अक्षर आकार:

परशुरामाष्टाविंशतिनामस्तोत्रम्

parashurAmAShTAvinshatinAmastotram

परशुरामाष्टाविंशतिनामस्तोत्रम्

श्री गणेशाय नमः । ऋषिरुवाच । यमाहुर्वासुदेवांशं हैहयानां कुलान्तकम् । त्रिःसप्तकृत्वो य इमां चक्रे निःक्षत्रियां महीम् ॥ १॥ दुष्टं क्षत्रं भुवो भारमब्रह्मण्यमनीनशत् । तस्य नामानि पुण्यानि वच्मि ते पुरुषर्षभ ॥ २॥ भूभारहरणार्थाय मायामानुषविग्रहः । जनार्दनांशसम्भूतः स्थित्युत्पत्त्यप्ययेश्वरः ॥ ३॥ भार्गवो जामदग्न्यश्च पित्राज्ञापरिपालकः । मातृप्राणप्रदो धीमान् क्षत्रियान्तकरः प्रभुः ॥ ४॥ रामः परशुहस्तश्च कार्तवीर्यमदापहः । रेणुकादुःखशोकघ्नो विशोकः शोकनाशनः ॥ ५॥ नवीननीरदश्यामो रक्तोत्पलविलोचनः । घोरो दण्डधरो धीरो ब्रह्मण्यो ब्राह्मणप्रियः ॥ ६॥ तपोधनो महेन्द्रादौ न्यस्तदण्डः प्रशान्तधीः । उपगीयमानचरितः सिद्धगन्धर्वचारणैः ॥ ७॥ जन्ममृत्युजराव्याधिदुःखशोकभयातिगः । इत्यष्टाविंशतिर्नाम्नामुक्ता स्तोत्रात्मिका शुभा ॥ ८॥ अनया प्रीयतां देवो जामदग्न्यो महेश्वरः । नेदं स्तोत्रमशान्ताय नादान्तायातपस्विने ॥ ९॥ नावेदविदुषे वाच्यमशिष्याय खलाय च । नासूयकायानृजवे न चानिर्दिष्टकारिणे ॥ १०॥ इदं प्रियाय पुत्राय शिष्यायानुगताय च । रहस्यधर्मो वक्तव्यो नान्यस्मै तु कदाचन ॥ ११॥ ॥ इति परशुरामाष्टाविंशतिनामस्तोत्रं सम्पूर्णम् ॥