अक्षर आकार:

श्रीमद्पेद्दापुरं लक्ष्मीयोगनारसिंहस्वामि सुप्रभातम्

Shrimadpeddapuram Lakshmiyoganarasimhasvami Suprabhatam

श्रीमद्पेद्दापुरं लक्ष्मीयोगनारसिंहस्वामि सुप्रभातम्

ॐ गँ गणपतये नमः ॥ ॐ श्रीवागीश्वर्यै नमः ॥ ॐ श्रीलक्ष्मी समेत योगनारसिंहस्वामिने नमः ॥ श्री पेद्दापुरं लक्ष्मीयोगनारसिंहस्वामि सुप्रभातम् कोरिडे विश्वनाथ शर्मा, संस्कृतोपन्यासकः । उत्तिष्ठोत्तिष्ठ लक्ष्मीश ! उत्तिष्ठ नरकेसरिन्! । उत्तिष्ठ जगतां नाथ ! उदयाद्रिं गतो रविः ॥ १॥ श्रीलक्ष्मि! माधवि ! रमे ! जगदेकमातः क्षीराब्धिजे ! सुरनुते ! कमले ! मनोज्ञे ! । नारायणीन्दुसहजे ! परिरक्ष लोकान् पेद्दापुरेशदयिते ! तव सुप्रभातम् ॥ २॥ हे वासुदेव ! पुरुषोत्तम ! नारसिंह ! लक्ष्मीश ! जगृहि परात्पर ! पद्मनाभ ! । रक्ष्या त्वया हि जगती न सदाऽन्यकैस्तु पेद्दापुरेश ! नृहरे ! तव सुप्रभातम् ॥ ३॥ प्रह्लादरक्षक ! जनार्दन ! दैत्यनाश ! पेद्दापुराद्रिनिलयार्कसुधांशुनेत्र ! । त्वद्वीक्षणार्थमिहचेक्षति भक्तबृन्दं पेद्दापुरेश ! नृहरे ! तव सुप्रभातम् ॥ ४॥ पेद्दापुरस्यनिकटे गिरिमाश्रितः सन् भक्तान् सदा हि परिपालयसीश ! नित्यम् । त्वद्भक्तरक्षणकृते ननु ते हि निष्ठा पेद्दापुरेश ! नृहरे ! तव सुप्रभातम् ॥ ५॥ भक्ताः प्रदक्षिणविधिं त्ववलम्भ्य निष्ठाः कुर्वन्तिचात्र शकटैस्तु मुहुर् भ्रमन्ति यत्त्वंह्यभीष्ट फलमाशु ददासि नूनम् पेद्दापुरेश ! नृहरे ! तव सुप्रभातम् ॥ ६॥ ब्रह्मादयः सुरवरा वरयोगिबृन्दाः स्नातानुलिप्तकृतनिष्ठवरिष्ठभक्ताः । ध्यानैकचित्तवशगा स्तव द्रष्टुकामाः पेद्दापुरेश ! नृहरे ! तव सुप्रभातम् ॥ ७॥ श्रीचान्द्रमानगणने शुभचैत्रमासे एकादशी शुभदिने वरशुक्लपक्षे । कल्याणमीक्षितजनास्तव लब्धभागाः पेद्दापुरेश ! नृहरे ! तव सुप्रभातम् ॥ ८॥ यो मातृदास्यमपहर्तुमयं द्विजेन्द्रः जित्वा महेन्द्रमपि देव! सुधां निनाय । स त्वीक्षतेऽत्र तव वाहनवैनतेयः पेद्दापुरेश ! नृहरे ! तव सुप्रभातम् ॥ ९॥ वृक्षाग्रभगनिवसेषु विहङ्गमाश्च ते चैव दर्शनफलं ननु बोधयन्ति । तत्वं प्रवक्तुमयि ते प्रकृतिर्वरिष्ठा पेद्दापुरेश ! नृहरे ! तव सुप्रभातम् ॥ १०॥ मुग्धेषु पद्मनिकरेषु निबद्धभृङ्गाः अद्यैवभानुकिरणैस्तु विमुक्तका ये । गायन्ति तेऽत्र हि सुतुल्यविमुक्तसङ्गाः पेद्दापुरेश ! नृहरे ! तव सुप्रभातम् ॥ ११॥ इन्द्वर्कनेत्र ! भवतः खलु सेवनेषु इन्दुस्तु ते स्वसहजामकरोद्धि पत्नीम् । भानुः करैः स्वप्रथमैर् यजते पदौ ते पेद्दापुरेश ! नृहरे ! तव सुप्रभातम् ॥ १२॥ अथ स्तोत्रम् हृतपापचयास्तव मन्दिरगा गतविष्णुपदास्तव भक्तवराः । जिततापसिकास्तव दासवरा विजयी भव देव! नृसिंह विभो! ॥ १॥ तव वैरिरहो ! ननु दैत्यवरस् तव लब्धवरो ननु दैत्यशिशुः । तव दातृवरो ननु दैत्यबलिर् विजयी भव देव! नृसिंह विभो! ॥ २॥ ननु दैत्यवधे तव सिंहमुखम् । नुतपालकृते नृतनुस्तव भोः । अवनीमवनेह्यवतारितवान् विजयी भव देव! नृसिंह विभो! ॥ ३॥ मृगराजमुखाञ्चितपुण्यतनो ! खगराजविराजितयानविभो फणिराजविभूषितपीठहरे विजयी भव देव! नृसिंह विभो! ॥ ४॥ ! नृसिंह विभो!!!! नृसिंह विभो! अथ प्रपत्तिः प्रह्लादकस्य हि वचः परिरक्षणार्थं स्तम्भोद्भवन् प्रकटिताद्भुतदर्शनोऽसि । भक्तानुरागमयि ते विशदीकृतं हि पेद्दापुरेश ! चरणौ शरणं प्रपद्ये ॥ १॥ त्वं लोकसृष्टिकरणे ननु ब्रह्मरूपः तल्लोकपालनकृते ननु विष्णुरूपः तज्जीर्णलोकविलयीकरणे च रुद्रः पेद्दापुरेश ! चरणौ शरणं प्रपद्ये ॥ २॥ दासौ तवैव नितरां खलु भक्तिशून्यौ भक्तावमानक्रियया गतदैत्यरूपौ । प्रह्लादकस्तु तव लब्धवरोऽर्भदैत्यः पेद्दापुरेश ! चरणौ शरणं प्रपद्ये ॥ ३॥ शूरोऽस्म्यहन्त्विति सुगर्वितदुष्टदैत्यः मृत्युं त्वया स्वनियतिं त्वनुलङ्घ्ययातः । दुष्टाय कल्पयसि भोः! स्ववचोऽनुनाशं पेद्दापुरेश ! चरणौ शरणं प्रपद्ये ॥ ४॥ बालो धृवो ननु जितेन्द्रियतापसोऽसौ यस्ते प्रसादमलभज्जगदुन्नतं हि । भक्तिस्त्वयीश! प्रमुखा न वयः प्रमाणं पेद्दापुरेश ! चरणौ शरणं प्रपद्ये ॥ ५॥ अथ श्री मङ्गळाशासनम् अकाराय ह्यनन्ताय अष्टैश्वर्यप्रदायिने । अदिमध्यान्तहीनाय नारसिंहाय मङ्गळम् ॥ १॥ इन्द्रादिभिः सुसेव्याय इन्दिरानन्ददायिने । ईप्सितार्थप्रदायास्मै नारसिंहाय मङ्गळम् ॥ २॥ उग्ररूपाय दैत्येभ्य उडूनाम्पतिचक्षुषे ऊर्ध्वस्रोतस्वरूपाय नारसिंहाय मङ्गळम् ॥ ३॥ ऋग्वेदादिभिस्तुत्याय ऋद्धिबुद्धिप्रदायिने । ऋषिभिर् ध्यानगम्याय नारसिंहाय मङ्गळम् ॥ ४॥ एकरूपाय नित्याय एकस्मै विश्वचक्षुषे । एकान्तिजनरक्षाय नारसिंहाय मङ्गळम् ॥ ५॥ ऐहिकामुष्मिकं दात्रे ऐश्वर्यानन्ददायिने । ऐक्ष्वाकुकलरामाय नारसिंहाय मङ्गळम् ॥ ६॥ ओङ्कारनादरूपाय ओजसे सूर्यकोटिनाम् । ओषधीशसुनेत्राय नारसिंहाय मङ्गळम् ॥ ७॥ औग्र्यदैत्यविनाशाय औदुम्बरप्रियात्मने औषधायामयानां च नारसिंहाय मङ्गळम् ॥ ८॥ सिद्धसाध्यनुतायास्मै देवकोटिस्तुताय च पेद्दापुराद्रिवासायनारसिंहाय मङ्गळम् ॥ ९॥ ब्रह्मादिभिः सुवन्द्याय भक्तैश्वर्यप्रदायिने । पेद्दापुराद्रिवासायनारसिंहाय मङ्गळम् ॥ १०॥ फलश‍ृति यद् विश्वनाथकृतवाङ्मयसेवनं हि पेद्दापुरेशनृहरेः शुभसुप्रभातम् । प्रातस्तु ये निलयमेत्य पठन्ति भक्त्या ते नारसिंहसदनुग्रहपात्रतार्हाः ॥ १॥ मया हि कोरिडे कुलीन विश्वनाथशर्मणा मुदा कृतं तु नारसिंहसुप्रभातसेवनम् । नरेन्द्रकण्ठराजितं सदा ह्यरिष्टनाशकं भवेन्नृसिंहमोदकं प्रपाठकाय मोक्षदम् ॥ २॥ हरिः ॐ । स्वस्तिप्रजाभ्यः परिपालयन्तां न्यायेन मार्गेण महीं महीशाः । गोब्राह्मणेभ्यः शुभमस्तु नित्यं लोकाः समस्ताः सुखिनो भवन्तु ॥ काले वर्षन्तु पर्जन्याः पृथिवी सस्यशालिनी देशोऽयं क्षोभरहितो ब्राह्मणाः सन्तुनिर्भयाः । अपुत्राः पुत्रिणः सन्तु पुत्रिणः सन्तु पौत्रिणः अधनाः सधनाः सन्तु जीवन्तु शरदां शतम् ॥ कायेन वाचा मनसेन्द्रियैर्वा बुध्यात्मना वा प्रकृतेः स्वभावात् । करोमि यद्य्तत् सकलं परस्मै नारायणायेति समर्पयामि ॥ हरिः ओं तत्सत् परमेश्वरार्पणमस्तु ॥