्यनाट्यादिदक्षाः नैतत्तुल्यं भवति भवति स्मापि यावद्धारित्र्याम् ॥ १०॥ इति फणीन्द्रक्ष्माभृत्स्तोत्रम् ।