अक्षर आकार:

श्रीपरशुरामाष्टकम् ३

Shri Parasuramashtakam 3

श्रीपरशुरामाष्टकम् ३

॥ श्रीमद्दिव्यपरशुरामाष्टकस्तोत्रम् ॥ ब्रह्मविष्णुमहेशसन्नुतपावनाङ्घ्रिसरोरुहं नीलनीरजलोचनं हरिमाश्रितामरभूरुहम् । केशवं जगदीश्वरं त्रिगुणात्मकं परपूरुषं पर्शुराममुपास्महे मम किङ्करिष्यति योऽपि वै ॥ १॥ अक्षयं कलुषापहं निरुपद्रवं करुणानिधिं वेदरूपमनामयं विभुमच्युतं परमेश्वरम् । हर्षदं जमदग्निपुत्रकमार्यजुष्टपदाम्बुजं पर्शुराममुपास्महे मम किङ्करिष्यति योऽपि वै ॥ २॥ रैणुकेयमहीनसत्वकमव्ययं सुजनार्चितं विक्रमाढ्यमिनाब्जनेत्रकमब्जशार्ङ्गगदाधरम् । छत्रिताहिमशेषविद्यगमष्टमूर्तिमनाश्रयं - ?? पर्शुराममुपास्महे मम किङ्करिष्यति योऽपि वै ॥ ३॥ बाहुजान्वयवारणाङ्कुशमर्वकण्ठमनुत्तमं सर्वभूतदयापरं शिवमब्धिशायिनमौर्वजम् । भक्तशत्रुजनार्दनं निरयार्दनं कुजनार्दनं पर्शुराममुपास्महे मम किङ्करिष्यति योऽपि वै ॥ ४॥ जम्भयज्ञविनाशकञ्च त्रिविक्रमं दनुजान्तकं निर्विकारमगोचरं नरसिंहरूपमनर्दहम् । वेदभद्रपदानुसारिणमिन्दिराधिपमिष्टदं पर्शुराममुपास्महे मम किङ्करिष्यति योऽपि वै ॥ ५॥ निर्जरं गरुडध्वजं धरणीश्वरं परमोददं सर्वदेवमहर्षिभूसुरगीतरूपमरूपकम् । भूमतापसवेषधारिणमद्रिशञ्च महामहं पर्शुराममुपास्महे मम किङ्करिष्यति योऽपि वै ॥ ६॥ सामलोलमभद्रनाशकमादिमूर्तिमिलासुरं सर्वतोमुखमक्षिकर्षकमार्यदुःखहरङ्कलौ । वेङ्कटेश्वररूपकं निजभक्तपालनदीक्षितं पर्शुराममुपास्महे मम किङ्करिष्यति योऽपि वै ॥ ७॥ दिव्यविग्रहधारिणं निखिलाधिपं परमं महा- वैरिसूदनपण्डितं गिरिजातपूजितरूपकम् । बाहुलेयकुगर्वहारकमाश्रितावळितारकं पर्शुराममुपास्महे मम किङ्करिष्यति योऽपि वै ॥ ८॥ पर्शुरामाष्टकमिदं त्रिसन्ध्यं यः पठेन्नरः पर्शुरामकृपासारं सत्यं प्राप्नोति सत्वरम् ॥ ॥ इति श्रीपूसपाटि रङ्गनायकामात्य भार्गवर्षिकृत श्रीमद्दिव्यपरशुरामाष्टकं सम्पूर्णम् ॥