अक्षर आकार:

श्रीपरशुरामाष्टकम् २

shrIparashurAmAShTakam 2

श्रीपरशुरामाष्टकम् २

आचार्य राधेश्याम अवस्थी ``रसेन्दु'' कृतम् श्रीमद्भगवत्परशुरामाय नमः । विप्रवंशावतंशं सदा नौम्यहं रेणुकानन्दनं जामदग्ने प्रभो । द्रोहक्रोधाग्नि वैकष्टतां लोपकं रेणुकानन्दनं वन्दते सर्वदा ॥ १॥ क्षत्रदुष्टान्तकं वै करस्यं धनुं राजतेयस्य हस्ते कुठारं प्रभो । फुल्लरक्ताब्ज नेत्रं सदा भास्वरं रेणुकानन्दनं वन्दते सर्वदा ॥ २॥ तेजसं शुभ्रदेहं विशालौ करौ श्वेतयज्ञोपवीतं सदाधारकम् । दिव्यभाले त्रिपुण्ड्रं जटाजूवरं रेणुकानन्दनं वन्दते सर्वदा ॥ ३॥ भक्तपालं कृपालं कृपासागरं रौद्ररूपं करालं सुरैः वन्दितैः । जन्मतो ब्रह्मचारी व्रतीधारकः रेणुकानन्दनं वन्दते सर्वदा ॥ ४॥ ज्ञानविज्ञानशक्तिश्च भण्डारकः वेदयुद्धेषु विद्यासु पारङ्गतः । वासमाहेन्द्रशैले शिवाराधकः रेणुकानन्दनं वन्दते सर्वदा ॥ ५॥ ज्ञानदाता विधाता सदा भूतले पापसन्तापकष्टादि संहारकः । दिव्यभव्यात्मकं पूर्णं योगीश्वरं रेणुकानन्दनं वन्दते सर्वदा ॥ ६॥ आर्तदुःखादिकानां सदारक्षकः भीतदैत्यादिकानां सदा नाशकः । त्रीन्गुणः सप्तकृत्वातुभूर्दत्तकः रेणुकानन्दनं वन्दते सर्वदा ॥ ७॥ शीलकारुण्यरूपं दयासागरं भक्तिदं कीर्तिदं शान्तिदं मोक्षदम् । विश्वमायापरं भक्तसंरक्षकं रेणुकानन्दनं वन्दते सर्वदा ॥ ८॥ भार्गवस्याष्टकं नित्यं प्रातः सायं पठेन्नरः । तस्य सर्वभयं नास्ति भार्गवस्य प्रसादतः ॥ इति आचार्य राधेश्याम अवस्थी ``रसेन्दु'' कृतम् श्रीपरशुरामाष्टकं सम्पूर्णम् ॥ From sanskritsamvad.com Sanskrit Biweekly publication Sample Year 5 Number 19 April 2016 page 7