अक्षर आकार:

परत्वादिपञ्चकम्

Paratvadipanchakam

परत्वादिपञ्चकम्

श्रीवात्स्यवरदगुरुभिरनुगृहीतं श्रीरस्तु । श्रीमते हयग्रीवायनमः । श्रीमते रामानुजाय नमः ॥ वन्देऽहं वरदार्यं तं वत्साभिजनभूषणम् । भाष्यामृतप्रदानाद्यः सञ्जीवयति मामपि ॥ उद्यद्भानुसहस्रभास्वरपरव्योमास्पदं निर्मल- ज्ञानानन्दघनस्वरूपममलज्ञानादिभिष्षङ्गुणैः । जुष्टं सूरिजनाधिपं धृतरथाङ्गाब्जं सुभूषोज्ज्वलं श्रीभूसेव्यमनन्तभोगिनिलयं श्रीवासुदेवं भजे ॥ १॥ आमोदे भुवने प्रमोद उत सम्मोदे च सङ्कर्षणं प्रद्युम्नं च तथाऽनिरुद्धमपि तान् सृष्टिस्थिती चाप्ययम् । कुर्वाणान् मतिमुख्यषङ्गुणवरैर्युक्तांस्त्रियुग्मात्मकैः व्यूहाधिष्ठितवासुदेवमपि तं क्षीराब्धिनाथं भजे ॥ २॥ वेदान्वेषणमन्दराद्रिभरण क्ष्मोद्धारणस्वाश्रित- प्रह्लादावनभूमिभिक्षणजगद्विक्रान्तयो यत्क्रियाः । दुष्टक्षत्रनिबर्हणं दशमुखाद्युन्मूलनं कर्षणं कालिन्द्या अतिपापकंसनिधनं यत्क्रीडितं तं नुमः ॥ ३॥ यो देवादिचतुर्विधेष्टजनिषु ब्रह्माण्डकोशान्तरे सम्भक्तेषु चराचरेषु निवसन्नास्ते सदान्तर्बहिः । विष्णुं तं निखिलेष्वणुष्वणुतरं भूयस्सु भूयस्तरं स्वाङ्गुष्ठप्रमितं च योगिहृदयेष्वासीनमीशं भजे ॥ ४॥ श्रीरङ्गस्थलवेङ्कटाद्रिकरिगिर्यादौ शतेऽष्टोत्तरे स्थाने ग्रामनिकेतनेषु च सदा सान्निध्यमासेदुषे । अर्चारूपिणमर्चकाभिमतितः स्वीकुर्वते विग्रहं पूजां चाखिलवाञ्छितान् वितरते श्रीशाय तस्मै नमः ॥ ५॥ प्रातर्विष्णोः परत्वादिपञ्चकस्तुतिमुत्तमाम् । पठन् प्राप्नोति भगवद्भक्तिं वरदनिर्मिताम् ॥ ६॥ इति परत्वादिपञ्चकं समाप्तम् ।